________________ सावगधम्म 786 - अभिधानराजेन्द्रः - भाग 7 सावगधम्म अवयवार्थ तु महता प्रपञ्चेन ग्रन्थकार एव वक्ष्यति। तथा थाहएयस्स मूलवत्थू, सम्मत्तं तं च गंठिभेयम्मि। खयउवसमाइ तिविहं, सुहाय परिणामरूवं तु ||7|| एतस्यानन्तरोपन्यस्तस्य श्रावकधर्मस्य मूलवस्तु सम्यक्त्वम्। वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु / मूलभूतं च तद्वस्तु च मूलवस्तु किं तत्सम्यक्त्वम्। श्रा०। आव०। (एतानि व्रतानि स्वस्वस्थाने / ) 'इत्थ पुण समणोवासगधम्मे पंच अणुव्वयाई तिन्नि गुणव्वयाई आवकहियाई चत्तारि सिक्खावयाइं इत्तरियाई, आव०६ अ० आ०चू० / ध० र०। ननु धर्मो द्विधा- श्रावकधर्मो, यतिधर्मश्च / तत्राद्योऽविरतविरतश्रावकधर्मभेदात् द्विधा / तत्राविरतश्रावकधर्मस्यान्यत्र "तत्थऽहिगारी अत्थी, समत्थओ जो न सुत्तपडिकुट्ठो। अत्थी उजो विणीओ, समुडिओपुच्छमाणो य" ||1|| इत्यादिनाऽधिकारी निरूपितः, विरतश्रावकधर्मस्य तु "संपत्तदंसणाई, पइदियह जइजणा सुणेई य। सामायारिं परमं, जो खलु तं सावयं बिति" ||2|| तथा-परलोगहियं सम्म, जो जिणवयणं सुणेइ उवउत्तो। अइतिव्वकम्मविगमा, उक्कोसो सावगो इत्थं // 3 // " इत्यादि-भिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिः सूत्रैरधिकारित्वमुक्तम्। यतिधर्माधिकारिणोऽप्यन्यत्रैवमुक्ताः , तद्यथापव्वज्जाए अरिहा, ऑयरियदेसंमि जे समुत्पन्ना। जाइकुलेहि विसिट्ठा, तह खीणप्पा य कम्ममला // 1 // तत्तो य विमलबुद्धी; दुलह मणुयत्तणं भवसमुद्दे। जम्मो मरणनिमित्तं, चवलाओ संपयाओ य॥२॥ विसया य दुक्खहेऊ, संजोगे नियमओ विओगु त्ति पइसमयमेव मरणं, इत्थ विवागो य अइरुद्दो॥३॥ एवं पयईए चिय, अवगयसंसारनिग्गुणसहावा। तत्तो य तस्विरत्ता, पयणुकसायप्पहासा य // 4 // सुकयन्नुया विणीया, रायाईणमविरुद्धकारी य। कल्लाणंगा सड्ढा, थिरा तहा समुवसम्पन्ना॥५॥" इत्यादि / तदेभिरेकविंशत्या गुणैः कतमस्य धर्मस्याधिकारित्वमुक्तमिति? अत्रोच्यते-एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गभूतानि वर्तन्ते, चित्रस्य वर्णक-शुद्धिविचित्रवर्णातासरेखाशुद्धिनानाभावप्रतीतिवत्, प्रकृतगुणाः पुनः सर्वधर्माणां साधारणा भूमिकेव चित्रप्रकाराणामिति सूक्ष्म-बुद्ध्या परिभावनीयम् / वक्ष्यति च- "दुविहं पि धम्मरयणं, तरइ नरो धित्तुमविगलं सोउं / जस्सेगवीसगुणस्यण संपया सुत्थिया अस्थि / / 1 // " (त्ति)। अत एवाहसह एयम्मि गुणोहे, संजायइ भावसावगत्तं पि। तस्स पुण लक्खणाई, एयाइँ भणंति सुहगुरुणो // 32 // सति विद्यमाने एतस्मिन्ननन्तरोक्ते गुणौघे संजायते-सम्भवति भावश्रावकत्वमपि-दूरे तावद् भावयतित्वमित्यपेरर्थः / आहकिमन्यदपि श्रावकत्वमस्ति,येनैवमुच्यते भावश्रावकत्वमिति? सत्यम्इह जिनागमे सर्वेऽपि भावाश्चतुर्विधा एव, "नामस्थापनाद्रव्यभावैस्तन्न्यास'' इति