________________ संखय 58 - अभिधानराजेन्द्रः - भाग 7 संखय च्छ' ति प्रेक्षध्वम् प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्राऽपि नोच्यते तत्राऽपि भावनीयम् / इह-अस्मिन् लोकेजन्मनि, आस्ता परलोक इत्यपिशब्दार्थः, कृताना-स्वयंविरचितानां कर्मणां ज्ञानावरणादीनां; न मोक्षः-न मुक्तिः , ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्यात. अन्यथा सकलसुखित्वाद्यापत्तेः / इदमुक्तं भवति-यथासावर्थग्रहाणवाञ्छया प्रवृत्तः स्वकृतेनैव क्षत्रखननात्मकोपायेन कृत्यते, न तरय स्वकृतकर्मणो विमुक्तिः, एवमन्यस्याऽपि तत्तदनुष्ठानतोऽशुभकारिणो न तता विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति / पठ्यतेच- "एवं पयापेच्च इह च" त्ति इहाऽपि कृत्यत इति, संबध्यते, कृत्यत इव कृत्यते / तथाविधबाधानुभवनेन। काऽसौ ? प्रजा, क्व?प्रेत्य-परभवे, इह चेतिइहलोके किमिति प्रेत्येत्युच्यते-यावता इह कृतमिहेवापगतमत आहयत् कृतानां कर्मणां मोक्षो नास्ति, इह परत्र वा वेद्यमेवावश्यं कर्मेति। अहवा “एवं पयापेच्च इह पि लोए, ण कम्मुणो पीहति तो कयाती" एवं प्रजा ! आमन्त्रणपदमेतत्, प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'तो' इति ततो हेतोः कदाचित्-करिमश्चित्काले नेति निषेधे 'कामुणो' त्ति कर्मणे प्रस्तावाद् कुत्सितानुष्ठानाय स्पृहयेत्-ना भिलाषमपि कुर्याद आस्तां तत्करणमित्याकूतम्, तदभिलषणस्याऽपि बहुदोषत्वाता तथा च वृद्धाः- “एगम्मि नयर एगेण चोरेण रत्तिं दुरवगाढे पासाए आरोद् विमोण खत्तं कयं / सुबहुं च दव्वजायं णीणिय / णियघरं चऽणेण संपावियं / पहायाए रयणीए सहाय समालद्धसुद्धवासो तत्थ गतो। को किं भाराति त्ति जाणणत्था जइ तावऽज्जलोगो म ण याणिस्सइ ता पुणो वि पुव्वटिइए चोरिस्सामीति संपहारिऊण तम्मि य खत्तट्टाणे गओ। तत्थ य लोगो बहू मिलितो सलवति-कह दुरारोहे पासाए आरो, विमग्गेण खत्त कय? कह चखुडुलएणखत्तदुवारण पविट्ठा? पुणो य सह दव्येण णिग्गओ त्ति / सो सुणेउं हरिसितो चिंतेइ सच्चमेयं / किहऽहं एएण निग्गतो ति?. अप्पणो उदरं च कडिं च पलोएउं खत्तमुहं पलोएति। सो य रायनिउत्तेहिं पुरिसहिं कुसलेहिं जाणितो, रायणो उवणीतो सासितो य" एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः / इह कृतानां कर्मणाभवन्ध्यत्वमुक्तम्- तत्र च कदाचित स्वजनत एव तन्मुक्तिर्भविष्यति, अभुक्तौ वा विभज्यैवामी धनादिवद् भोक्ष्यन्त इति कश्चिन्मन्येत अत आहसंसारमावन्न परस्स अट्ठा, साहारणं जंच करेति कम्म। कम्मस्स ते तस्स उवेयकाले, नबंधवा बंधवयं उति॥४॥ / पाठान्तरेऽपि पापकर्मस्पृहाणं सदोषमिति निषिद्धम् / ततस्तत्राऽपि स्यादेतत्-यथेह सर्व साधारण तथाऽमुष्मिन्नपि भविष्यत्यत आहसंसारसूत्रम्। संसरणं-संसार:-तेषु तेषूचावचेषु पर्यटनं तम् आपन्नःप्राप्तः, परस्य-आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, अर्थात्-इति अर्थप्रयोजनमाश्रित्य साधारणम् / 'जं च त्ति चस्य वाशब्दार्थत्वादभिन्नक्रमत्वाच्च साधारण वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति-निर्वर्त्तयति भवान्, कर्माहतुत्वात् कर्म, क्रियत इति वा कर्म-कृष्यादि कर्म तस्यैव कृष्यादेः 'ते'-तव हे कृष्यादिकर्मकर्त्तः ! तस्य-परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मनिमित्तं कृतस्येत्यभिप्रायः, वेदन-वेदो विपाकः तत्तत्कर्मफलानुभवनं तत्काले न -इति निषेधे, अवधारणफलत्वाद्धाक्यस्य नैव बान्ध्या स्वजनाः-यदर्थ -तत्कर्म कृतवान् करोषि वा, ते बान्धवता - बन्धुभाव तद्विभजनापनयनादिना 'उति त्ति उपयन्तीति, यतश्चैवमतस्तदुपरि' प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यम, तथाविधाऽऽभीरीव्यंसकवणिग्वत्। तथा च बृद्धाः- “एगम्मि नयरे एगोवाणियग' अंतराऽऽवणेसुं ववहरइ, एगा आभीरी उज्जुगा दो रूवर घेत्तूण कप्पासनिमित्तमुवट्ठिया / कप्पासो यतया समग्धो वट्टति / तेण वाणियएण एगस्स रुवस्स दो वारा तोलेउ कप्पासो दिन्नो। सा जाणइ-दोण्ह विरुवगाण दिन्नो त्ति। सा पोट्टलयं बंधिऊण गया। पच्छा वाणियगो चिंतेति-एस रूवगो मुहा लद्धो। ततो अहं एवं उवभुंजामि। तेण तस्स रूवगरस समियं घय गुलो विक्किणिउ घरे विसजिउं भज्जा संलत्ताघयपुण्णे करेज्जासि त्ति / ताए कया घयपुण्णा / जामाउगो से सवयंसो आगतो। सो ताए परिवेसितो घयपुणे हिं, सो भुंजिउं गतो / वा-णियगो ण्हाणपयतो भोयणस्थभुवगतो। सो ताए परिवेसितो सा-भाविएण भत्तेण / भणतिकिं न कया घयाउरा?ताए भण्णति-कया पर जामाउएण सवयंसेण खाइया। सो चिंतेति-पेच्छ जारिस कयं मया, सा वराई आभीरी वंचेउ परनिमित्त अप्पा अवुन्नेण संजोइओ। सो य सचिंतो सरीरचिंताए णिग्गतो गिम्हो य वति। सो मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसम-ति / साहू य तेणोगासेण भिक्खाणिमित्तं जाति / तेण सो भण्णति-भगवं। एत्थ रूक्खच्छायाए विस्सम मया समाणं ति। साहुणा भणियं-तुरियं मए णियकजेण गंतव्यं / वणिएण भणियं - किंभयव! कोऽवि परकज्जेणावि गच्छइ? साहुणा भणियंजहा तुम चिय भञ्जाइनिमित्त किलिस्ससि / " “स मर्गणीव स्पृष्टः” तेणेव एकवयणेण संबुद्धो भणतिभयवं ! तुम्हे कत्थ अच्छह ? तेण भण्णइ-उज्जाणे / ततो त साहु कयपज्जत्तिय जाणिऊण तरस सगासं गतो, धम्म सो भणतिपव्वयामि जाव सयणं आपुच्छिऊणं / गतो णिययं घरं बंधवं भज्ज च भणइ-जहा आवणे क्वहरंतस्स तुच्छो लाभगो, तो दिसावाणिज्ज करेरसामि / दो य सत्थवाहा, तत्थेगो मुल्लभंड दाऊण सुहेण इहपुरं पावेइ, तत्थ विढत्ते ण किंचि गिण्हति। बीओ न किंचि मुल्लभंड देति, पुव्व विढत्तं च विलुपेति। तं कयरेण सह वच्चामि ? सयणेण भणियं पढमेण सह वच्चसु। लेहि सो समणुण्णातो बंधुसहितो गओ उज्जाणं / तेहि भण्णतिकयरो सत्थवाहो ? तेण भण्णति- णणु परलोगसत्थ-वाहो एस साहू असोगच्छायाए उवविट्टो णियएण भंडेण ववहा-रावेइ / एएण सह निव्वाणपट्टण जामि त्ति पव्वइतो" यथा चायं वणिक् स्वजनस्वतत्त्वमालोचयन् प्रव्रज्या प्रत्यादृतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यम्। तथा च वाचक:"रोगाघ्रातो दुःखा-दितस्तथा स्वजनपरिवृतोऽतीव।