________________
क्र. २०६ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
श्रीचन्द्रसूरिनामा शिष्योऽभूत्तस्य भारतीमधुरः । आनन्दितभव्यजनः शंसितसंशुद्ध सिद्धान्तः ॥३॥ तस्यान्तेवासिना दृब्धा श्रीयशोदेवसूरिणा । सुशिष्यपार्श्वदेवस्य साहाय्यात् प्रस्तुता वृत्तिः ॥४॥ श्रुतोपयोगोऽशुभकर्मनाशनो विपक्षभावप्रतिबन्धसाधनः । परोपकारश्च महाफलावहो विचिन्त्य चैतद्विहितोऽयमुद्यमः ॥५ पिण्डविशुद्धिप्रकरणवृत्तिं कृत्वा यदवाप्तं मया कुशलम् । तेनाऽऽभवमपि भूयाद्भगवद्वचने ममाभ्यासः ॥६॥ श्रुतमनिकषपट्टेः श्रीमन्मुनिचन्द्रसूरिभिः पूज्यैः । संशोधितेयमखिला प्रयत्नतः शेषविबुधैश्च ॥७॥
ग्रन्थानं २८०० ॥ छ ॥ ग्रन्थानं प्रतिवर्णतो गणनया न्यूनं सहस्रत्रयं शतद्वयेनेति । षड्वाजीं बुद्दिमांशुभिः ११७६ परिमिते वर्षे गते विक्रमान्निष्पन्नेयमिति ॥ छ ||
पश्चाल्लिखिता
संवत् १३९४ वर्षे माघ शुदि ११ दिने सा. नयणाश्रावकपुत्रेण श्रीदेवगुर्वाज्ञाचिन्तामणिभूषितमस्तकेन सा. सेल श्रावण मौल्येनादाय श्रीजिनपद्मसूरीणां पिण्डविशुद्धिवृत्तिपुस्तिका प्रत्यलाभि ।
क्रमाङ्क २०६
प्रवचनसारोद्धार वृत्तिसह पत्र ४३८ । भा. प्रा. सं. । मू. क. नेमिचन्द्रसूरि । वृ. क. सिद्धसेनगणि। ग्रं. १८०००। घृ. र. सं. १२४२ । ले. सं. १२९५ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३२॥४२॥॥.
पत्र २ जामां भगवान् महावीरनुं पारिपार्श्विकसहित चित्र छे, पत्र ४३६ मां देवीनुं चित्र छे अने पत्र ४३७ मां आचार्य शिष्यने वाचना आपे छे । आ त्रणेय चित्रो अतिसुंदर छे ।
७१
अन्त - श्रीप्रवचनसारोद्धारवृत्तिः समाप्ता ॥ छ ॥ छ ॥ छ ॥
इषुग्रहरविसंख्ये [ १२९५ ] श्रीविक्रमनृपतिवत्सरे पौषे । शुक्लाष्टम्यां गुरुवारे लिखिताऽसौ प्रतापसिंहेन ॥ ॥छ॥ मंगलं महाश्रीः ॥ छ ॥ छ ॥ शिवमस्तु ॥ छ ॥
श्रियं पुष्णन्तु वः शान्तेः पादांबुरुहरेणवः । कर्मद्रन्मूलने विश्वे मदोन्मत्तकरेणवः ॥१॥ कल्याणैकनिकेतनं सुमनसां वासो गुरुष्वग्रणीः सेव्यः पुण्यजनैः प्रतीतधनदैर्गोत्रेषु जातोन्नतिः । यः सानुग्रहसूरसौम्यकविभिस्तेजस्विभिः सेवितः सोऽयं मेरुरिवास्ति नन्दनवरः प्राग्वाटनामान्वयः ॥ २ ॥ तत्राऽऽसीद् वैरसिंहः सकलजनमनः कल्पनाधिक्यदानाज्जेता कल्पद्रुमस्य प्रतिदिवसमसौ भग्नदारिद्र्यमुद्रः । नीरक्षीरोदताराशशिविशदतरैः पूरिते यद्यशोभिर्लक्ष्यन्ते नैव भावास्त्रिभुवनकुहरे नीलपीतादयस्ते ॥ ३ ॥ तस्य सूनुरनूनश्रीः सीहकोऽभूद्विवेकधीः । स्पर्द्धयेव व्यवर्द्धन्त गुणाः सर्वे परस्परम् ॥४॥ भार्या सुषमता तस्य शस्यशीलव्रताऽभवत् । मण्डनं हि कुलस्त्रीणां शीलमेव विदुर्बुधाः ॥५॥ सिंहशाव इवोर्जस्वी तेजस्वी भानुमानिव । यशस्वी सकले विश्वे जगत्सिंहस्तयोः सुतः ॥६॥ जगत्सिंहस्य जायाsस्ति मायावचविवर्जिता । नागिनी नागवल्लीव प्रसृता पुत्रपत्रकैः ॥ ७ ॥
तथाहि
चंडांशुप्रौढतेजाः स जयति सुकृती चण्डसिंहाभिधानो, जीयात् सामंतसिंहो नयविनयकलालंकृतिस्तु द्वितीयः । तार्तीयीकोऽरिसिंहः सकलजनमनोहारि चारित्रपात्रं, पुत्राश्चैते पवित्राः शशिविशदयशोराशिभिर्भासिताशाः ॥८॥ लाका लूणदेवीति तथा शृङ्गारदेविका । धर्मकर्मरताः पुत्र्यस्तयोस्तिस्रः क्रमादिमाः ॥९॥ चण्डसिंहस्य भार्याऽस्ति पद्मलेत्यभिधानतः । प्रतापसिंहस्तत्पुत्रः पुत्री धांधलदेविका ||१०|| आया प्रतापसिंहस्य भार्या पृथिविदेविका । प्रतापदेवीत्यपरा तस्यास्ति प्रथिता पुनः ॥११॥ ख्याता सामंतसिंहस्य पत्नी सहजलाभिधा । तत्पुत्रौ विजयसिंहपूनसिंहाविमौ पुनः ॥१२॥ द्वे इमे च तयोः पुत्र्यौ नाल - माधलदेविके । सर्वज्ञचरणाम्भोज सुरभीकृतमानसे ॥१३॥ इतश्चात्रैव वंशेऽभूद् धनपालः स मन्त्रिराट् । यश्चाऽऽत्मसदृशो मेने श्रीदेवान॒न्दसूरिभिः ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org