वचनात्, तथाहि-नामश्रावकः, सचे तनाचेतनस्य पदार्थस्य यत् श्रावक इति नाम क्रियते / स्थापनाश्रावकश्चित्रपुस्त(का)कर्मादिगतः / द्रव्यश्रावको ज्ञशरीरभव्यशरीरव्यतिरिक्तो देवगुरुतत्त्वादिश्रद्धानविकलस्तथाविधाऽऽजीविकाहेतोः श्रावकाकारधारकश्च / भावश्रावकस्तु-"श्रद्धालुतां श्राति शृणोति शासनं, दीने वपेदाशु वृणोति दर्शनम्। कृन्तत्यपुण्यानि करोति संयम, तं श्रावकं प्राहुरमी विचक्षणाः / / 1 / / " इत्यादिश्रावकशब्दार्थधारी यथाविधि श्रावकोचितव्यापा-रपरायणो वक्ष्यमाणः-स चेहाधिकृतःशेषत्रयस्य स्यात्कथंचि–देव भावादिति। ननु-आगमेऽन्यथा श्रावकभेदाः श्रूयन्ते यदुक्तं श्रीस्थानाङ्गे-'चउव्विहा समणोवासगा पन्नत्ता,तंजहाअम्मापिइसमाणे, भायसमाणे, मित्तसमाणे, सवत्तिसमाणे / अहवाचउव्विहा समणोवासगा पन्नत्ता, तंजहा-आयंससमाणे, पडागसमाणे, खाणुसमाणे, खरंटसमाणे' एते च साधूनाश्रित्य द्रष्टव्याः / ते चामीषां चतुर्णा मध्ये कस्मिन्नवतरन्तीति? उच्यते-व्यवहारनयमतेन भावभावका एवैते तथा व्यवह्रियमाणत्वात्, निश्चयनयमतेन पुनः सपत्निखरण्ट समानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको, शेषास्तु भावश्रावकाः। तथाहि-तेषां स्वरूपमेवमागमे व्याख्यायते"चिंतइ जइ कजाई, न दिवखलिओ वि होइ निन्नेहो। एगंतवच्छलो जइ-जणस्स जणणीसमो सड्ढो।।१।। हियए ससिणेहो चिय, मुणीण मंदायरो विणयकम्मे। भाइसमो साहूणं,पराभवे होइ सुसहाओ॥२॥ मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे। मन्नंतो अप्पाणं, मुणीण सयणाउ अब्भहियं // 3 // डुद्धो छियप्पेही, पमायखलियाणि निच्चमुच्चरइ। सङ्को सवत्तिकप्पो,साहुजणं तणसमं गणइ // 4 // " तथा द्वितीयचतुष्केगुरुभणियो सुत्तस्थो, बिंबिजइ अवितहो मणे जस्स। सो आयंससमाणो, सुसावओ वन्निओ समए॥१॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेण / अविणिच्छियगुरुवयणो, सो होइ पडोइयातुल्लो / / 2 / / पडियन्नमसग्गाहं, न मुयइ गीयत्थसमणुसिट्ठो वि। थाणुसमाणो एसो, अपओसियमुणिजणे नवरं / / 3 / / उम्मग्गदेसओ नि-न्हवो सि मूढो सि मंदधम्मो सि। इह सम्मं पि कहतं, खरंटए सो खरंटसमो।।४।। जह सिढिलमसुइदव्वं, छुप्पंतं पिहुनरं खरंटेइ। एवमणुसासगं पि हु, दूसतो भन्नइ खरंटो।।५।। निच्छयओ मिच्छत्ती, खरंटतुल्लो सवति तुल्लो वि। ववहारओ उसड्ढा, वयंतिजं जिणगिहाईसु // 6 // " इत्यलमतिप्रसङ्गेन तस्य पुनविश्रावकस्य लक्षणानि चिह्नान्येतानि वक्ष्यमाणानि भणन्ति-अमिदधति-शुभगुरवः संविग्रसूरय इति / ध० र० 1 अधि० / ध०। ('णालदइज्ज' शब्दे चतुर्थभागे 2013 पृष्ठे श्रावकगतविधिरुक्तः।) जिनवल्लभसूरिकृतप्रकृतालापकरूपदीपालिकाकल्पे लिखितमस्ति 'पडिमारूवो सावगधम्मो वुच्छिजिस्सई' इति, तेन तत्रत्यपुस्तके ध्वयं पाठोऽस्ति नवा? इति प्रश्नः, अत्रोत्तरम्-जिनवल्लभसूरिकृत आलपकरूपो दी