________________ सीस 909 - अभिधानराजेन्द्रः - भाग 7 सीस परिसदुट्ठियाण पासे, सिक्खइएवं विणयभंसी॥१४७१॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीर भूमौ छर्दयित्वा पिबति, न पुनस्तत्स्थम्। तथा च सति न तत्तस्यास्तथाविधं किञ्चित् पर्यवस्यति / एवं विनयाद् भ्रश्यतीति विनयभ्रंशीविनयकरणभीरुः कुशिष्यो गोष्ठामाहिलवत् परिषदुत्थितानां विन्ध्यादीनामिव पार्वे शिक्षतेश्रुतं गृह्णाति, न तु गुरोः समीपे, तद्विनयकरणभयात् / इह च दुष्टमार्जारीस्थानीयः कुशिष्यः, भूमिकल्पस्तु परिषदुत्थियाः शिष्याः छर्दितदुग्ध-पानसदृश तुतगतश्रुतश्रवणमिति। जाहकोदाहरणमाह - पाउं थोउं थोउं, खीरं पासाइँ जाहगो (जह) लिहइ। एमेव जियं काउं,पुच्छइ मइमं नखेएइ।।१४७२|| यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा ततो जाहकः सेह (हु)लको भाजनस्य पार्थानि लेदि, पुनरपि च स्तोकं तत्पीत्वा भाजनपार्शनि लेढि, एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति। एवं मतिमान् सुशिष्योऽग्रेतनं गृहीतं श्रुतं जितं-परिचितं कृत्वा पुनरन्यद् गृह्णाति, एवं पुनः पुनस्ताव विदधाति यावत् सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति, न च गुरुं खेदयतीति / अथ गोदृष्टान्त उच्यते-तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविषेशाध्ययननिमित्तचरणशब्दवाच्ये - भ्यश्वतुभ्यो ब्राह्मणविशेषेभ्यो गौः प्रदत्ता। प्रोक्ताश्च तेन ते ब्राह्मणाः 'वारकेणासौ भवद्भिर्दोग्धव्या इति। अन्येभ्योऽपिच चतुर्व्यश्चरणद्विजेभ्यो गौरका तेन प्रदत्ता। तेऽपि च तेन तथैवोक्ताः तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मणेन केनचिद्गौः स्वगृहे नीत्वा दुग्धा / ततश्चारीप्रदानवेलायां चिन्तितं तेन। किम् ? इत्याहअन्नो दोजइ कल्ले, निरत्थियं किं बहामि से चारिं। चउचरणगवीउ मया, अलन्नहाणीय बहुयाणं // 14711 / / तेनैतचिन्तितम्- हन्त! वारकप्राप्तोऽन्यो ब्राह्मणः कल्ये तावदेतां धेनुं धोक्ष्यति; ततः किमद्य निरर्थकामस्याश्चारी वहामि। कल्येऽन्योऽपि हि तां दास्यामि, इति विनिश्चित्य न तस्याश्चारी प्रदत्ता। ततो द्वितीये दिने द्वितीयेनापि द्विजातीयेन तथैव कृतम्। एवं तृतीये दिने तृतीयेनापि, चतुर्थे दिने चतुर्थेनापि तथैव चेष्टितम् / इत्थं च चारिविरहिता दुह्यमानां कतिपयदिनमध्ये चतुर्णा चरणानां सम्बन्धिनी सा गौमता। ततश्च तेषां बहूनां गोहत्या समभवत् / जने चावर्णवादो जातः, हानिश्च, तेषां ततो यजमानात्, अन्यस्माद् वा पुनर्गवादिलाभाभावादिति / अन्यैश्च यै श्वतुंर्मिश्चरणैर्गौलब्धा, तन्मध्ये प्रथमद्विजस्तां दुग्ध्वा चारीप्रदानवेलायामचिन्तयत्, किम् ? इत्याहमा मे होज अवण्णो, गोवज्झा