________________
१३२ श्रीजेसलमेरुदुर्गस्थ
[ क्र. ३१३यः प्रातरेव रचयाञ्चकार चिन्तां सधर्मणां नृणाम् । ग्लानानां निःस्वानां निजौषधार्मिहाश्राद्धः ॥४॥
पुरे च यः श्रीमरुकोहनामनि क्षोणीपतेः सिंहबलस्य सन्मतेः ।
कान्तं निशान्तं नितरामचीकरच्चन्द्रप्रभस्योत्तमतुङ्गशृङ्गभृत् ॥५॥ तञ्च शुचिरुचिरचरितगुरुणा वादिद्विपेन्द्रकेसरिणा। जिनचन्द्रसूरिगुरुणा मुदा प्रतिष्ठापयामास ॥६॥ तस्याऽऽसंश्चत्वारः पुत्राः प्रत्यस्तनिखिलमिथ्यात्वाः । सम्यक्त्वाद् यच्चेतो न चलति सुरशिखरिशिखरमिव ॥७॥
लक्ष्मीधरो लक्षितधर्मलक्ष्यः समुद्धरः सद्गुरुभक्तिदक्षः।
नाम्ना मुणागः कृतमुक्तिरागस्तथाऽऽसिगो बन्धुरशुद्धबुद्धिः ॥८॥ तत्राऽऽसिगस्य पुत्रास्त्रयोऽभवन् वीरपालनामाऽऽद्यः । आशापालः शुभधीस्तार्तीयीको नयतिपालः ॥९॥ तेषामाशापालः साधुः श्राद्धः प्रवर्द्धितश्रद्धः । यः शेषामिव जिनपतिसुगुरोराज्ञा वहति मूर्ना ॥१०॥ देवगुरुकृत्यकुशलो गाम्भीर्यदार्यधैर्यमुख्यगुणैः। रत्नालङ्कारैरिव नितरां यो भूषयाञ्चके ॥११॥ कुलचन्द्र-वीरदेवाख्य-पद्मदेवैः सुतैर्विहितसेवः । साधूनां साध्वीनां श्राद्धानां श्राविकाणां च ॥१२॥ प्रचकारोपष्टम्भं योऽशनवरपानवस्त्रपात्रायः। शुषमिणिनाम्नी भार्या शीलनिधिोजते यस्य ॥१३॥ स बुद्ध्वा सज्ज्ञानप्रवितरणमत्यस्तकलु भवक्षाराम्भोधिप्रतितजनोत्तारतरणिम् । महामोहव्यूहव्यपनयनदक्षं क्षतभयः समस्तानां श्रीणां प्रभवमवदातोत्तमगुणम् ॥१४॥ स्वर्गापवर्गसंसर्गकारणं पापवारणम् । कल्याणानां पराया॑नां निधानं ध्यानवर्द्धनम् ॥१५॥ अभिधानकोशभेतदनेकार्थ लिलेख भोः। दृष्टिवसुसूरसंख्ये १२८६ विक्रमभूपवत्सरे ॥१६॥ सुलेखकोऽत्र लावण्यसिंहनामा प्रसिद्धिभाक् । सदक्षरविनिर्माता ब्राह्मणोऽयं प्रकीर्तितः ॥१७॥छ। ॥ मङ्गलं महाश्रीः ॥छ॥
क्रमाङ्क ३१३ (१) अभिधानचिंतामणिनाममाला स्वोपशवृत्तिसह चतुर्थकांड पत्र १८३ । भा. सं. । क. हेमचंद्राचार्य स्वोपज्ञ। ग्रं. २६३० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४।४२
(२) अभिधानचिंतामणिनाममाला स्वोपज्ञवृत्तिसह पंचमषष्ठकांड पत्र ८९ । भा. सं. । क. हेमचंद्राचार्य स्वोपज्ञ । ग्रं. ११२० । ले. सं. अनु. १३ मी शताब्दी उत्तरार्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४४२
क्रमाङ्क ३१४ (१) जयदेवछंदःशास्त्र पत्र १०। भा. सं.। क. जयदेव। ले. सं. ११९०। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२॥४१॥ आदि
९॥ गायत्रं छन्दसां पूर्व वर्द्धमानाक्षरं परम् । वाग्मण्डनकर नौमि चित्रवृत्तप्रसिद्धये ॥१॥ अन्त
इति जयदेवच्छन्दसि अष्टमोऽध्यायः समाप्तः ॥छ॥छ।। संवत् ११९० मार्ग शुदि १४ सोम दिने श्रीसर्वदेवाचार्यशिष्यस्य देवचन्द्रस्यार्थे पं. श्रीधरेण जयदेवच्छन्दमूलसूत्रमलेखि ॥
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरुं विजानीयादेतच्छ्लोकस्य लक्षणम् ॥१॥छ।
(२) जयदेवछंदःशास्त्र वृत्तिसह पत्र १-५५ । मू. क. जयदेव। . क. हर्षट। ले. सं. अनु. १३ मी शताब्दी पूर्वार्ध । संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १३४२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org