________________
क्र. २८२ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
१२३ आदि
इह च यद्यप्यार्यसम्भूतविजयादीन् सूत्रकारो भगवानग्रे प्रणस्यति, तेषामपि चरितानां यशोभद्रयुगप्रवरचरितानुषक्तत्वेन तान्यप्यत्रैव प्रतिपादितानीति । अत्र च यशोभद्राचार्यस्य गृहस्थपर्यायो द्वाविंशति २२ वर्षाणि, व्रतपर्यायश्वतुर्दश १४ वर्षाणि, युगप्रधानपदं पञ्चाशत् ५० वर्षाणि, सर्वायुष्कं षडशीति ८६ वर्षाणि मास ४ चतुष्कं दिन ४ चतुष्टयं च। तथा सम्भूतविजयाचार्याणां द्विचत्वारिंशत् ४२ वर्षाणि गृहस्थपर्यायः, चत्वारिंशत् ४० वर्षाणि व्रतपर्यायः, अष्टौ ८ वर्षाणि युगप्रधानपदम्, सर्वायुः ९. नवतिवर्षाणि मास ५ पंचकं दिन ५ पञ्चकं च ॥ अम्त
इति श्रीजिनदत्तसूरियुगप्रवरविरचितस्य श्रीगणधरसार्धशतकाख्यप्रकरणस्य वृत्तिः समाप्ता ॥छ॥ जज्ञे श्रीजिनदत्तसूरिसुगुरोः पट्टाचलोद्योतनस्फूर्जज्ज्ञानरुचिप्रतानतनुतानीता नतोद्यत्तमाः । सूरिः श्रीजिनचन्द्र इत्यपमलप्राश्चत्सुवृत्तातुल:, सौन्दर्यादिकवर्यनिर्मलगुणैश्चित्रीयितक्ष्मातलः ॥१॥ तस्याऽभूद् भूपमूर्होद्भटमुकुटतटीकोटिघृष्टांहिपद्मः, शिष्यः शस्यो बुधौधैजिनपतिरिति सन्नामतः सूरिरुच्चैः । विख्यातः क्षोणिपीठे सुविहितयतिराट्चक्रचक्राधिनाथश्छन्दोलङ्कारतर्कप्रमुखनिखिलसद्ग्रन्थविस्तारितार्थः ॥२॥
प्रतिदिनमपि सिद्धिप्रेयसीसंगसौख्यानुगतनवकथास्वाक्षिप्तचित्तं निरीक्ष्य । क्षणमपि दयितं तज्ज्ञानचारित्रलक्ष्मौ मुमुचतुरुदिता......त्मभीत्येव यं च ॥३॥ सगुणनिजपतीनां कालदोषादभावे ध्रुवमतिगुरुशोकात् सर्वविद्याः समेत्य ।
बत हृदयसमुद्रेऽस्ताघगाम्भीयभाजि प्रकटितगुरुसत्त्वे यस्य सद्यो निपेतुः ॥४॥ तस्य स्वाचारनिष्ठाप्रसरगुरुतराबद्धकक्षस्य शश्वत् , निःक्लेशः शिष्यलेशः सुमतिगणिरिति ज्याप्रसिद्धाभिधानः । निर्देशात् सद्गुरूणां सुनिबिडजडताश्लिष्टधीरप्यधीताऽल्पग्रंथस्तत्प्रसादाद् व्यरचयदमलां वृत्तिमेतां सुचेताः ॥५॥
प्रारब्धा श्रीस्तम्भतीर्थवेलाकूले कुले श्रियाम् । मण्डपदुर्गे विबुधैः स्वर्गे चेयं समर्थिता ॥६॥ तथा प्रायः
प्रथमादर्श लिखिता वृत्तिरियं श्रीजिनेश्वरगुरूणाम् । अस्मद्गुरुगुरुपट्टप्रतिष्ठितानां प्रभाववताम् ॥७॥
शिष्येण परोपकृतौ तपसि च बद्धोद्यमेन सदमेन । कायोत्सर्गेऽतन्द्रेण साधुना कनकचन्द्रेण ॥८॥ किञ्चिच्च
हेमप्रभः शालिभद्रोऽमृतमूर्तिरिहाभवन् । लेखनात् पट्टिकामाष्टें घुटनाच्चोपकारिणः ॥९॥ इह यदनवबोधादाभसिक्यान्मया वा उत पतदुपयोगादन्यथा किञ्चिदुक्तम् । तदलमनलसाः स्राग् ज्ञातसिद्धान्ततत्त्वा, भयकि कृतकृपाः श्रीधीधनाः शोधयन्तु ॥१०॥ कृत्वेमां विवृति यत्पुण्यं समुपार्जितं मया किमपि। तेन विधिधर्मरागी भूयाल्लोकः समस्तोऽयम् ॥११॥ शरनिधिदिनकरसंख्ये १२९५ विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरिय नन्दतात् सुचिरम् ॥१२॥
इति श्रीजिनपतिसूरियुगप्रवरविनेयपण्डितसुमतिगणिनामधेयविरचिता श्रीगणधरसार्द्धशतक वृत्तिः समाप्ता ॥२॥ मालमस्तु समस्तसंघस्येति ॥छ॥ संवत् १२९५ वर्षे श्रीमद्धारापुरीनलकच्छकादिकृतविहारक्रमेण समतिगणिना श्रीमण्डपदुर्गे वृत्तिरिय समर्थितेति । अथाग्रं १२१०५ श्लोकमानेन ॥छ॥ॐ॥छ॥
यादशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ भग्नपृष्ठिकटिग्रीवा स्तब्धदृष्टिरधोमुखः । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥छ॥ विदुषा जल्हणेनेदं जिनपादाम्बुजालिना। प्रस्पष्टं लिखितं शास्त्रं वन्य कर्मक्षयप्रदम् ॥शुभं भवतु ॥छ॥
क्रमाङ्क २८२ सुखबोधासामाचारी पत्र १११ । भा. प्रा.। क. श्रीचंद्रसूरि। ग्रं. १३११ । ले. सं. अनु. १४ मी शताब्दी प्रारंभ। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५४२.। पत्र १-५, ८१, ९२-९५, ९७ नथी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org