________________ सुभगचउक्क 164 - अभिधानराजेन्द्रः - भाग 7 सुभसीलगणि सुभगचउक्का-न०(सुभगचतुष्क) सुभगसुस्वरादेययशःकीर्तिरूपे चतुष्के, कर्म० 5 कर्म। सुभगजालुज्जाल-पुं०(सुभगजालोज्ज्वाल) सुभगानिदृष्टि कराणि यानि जालानि मुक्तागुच्छस्तैिरुज्ज्वालः। नेत्रसुखकारिमुक्तागुच्छोज्वाले, कल्प०१ अधि०२ क्षण। सुभगजोग-पुं०(सुभगयोग) सद्व्यापारे, प्रश्न० 5 संव० द्वार। सुभगणाम-न०(सुभगनामन्) सुभगात् सुभगनामोदयेन सर्वजनेष्टो भवति, यदुदयादनुपकार्यपि सर्वस्यमनःप्रियो भवतितत्सुभगनामेत्यर्थः। तदभ्यधायि "अणुक्कए वि बहूणं, होइ पिओ तस्स सुभगनामुदओ' त्ति "सुभगुदए विहु कोइ, कंची आसज्जदूभगोजइ वि। जायइ तद्दोसाओ, जहा अभव्वाण तित्थयरो।१।।" "सुभगाओ सव्वजणइट्ठो"कर्म०१ कर्म० / नाभेरुपरितनभागादिषु / श्रा० / प्रव० / सुभगतिग-न०(सुभगत्रिक) सुभगसुस्वरादेयस्वरूपे त्रिके, कर्म०५ कर्म०। सुभगा-स्त्री०(सुभगा)लताभेदे, प्रज्ञा०१ पद। सुरूपना, म्रो भूतेन्द्र स्याग्रमहिष्याम्, स्था० 4 ठा० 1 उ०। सुभगाकारा-स्त्री०(सुभगाकारा) सुभगमाकरोतीति सुभगाकारा। दुर्भग वस्तुनः सुभगकारिकायां विद्यायाम, सूत्र०२ श्रु०२ अ०। सुभगुरुजोग-पुं०(शुभगुरुयोग) सुन्दरधर्माचार्यसम्बन्धे, पञ्चा० 4 विव०। विशिष्टचारित्रयुक्ताचार्यसंबन्धे, ल01 सुभधोस-पुं०(शुभघोष) पार्श्वनाथस्य द्वितीये, गणधरे, स०८ सम०। सुभजोग-पुं०(शुभजोग) कुशलव्यापारे, पं०व०२ द्वार! सुभड-पुं०(सुंभट) शोभनयोद्धरि, सूत्र०१ श्रु०३ अ० 1 उ०। सुभडपाल-पुं०(सुभटपाल) त्रिशतजिनभवनचतुःशतलौकिकप्रसादाष्टादशशतविप्रगृहषट्त्रिंशच्छतवणिग्गेहनवशतारामसप्तशतवापीद्विशतकूपसप्तशतसत्रागारविराजमानस्य अजमेरुनिकटवर्तिनो हर्षपुरस्याधिपतौ, यत्र पुरे श्रीप्रियग्रन्थसूरयोऽभ्युपेयुः। कल्प०२ अधि०८ क्षण। सुभणाम-न०(शुभनामन्) तीर्थङ्करादौ पूज्ये च / स्था० / नामकर्मभेदे, यदुदयानाभेरुपर्यवयवाः शुभा भवन्ति तच्छुभनाम। यच्छिरः प्रभृतिभिः स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् / कर्म०५ कर्म० / नाभेरुपरितनभागादिषु, स्था० 2 ठा० 4 उ० / श्रा०। सुभत्ति-स्त्री०(सुभक्ति) आन्तरप्रीतौ, जीवा०६ अधि०। सुभदीहआउत्ता-स्त्री०(शुभदार्घायुष्कता) दीर्घायुष्कतायाम्, स्था०३ ठा०१ उ०। (व्याख्या 'आउ' शब्दे द्वितीयभागे 12 पृष्ठे गता।) सुभद्द--पुं०(सुभद्र) अधस्तनमध्यमग्रैवेयकविमानप्रस्तटे, स्था०६ ठा० 3 उ० / षष्ठयक्षनिकाये, प्रज्ञा० 1 पद / शाखाञ्जनीनगरीवास्तव्ये | स्वनामख्याते सार्थवाहे शकटपितरि, स्था०१० ठा०३ उ०। विपा०। शिखरितलकूटविशेषदेवे, द्वी० / भद्रबाहुस्वामिनि, पं० चू०१ कल्प। कूणिकपुत्रस्य कृष्णकुमारस्य पुत्रे, (सच वीरान्तिके प्रव्रज्य वर्षचतुष्टयं व्रतपर्यायं परिपाल्य उत्कृष्टमायुरनुपाल्य ततश्च्युतो महाविदेहे सेत्स्यति