वा पुणो विन दविजा। वयमवि दोज्झामो पुण, अणुम्गहो अन्नदुद्धे वि||१४७४|| मा भूजनमध्ये ममावर्णवादः, गोहत्या वा मा भूत, इत्यस्याश्चारी प्रयच्छामि / यदि तु न दास्यामि तदा संजातकलड्डेभ्योऽस्मभ्यं पुनर्गवादिकं किमपि कोऽपि न दास्यति / अपरञ्च, एतस्याश्चारीप्रदाने को दोषः? प्रत्युतगुण एव, यतश्चारीप्रदानपुष्टामेतां पुनरपि वारक्रेणागतां वयमेव धोक्ष्यामः / यदिवा-अन्येनापि ब्राह्मणेन दुग्धायामेतस्यामस्माकमेवानुग्रह इति। अथोपनयमाहसीसा पडिच्छगाणं, भरो त्ति ते विय हु सीसगभरो त्ति। न करेंति सुत्तहाणिं, अन्नत्थ विदुल्लहंतेसिं॥१४७५॥ गुरोविनयकर्मणि कर्तव्ये स्वगच्छदीक्षिताः शिष्यास्ताव-चिन्तयन्ति। किम् इत्याह- प्रतीच्छकानामुपसंपन्नानामागन्तुकशिष्याणामयं गुरोविनयकरणलक्षणो भर-आचारः, किमस्माकं, तेषामेव साम्प्रतं वल्लभत्वात् ? इति / तेऽपि च प्रतीच्छका एवं संप्रधारयन्तिनिजशिष्याणामेवाऽयं भरः, किमस्माकमागन्तुकानामद्य समागतानामन्येधुर्जिगमिषूणाम् ? इति / एवं संप्रधार्योभयेऽपि गुरोर्न किञ्चिद् विनयवैयावृत्त्यादिकं कुर्वन्ति। ततश्च गुरुषु सीदत्सु तेषां सूत्राऽर्थहानिः, अन्यत्रापि च गतानां तेषां दुर्विनीतानां दुर्लभं सूत्रम् / अर्थश्च / उपलक्षणत्वादन्ये अप्यवर्णवादादयो दोषाः स्वयमेवाभ्यूह्याः। अयंचदुर्विनीत-शिष्योपनयः कृतः। सुविनीतविनेयापनयस्तूक्तविपर्ययेण स्वयमेव कर्त्तव्य इति। भेरीदृष्टान्तमाहकोमुइया तह संगा-मिया य उडभूइया य भेरीओ। कण्हस्सासिण्डतया, असिवोवसमी चउत्थी उ॥१४७६|| सक्कपसंसागुणगा-हिकेसवो नेमि वंद सुणदंता। आसरयणस्स हरणं, कुमारभंगे य पुयजुद्धं / / 1477 / / नेहि जिओ म्हि त्ति अहं, असिवोवसमीरें संपयाणं च। छम्मासियघोसणया,पसमइन यजायए अन्नो॥१४७८|| आगंतुबाहिखोभो, महिडिमुल्लेण कंथ दंडणया। अट्ठमआराहणअ-अ मेरिअन्नस्स ठवणं च // 1476 / / आसां भावार्थः कथानकादवसेयः / तच 'गोणीचन्दनकंथा इत्यत्र सविस्तरं कथितमेव / इह चेत्थमुपनयोऽपि द्रष्टव्यः। यः शिष्योऽशिवोपशमिका भेरी प्रथमरक्षक इव जिनगणधरप्रदत्तां श्रुतरूपां भेरी परमतादिथिग्गलक, कन्थीकरोति स न योग्यः, यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति। अथऽऽभीरीदृष्टान्तं विवृण्वन्नाहमुकं तया अगहिए, दुप्परिग्गहियं कयं तया कलहो। पिट्टणअइचिरविक्रय-गएसुचोरा य ऊणग्घे // 1480|| इह च कथानकेन भावार्थ उच्यते, तद्यथा-कुतश्चिद्ग्रामाद् गोकुलाद् वाऽऽभीरीसहित आभीरो घृतचारकाणां गन्त्रीं भृत्वा विक्रयार्थ पत्तने समागतः / विक्रयस्थाने च गन्त्र्या अधस्ताद् भूमावाभीरी स्थिता। आभीरस्तूपरिस्थितस्तस्या घृतचारकं समर्पयति। ततश्चानुपयोगेन समर्पणे, ग्रहणे वा घृतचारके भग्ने आभीरी प्राह भग्नाश !