SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीजेसलमेरुदुर्गस्थ [क. २७२ रेजुर्यस्य महोदधेर्बहुतरा रत्नोपमाः सूनवः सम्पूर्णा गुणसद्वजैः सुरुम्चयो देवश्रियः कुक्षिजाः । कोऽप्येतेषु जगद्धरः सुकृतिनामग्रेसरः कौस्तुभः, श्रीश्रीमत्पुरुषोत्तमैकहृदये वासित्वमैद् यो गुणैः ॥३॥ श्रीमत्पार्श्वस्य नेतुः सदनममदनं भव्यनेत्राब्जमित्रं, पुर्यो श्रीजेसलस्य व्यरचयदचिराच्चाभितो भूषणानि । गेहे साधर्मिकोर्वीरुहवनमनु चाछिन्नवात्सल्यकुल्यां, पूरेणावीवहद् यो मरुषु किमपरं प्राप कल्पद्रुमत्वम् ॥४॥ शालीनतालीश्रीशीलं यदात्मजमपालयत् । तस्य साढलही नाम्ना सा बभूव सधर्मिणी ॥५॥ तस्याऽऽसतेऽक्षतनयास्तनयास्त्रयोऽमी, तेषामयं धुरि यशोधवलो यशोब्धिः । माध्यंदिनो भुवनपाल इलापसंसदुज्ज्वालकीर्तिरनुजः सहदेव एषः ॥६॥ इह हि भुवनपालः प्रीतदिक्चक्रवालः सुगुरुजिनपतीशस्तूपमूर्ध्नि ध्वजस्य । विघटितमधिरोहं कारयामास यष्ट्या जिनपतिरथयानं चक्रर्तीव पद्मः । ॥७॥ तस्य प्रिया त्रिभुवनपालधीदा रघुप्रभोरिव जनकस्य धीदा । पुत्रद्वयं समजनि खीम्वसिंहा-ऽभयाहवयं कुशलवलीलमस्य ॥८॥ स धन्यकृतपुण्यतां सततशालिभद्रात्मतां किलातनितुमात्मनो मुनिचरित्ररम्यामिमां । सुधार्मिकजनवजोपवनसारणिः श्रीभरः स्म लेखयति पुस्तिकां भुवनपालसाधुर्मुदा ॥९॥ मेघास्याम्बुदवृन्दमुक्तसलिलापूरे मणिज्योतिरुद्योतिच्छत्रपरीतचक्रिपृतनाभृचर्मरत्नश्रियम् । मध्येम्भोधिमहीतलं दिनमणीभास्वन्नभः संवृतं, यावद् विन्दति तावदत्र जयतादेषाऽधिकं पुस्तिका ॥१०॥ (५) दशश्रावकचरित्रचूणि पत्र ३७८-३८४ । भा. सं. । क. पूर्णभद्र । ले. सं. १३०९ । सं. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४॥४१॥ आदि आनन्दकथायां किञ्चिल्लिख्यते । दिसिजत्तियगाहा ॥२७॥ दिसिजत्तियाणं ति। दिग्यात्रा देशांतरगमनं प्रयोजन येषां तानि दिग्यात्राणि । संवहणियाणं ति। संवहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेहादावानयनं तत्प्रयोजनानि सांवहनिकानि । अन्त पभणेइ० गाहा ॥३९॥ अलसरोगअभिभूय त्ति अलसकेन विसूचिकाविशेषलक्षणरोगेण प्रस्ता। तल्लक्षणे चेदम्-नोद्ध ब्रजति नाधस्तादाहारो न च पच्यते। आमाशयेऽलसीभूते तेन सोऽलसकः स्मृतः ॥सप्तमागचूर्णिः॥ "ग्रन्थानं श्लोक १०१ ॥छ। मेदपाटे वरग्रामवास्तव्य श्रे०अभयीश्रावकपुत्रसमुद्धरश्रावकभार्यया कुलधरपुश्या सावितिश्राविकया धन्यशालिभद्रकृतपुण्यमहषिचरितादिपुस्तिका स्वश्रेयोनिमित्तं लेखिता॥छ। संवत् १३०९॥ क्रमाङ्क २७१ पृथ्वीचंद्रचरित्र पत्र २६० । भा. प्रा. । क. शांतिसूरि। ग्रं. ७५०० । र. सं. ११६१ । ले. सं. १२२५ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २७४२॥ संवत् ११२५ वर्षे पौष शुदि ५ शनौ अद्येह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारिकउमापतिवरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरीभोपालश्रीमत्कुमारपालदेवकल्याणविजयिराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीकुमरसीहे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपंथयति सति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy