SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १०३ क्र. २५६ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र ॥ प्रख्याते विमलेऽत्र धर्कटकुले यस्योन्नतिः शर्मदा वांछातीतवितीर्णदाननिकरप्रीतार्थिकल्पद्रुमः । आधिव्याधिनिरस्तमानसगतिः सर्वज्ञधर्मे रतिः स श्रीमान् सुमतिर्बभूव सुमतिस्तस्याम्रवीरात्मजः ॥१॥ अम्बेश्वरस्तस्य सुतः प्रतीतो गांभीर्यमाधुर्यगुणैरगाधः ।। दानादिधर्मेषु विवृद्धचेता धुर्यो हि यो धर्ममहारथस्य ॥२॥ अम्बेश्वरस्य चत्वारः पुत्राः सन्ततिशालिनः । उपया इव भूभर्तुर्बभूवुरुदयोन्मुखाः ॥३॥ आद्यस्तेषां शालिगः साधुवृत्तः स्फीतः पुण्यैः पार्श्वदेवो द्वितीयः । सूमाकः श्रीसौम्यमूर्तिस्तृतीयो वर्यस्तुर्यो स्याद् यशोवीरनामा ॥४॥ शालिगस्य च चत्वारः पुत्राः प्राज्यगुणान्विताः। वरदेवो(वः) कालकोऽथ वीरडश्च तथाऽम्बडः ॥५॥ लीनं यशोवीरमनो जिनेन्द्र श्लाघ्ये च संघे विशदातिभक्तिः । सुधानिधानं वचनं यदीयं परोपकारकरसं वपुश्च ॥६॥ यशोवीरस्य षट पुत्राः षडगुणा इव विश्रुताः । शोल्लिकायां महासत्यां नीतौ जन्माऽऽपुरद्भुतम् ॥७॥ तदाद्यो बोहडिः श्रेष्ठी द्वितीयो राउतस्ततः । तृतीयो गांगदेवस्तु चतुर्थो देल्हकः सुधीः ॥८॥ पंचमो धांधुकस्तेषु षष्ठः षोषन इत्यमी। सर्वेऽप्यवृजिना धर्मकर्मण्युद्यतमानसाः ॥९॥ बोहडिप्रेयसी देविण्यभूद् युवतिमंडनम् । आम्रसीहः सुतस्तस्याः पौत्रो धीणिग इत्यथ ॥१०॥ राजपुत्रस्य षट् पुत्रा राहू-मोहिणिसंभवाः। आमणो वोडसिहोऽभयडो नउलकस्तथा ॥११॥ सेवाको मोहणश्चाथ शान्ती वइजू सुते शुमे। सेवाप्रिया भोपला तु करला कालकस्य च ॥१२॥ शतपत्राभिधग्रामे वोहडिप्रमुखः सुतः। नेमिश्रीपाश्वयोबिबे पित्रोः पुण्याय कारिते ॥१३॥ अभयडस्य लक्ष्मश्रीः प्रिया पुत्रश्च गोल्हणः । मूलदेवोऽपरः सीलू पुत्री राउतसन्ततौ ॥१४॥ प्राचीनसीतादिसतीगणस्य मध्ये ययाऽऽत्मा विहितः स्वशुद्धया । सा सूमिणिदेल्हुकगेहलक्ष्मीरभूत् पुनश्चापलतां न भेजे ॥१५॥ तस्याश्चतस्रस्तनया बभूवुरुन्निद्रशीलाभरणप्रकाशाः । यासां ध्वनिः श्रोत्रपुटैनिपीय सौहित्यमापुः पशवोऽनभिज्ञाः ॥१६॥ आये चंपलचाहिण्यौ गीतविज्ञानकोविदे। अन्ये सोहिणिमोहिण्यावेताः कस्य मुदाय न ॥१७॥ धांधूकस्य प्रिया पातू संतानी नैव सोऽभवत् । षोषनस्य प्रिया लाडी पंच पुत्राः सुताद्वयम् ॥१८॥ साढणः प्रथमः पुत्रस्तथा धरणिगोऽपरः। यशोधवलस्तृतीयस्तु खीमसिंहश्चतुर्थकः ॥१९॥ पंचमो भीमसिंहोऽथ लाछूरूपलपुत्रिके। षोषनस्य बभूवेयं संततिः शुभशालिनी ॥२०॥ इतश्च देल्हुकसुता प्रागुक्ता प्रथमोद्भवा । पित्रोः श्रेयोऽर्थमत्यर्थ धर्मकर्मणि सा वरा ॥२१॥ आबाल्यात् कुमुदेन्दुकांतिविशदं यच्छीलमापालितं यद्भक्तिस्त्रिजगत्प्रतीतमहसि श्रीवीतरागेऽधिका। यत्पूजा च चतुर्विधे भगवति श्रीसंघभट्टारके तेनेयं विशदान्वयेति सुदती संलक्ष्यते चांपला ॥२२॥ तया तु छत्रापल्लीयश्रीपद्मप्रभसूरितः। देशनामृतमाकर्ण्य वैराग्योत्सुकयाऽधिकम् ॥२३॥ स्वभुजार्जितवित्तेन श्रीपार्श्वप्रतिमा गृहे। कारिता सुव्रतस्येदं चरित्रं लेखितं तथा ॥२४॥ पूर्वोक्तबिबयोः पावें श्रीयगादिजिनालये। श्रीमहावीरबिंबं च कारितं सपरिच्छदम् ॥२५॥ विह्निक्षितिजे १३०४ नृपविक्रमवत्सराद् गते वर्षे । परिपूर्णमिदं जातं सद्गुरूणां प्रसादतः ॥२६॥कुलकम्।। चंद्रार्कावुदयं यावत् कुरुतः प्रतिवासरम् । मेदिनी विद्यते यावत् तावन्दतु पुस्तकः ॥२७॥ . प्रशस्तिः समाप्तेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy