________________ सिद्ध 835 - अभिधानराजेन्द्रः - भाग 7 सिद्ध तो द्विविधः उत्कर्षतो नवविधः प्रावरणवर्जः, आह च चूर्णिणकृत- | "पत्तेयबुद्धाण जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पाउरणवज्जो भवइ / " तथा स्वयम्बुद्धानां पूवाधीतं श्रुतं भवति वा न वा यदि भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधो वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते / अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद् गुरुसन्निधौ गत्वा लिङ्ग प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिणकृता- "पुव्वाधीतं से सुयं हवइ वा न वा, जइ से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवज्जइ, गच्छे य विहरइ त्ति, अहवा-पुव्वाधीतसुयसंभवो अत्थि तो से लिङ्गं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ, जइ य एगागिविहरणजोग्गो इच्छा वा से तो एक्को चेव विहरइ, अन्नहा गच्छे विहरइ' त्ति / प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्न्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्ग रहितो वा कदाचिद्भवति, तथा चाह चूर्णिणकृत"पत्तेयबुद्धाणं पुव्वाधीतं सुयं नियमा भवइ, जहन्नेणं एकारस अंगा, उक्कोसेणं भिन्नदसपुव्वी, लिङ्गं च से देवया पयच्छइ लिंगवजिओ वा भवति, जतो भणियं- "रुप्पं पत्तेयबद्धा" इति तथा बुद्धाआचार्यास्तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धा, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गे स्त्रीलिङ्ग, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच त्रिधा, तद्यथा-वेदः शरीरनिवृत्ति-र्नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रयोजनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभावात्, नेपथ्यस्य चाप्रमाणत्वात्, आह च चूर्णिणकृत "इथिए लिंग इथिलिंग, इत्थिए उवलक्खणं ति वुत्तं भवति, तं च तिविहं- वेयो सरीरनिव्वत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो, न वेयनेवत्थेहिं" ति / तस्मिन् स्त्रीलिङ्गे वर्तमानास्सन्तो ये सिद्धाः ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुराशाऽम्बराः-न स्त्रीणां निर्वाणमिति, तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तत्प्रतिषेधस्य च युक्त्यनुपपन्नत्वात्, तथाहि- मुक्तिपथो ज्ञानदर्शनत्रारित्राणि, "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" (तत्वा० अ०१ सू०१) इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामपि अविकलानि, तथाहि- दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः,जानते च षडावश्यककालिकोत्का-लिकादिभेदभिन्नं श्रुतं, परिपालयन्ति च सप्तदशविधमकलङ्कं संयम धारयन्ति च देवसुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्षसम्भवः ? स्यादेतद्-आस्त स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं, संयमाभावात्, तथाहि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, अन्यथा विवृताङ्गयस्ताः तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते; ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं, सम्यसिद्धान्ताऽपरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभि धीयते, 'मुच्छा परिग्गहो वुत्तो' इति वचनप्रामाण्यात्, तथाहि- मूछरिहितो भतरचक्र वर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च- याद मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषह्योपनिपातमद्य शीतमिति विभाव्य धार्थिना शिरसि वस्वे परिक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टम्, तस्मान्न संसर्गमात्रं परिग्रहः, किन्तु-मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रामन्तरेणात्मानं रक्षितुमीशते, नापि शीतकालादिष्व-र्वाग्दिशायां स्वाध्यायादिकं कर्तुं, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुजाना न ताः परिग्रहवत्यः / अथोच्येत- सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयम्, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तम्, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणमिति / तदप्ययुक्तम्, स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षमनुमान वा प्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः अथ मन्येथाः-स्वभावत एवातपेनेव छाया विरुध्यतेस्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते, तदयुक्तम्, युक्तिविरोधात्, तथा हिरत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरमसमये, अयोग्यावस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः ? नहि अदृष्टन सह विरोधः प्रतिपत्तुं शक्यते, मा प्रापत् पुरुषेष्वतिप्रसङ्गः। ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतचोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धं, सर्वोत्कृष्ट च द्वे पदे-सर्वोत्कृष्ट दुःखस्थानं सर्वोत्कृष्ट सुखस्थानं च / तत्र सर्वोत्कृष्ट-दुःखस्थानं सप्तमनरकपृथिवी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, ततः परमन्यस्य सुखस्थानस्या-सम्भवात्, ततः स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गम नयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तम-पृथिवीगमननिषेधादवसीयतेनास्ति स्त्रीणां निर्वाणम्, निर्वाणहेतोः तथारूपसर्वोत्कृष्टमनोवीर्यपरिणामस्यासम्भवात्, तथा चात्र प्रयोगः-- असम्भवनिर्वाणाः स्त्रियः, सप्तमपृथिवीगमनत्याभावात्, सम्मूछिमादिवत्, तदेतदयुक्तम्, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते? निःश्रेयसमपि प्रति तासां सर्वोत्कृष्टमनो-वीर्यपरिणत्यभावो न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्य