________________
१५२ श्रीजेसलमेरुदुर्गस्थ
[क्र. ३५२ अथाभ्युदयमासदत् प्रभुजिनेश्वरश्चन्द्रमा रमास्पदमिदं गणाम्बुधिविलासजाग्रत्करः । जिनेन्द्रभवनाचलाः प्रतिपदं यदीयोदये बभुः प्रथमचन्द्रिकात् कनककुम्भचण्डाद्भुताः ॥१०॥ यस्तात्कालिकनव्यकाव्यकुसुमैरार्चीत् त्रिसन्ध्यं जिनान् नानालब्धिनदीनदीपरिवृढो योऽनुव्यधागौतमम् । श्रीक्ष्माऽभूष्यत यत्प्रतिष्ठिततमः शिष्यविहारैद्विधा, यद्वा यो विधिधर्मसीम्नि सुकृताद्वैत बताऽधात् कलौ॥19॥ सुगुरुसुरतरुस्ततोऽभ्युदीतः पृणति जगति जिनप्रबोधसूरिः ।। समयमसुमति प्रभावनाभिर्बत सुषमासुषमा न य............॥१२॥ ... वाक्यात् सततं मनीषितलताविस्तारधाराधरान् श्रीसूरीन्द्रजिनेश्वरस्य सुगुरोः शिष्यावतंसाग्रणीः । एष श्री..................जन्निर्वाणलीलावतीसारं सारमुदारभक्तिमधुरः प्राक् सूरिपादाम्बुजे ॥१३॥ स्तुमः प्रभु जिनेश्वरं............ ..........गुरुं कवित्वपदविद्गुरुं यतिपसर्वदेवप्रभुम् । प्रमाणपदवीगुरुं विजयदेवसूरि महाभिषेक.................................गमगुरु नमस्कुर्महे ॥१४॥ लीलावती द्विनवते शरदां सहस्र श्रीवैक्रमेऽरचि जिनेश्वरसूरि......। .........संचितिरिय पुनरेकचत्वारिंशत्त्रयोदशशतेषु मया वितेने ॥१५॥ सहैव लक्ष्मीतिलकानु[जेन प्रत्येक बुद्धं चरितं व्यधाम । लीलावतीसारममुं तु जैनेश्वरप्रबंधेन सहाग्रजेन ॥१६॥ प्राचीनसद्गुरुजिनेश्वरसूरि......लीलावतीसमभिधानकथेति वृत्तम् । पीयूष.........विदधे मयेति हस्ते प्रगृह्य तदिदं सुधियो धयंतु ॥१७॥ मार्गा...दि......शि पुष्ययोगे, जाबालिपत्तनवरेऽथ समर्थितोऽयम् ।
प्रत्यक्षरं गणनया......पञ्चाशतार्द्ध, सार्द्धत्रिशत्यधिकमुक्तमनुष्टुमां भोः ॥१८॥ अङ्कतोऽपि ५३५० ॥
व्या......श्रुतपथपथिकेन जिनप्रबोधयतिपतिना । समशोधि रा...गणिनाऽसौ सौम्यमूर्तिगणिना च ॥१९॥ छदोव्याकरणप्रमाण............कारपारीणधीः काव्यज्ञानविधानशोधनकलाचातुर्य............। आदर्श प्रथमे समक्रमयता सौम्यमूर्तिर्गणिः साहाय्य............रगणिप्रष्ठा: समेऽप्यादधुः ॥२०॥ सर्वद्वीपसरस्वतां क्षितिभृतां मेलं मिथो वि......, ...............जन्मरत्नकनकप्राग्भारसारश्रियम् । यावत् प्राञ्चति रत्नसानुशिखरी निर्वाणलीलावतीसारस्तावदयं नितांतमुदियाद् व्याख्यायमानो बुधैः ॥२१॥
इतिग्रन्थप्रशस्तिः सम्पूर्णा ॥छ॥ शुभमस्तु चतुर्विधश्रीश्रमणसङ्घस्य ॥छ॥ [श्रीयुत ची. डा. दलाले जणाव्यु छ के-आ प्रतिमां एक कागळनी चीरमां "श्रीजिनरत्नाचार्यविरचिता निर्वाणलीलावतीकथा।" एम लखेल छे. पण आ चीर त्यां मारा जोवामां आवी नथी।]
__ क्रमाङ्क ३५२ लीलावतीकथा गाथाबद्ध-महाराष्ट्रीय देशीभाषामय पत्र १४३। मा. प्रा.। क. भूषणभट्ट पुत्र कुतूहल कवि । ले. सं. १२६५ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४॥४१॥ अन्त॥ संवत् १२६५ वर्षे पौष शुदि द्वादश्यां शनौ लीलावती नाम कथा समाप्तेयम् ॥छ। भद्रमस्तु ॥७॥
क्रमाङ्क ३५३ अपभ्रंशकाव्यत्रयी त्रूटक पत्र १०७ । भा. अप. ।
(१) चर्चरीरासक सटीक. पत्र १-३७ । भा. अप. सं. । मू. क. जिनवल्लभगणि। टी. क. जिनपाल । टी. र. सं. १२९४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org