________________
क्र. २३५ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र पुत्रः प्रेयानेतयोश्चन्द्र तुल्यो जज्ञे शश्वत्कौमुदाप्यानहेतुः । प्राप्तः स्फाति वृद्धये वैबुधानामीशश्लाघ्यः ठक्कुरः पार्श्वनामा ॥६॥ यत्कारित वीरजिनेन्द्रसद्म चतुर्मुखं भाति कुमारपल्ल्याम् ।
शुभ्रं कनकांचनकुंभमुच्चैः शंग हिमाद्रेवलदोषधीव ॥७॥ सत्पादजंघिकात्रिकमध्यमुखाभरणबहुविधविलासम् । यच्छालिभंजिकागणमुद्वहति स्वमिव सुशिरस्कम् ॥ ८॥ निःसपत्नाऽभवत् पत्नी तस्य शस्यचरित्रभूः। गौरीव गिरिशालीना धंधिका बन्धुवत्सला ॥९॥ पुत्राः पंचाजनिषुरनयोर्लोकपालायमाना मानम्लानिप्रथनपटवः क्षुद्रजिहवालतानाम् । सर्वज्ञा_मुनिवितरणन्यायसंस्थापनोत्था कीर्तिर्येषां विचरति शरच्चंद्रकुन्दावदाता ॥१०॥
महत्तमो नन्नुक एषु पूर्वजो द्वितीयकः ठक्कुरलक्ष्मणः सुधीः ।
वज्रीव नासत्यकृतप्रतिष्ठितिस्तृतीय आनन्दमहत्तमः कृती ॥११॥ वाणी यस्य प्रसरति रसात् सोदरी शर्करायाः चेतोवृत्तिर्विलसति तुलां कल्पयन्ती सुधायाः। सत्कर्पूरांजनमिव लसच्चेष्टितं शिष्टदृष्टीः पुष्टि नित्यं नयति यदि वा सुन्दरं कि न यस्य ॥१२॥ धनपालनागदेवौ ठक्कुरौ तुर्यपचमौ। श्रियादेवी च सत्पुत्री जातका शीलशालिनी ॥१३॥ एतेष्वानंदमहत्तमस्य पत्न्यौ क्रमादभूतां द्वे। धृतशस्यशैलसंपत् पूर्वा वसुधेव विजयमतिः ॥ १४॥ . इतश्चभिल्लमालकुलव्योमसोमः श्रावकसोहिकः । ज्योत्स्नेव लक्खुका तस्य पत्नी सन्नीतिभूरभूत् ॥१५॥ गुरूत्तरः सौम्यकान्ति छड्डकस्तनयस्तयोः । मतिबुद्धिसमे जाते राजिनीसीलुके सुते ॥ १६ ॥
तत्रोपयेमे विधिवद् विनीतामानन्दमंत्री किल राजिनीं ताम् ।
पतिव्रतां यां प्रविलोक्य लोकाः स्मरंति शीतादिमहासतीनाम् ॥ १७॥ अजनि सचिवाऽऽनन्दस्यांगोद्भवो भुवि ठक्कुरः शरणिग इति ख्यातो नाम्ना महीशपुरस्कृतः। विजयमतितस्त्रासापेतः स रोहणसद्रेिमणिरिव खनेर्यस्तेजस्वी स्वगोत्रविभूषणः ॥१८॥ सोदरा भगिनी चास्य शांताऽपीष्टसतीव्रता । सदुत्तराऽपि सर्वेषां दक्षिणा धांउकाभिधा ॥ १९ ॥ राजिन्यथांगजमसूत वराकलंक पूर्णप्रसादकृतनामकमिष्टबंधुम् । । भ्रातुः प्रियं शरणिगस्य नमस्यनम्रां रामस्य लक्ष्मणमिव प्रसरत्सुमित्रम् ॥ २० ॥ तनया पूर्णदेवी च तस्याः समुदपद्यत । नदांभःस्थाननिरता हंसीव मृदुवादिनी ॥ २१॥
अथान्यदाऽऽनन्दमहत्तमोऽसौ शुश्राव सम्यग् गुरुसन्निधाने । धर्म श्रुतज्ञानचरित्ररूपं मोक्षार्थिसंपादितमोक्षमुच्चैः ॥ २२॥ तत्रापि विज्ञानविनाकृतायाः साफल्यमाहुर्न जिनाः क्रियायाः ।। तद्दानमादावत एव सर्वदानेषु शंसंति पठन्ति चैवम् ॥ २३ ॥ ये ज्ञानदानमपरं परिपाठय यद्वा सत्पुस्तकादि च विलेख्य समाचरंति । ते नष्टमोहतिमिराः किल केवलेन सम्यग् विलोक्य भुवनं विभवा भवन्ति ॥ २४ ॥ न ते नरा दुर्गतिमाप्नुवन्ति न चान्धतां बुद्धिविहीनतां च ।
न मूकतां नैव जडस्वभावं ये लेखयन्तीह जिनस्य वाक्यम् ॥२५॥ श्रुत्वेदमिमां संवेगरंगशालामलीलिखद् रम्याम् । निजपत्न्या राजिन्याः पुण्याय महत्तमाऽऽनन्दः ॥ २६ ॥
प्रासादः सिद्धिरर्हन् नृपतिरनुपमा तत्प्रिया ज्ञानलक्ष्मी
नीतिः सिद्धांतगीः श्रीव्ययकरणसमौ साधुसद्मस्थधर्मों। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org