इति कल्पावतंसिकानां चतुर्थेऽध्ययने सूचितम्।) नि०१ श्रु०२ वर्ग०४ अ०। स्वनामख्याते, विमाने, नपुं०। स०१७ सम०। सुभहा-स्त्री०(सुभद्रा) कोणिकस्य राजयाम्, औ० / अहोरात्रद्वयेन संपाद्यमानेप्रतिमाविशेषे, स्था० 4 ठा०१उ०। सौर्यपुरे धनञ्जयश्रेष्ठिनो भायाम्, आव० 4 अ०। वसन्तपुरवास्तव्यस्य जिनदत्तश्रेष्ठिनस्सुतायाम् आव०५ अ०। पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टये कायोत्सगकरणरूपायामहोरात्रद्वयमानायां प्रतिमायाम्, स्था०२ ठा०३ उ०। चम्पानगरीवास्तव्यजिनदत्तस्य दुहितरि, आ० चू०५ अ०। (तदुदाहरणं च 'काउस्सग्ग' शब्दे तृतीयभागे 427 पृष्ठे गतम्।) ऋषभदवस्य प्रथमश्राविकायाम, आ०म०१ अ०। कल्प० आ० चू०। वाराणसीनगरीवास्तव्यस्य भद्राभिधानसाथवाहस्यभार्यायाम, साच बन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ / स च धर्ममचीकथत् प्रावाजीच सा। स्था० 10 ठा०३ उ० गोशालकमातरि, स्था० 10 ठा० 3 उ० / भूतानन्दस्य नागकुमारेन्द्रस्य चित्राख्यलोकपालकस्य स्वनामख्यातायामग्रमहिष्याम्, भ०१० श०५ उ० / भम्भसारपुत्रस्य कोणिकस्य भार्यायाम, ओ०। चम्पायां स्वनामख्यातायां देव्याम्, ती० 34 कल्प / सुदर्शनायां जम्ब्वाम, सुभद्रा शोभनकल्याणभागिनी, नह्यस्याः कदाचिदुपद्रवसंभवो महर्द्धिकेनाश्रितत्वात्। जं० 4 वक्ष० / नन्दायां पुष्करिण्याम् द्वी०। अवन्तिवास्तव्यायामवन्तिसुकुमालमातरि, आ० क० अ०। सौर्यपुरे वास्तव्यस्य, धनञ्जयश्रेष्ठिनः पत्ल्याम्, आ० क० 4 अ० / दक्षिणाञ्जनाद्रेर्दक्षिणभागस्थायां स्वनामख्यातायां पुष्करिण्याम, वी०। वैरोचनेन्द्रस्य बले राज्ञस्सोमस्य महाराजस्य स्वनाम-ख्यातायामग्रमहिष्याम्, स्था०४ ठा0। द्वितीयबलदेवमातरि, आव०१ अ०।बहुपुत्रिकायाः पूर्वभवजीवे सार्थवाहस्य भार्याम्, नि०१ श्रु०३ वर्ग 3 अ०। (तत्कथा च 'बहुपुत्तिया' शब्दे पञ्चमभागे उक्ता।) भरतचक्रवर्तिनो भार्यायाम, स०। भूतानन्दस्य नागकुमारेन्द्रस्य नागकुमारराजस्य कालबालमहाराजस्याग्रमहिष्याम्, स्था० 4 ठा० 1 उ०। सुभमइ-पुं०(शुभमति) ऋषभदेवस्य नवाशीतितमे पुत्रे, कल्प०१ अधि० ७क्षण। सुभमग्ग-पुं०(शुभमार्ग) ज्ञानस्य प्राधान्यं व्यवहारस्य च गौणता यत्र भवतिस शुभमार्गः। उत्तममार्गे, द्रव्या० 1 अध्या०। सुभय-त्रि०(सुभग) सौभाग्ययुक्ते, भ०१२श०६ उ०। सुभल-पुं०(सुभल) शेखरके मस्तकाभरणविशेषे, ज्ञा० 1 श्रु०८ अ०॥ सुभवेयणतर-त्रि०(सुखवेदनतर) अतिशयितः सुखेन मोहजन्योन्मादापेक्षया अक्लेशेन वेदनमनुभवनं यस्यासौ सुखवेदनतरः। मोहजनितग्रहापेक्षया अकृच्छानुभवनीयतरे, भ०१श०७ उ०। सुभसीलगणि-पुं०(शुभशीलगणिन्) तपागच्छीयमुनिसुन्दर-सूरिशिष्ये, येन स्नात्रपञ्चाशिका पञ्चास्तिकायप्रबोधो भरहेश्वरस्तोत्रवृत्तिश्चेत्यादयो ग्रन्था रचिताः। विक्रम 1521 संवत्सरे अयं वर्तमान आसीत्। जै० इ० /