________________ सामाइय 742 - अभिधानराजेन्द्रः - भाग 7 सामाइय नय' मित्यादि / द्रव्यनयं प्रति द्रव्यनयाभिप्रायेणेत्यर्थः, जीवात सामायिकं न भिन्नम्, किन्तु जीव एव सामायिकम्, तदभिप्रायेण वक्ष्यमाणयुक्त्या जीवदेव्यस्यैव सत्त्वात, गुणानां तु तव्यतिरेकिणां परमार्थतोऽसत्त्वादिति / इतरं तु पर्यायार्थिकनयं प्रति पर्यायार्थिकनयाभिप्रायेण भिन्न जीवद्रव्यात् सामायिकम, यतो यस्मात पूर्वोक्तयुक्तिभिर्नास्ति तेभ्यः-सामायिकादिगुणेभ्योऽर्थान्तर भिन्नो जीवः, तन्मलेन जीवादे व्यस्य कल्पनामात्रेणैव सत्त्वादिति। तत्र 'पलायनयमिणं' इत्यादिना ग्रन्थेन विस्तरतः पर्यायार्थिकनयमतमुपदर्शितभ। (72) अथ द्वितीयस्य द्रव्यार्थिकनयस्याभिप्राय सविस्तर दिदर्शयिषुराहवीयस्स दव्वमेत्तं,नत्थि तदत्थंतरं गुणो नाम / सामन्ना वत्थाणा-भावाओ खरविसाणं व॥२६६५।। आदिब्भावतिरोभा-वमेत्तपरिणामिदव्वमेवेयं / निच्चं बहुरूवं पि य,नडो व्व वेसंतरावन्नो // 2636 / / प्रथमनिर्दिष्टपर्यायार्थिकनयापेक्षया द्वितीयस्य द्रव्यार्थिकनयस्य सर्व सुवर्णरजतादिक द्रव्यमात्रमेवास्ति, गुणस्तु रक्तत्वश्वेतत्वादिकस्तदर्थान्तरभूतो नास्ति,तस्य सामान्यरूपतयाऽवस्थानाभावात् खरविषाणवदिति। एतदेवाह-आविर्भावश्च कुण्डलादि--रूपेण, तिरोभावश्च मुद्रिकादिभावेन, आविर्भावतिरोभावौ, तावेव तन्मात्रम, तेन परिणन्तु-- परिवर्तितुं शील यस्य तदाविर्भावतिरो--भावमात्रपरिणामि सुवर्णादिक द्रव्यमेवेदमस्ति, न तु तदतिरिक्ता गुणाः / कथंभूतं द्रव्यम? नित्यमविचलितस्वभावम्, बहुरूपं च कङ्कणाऽङ्गदकुण्डलमुद्रिकादिवहुपरिणामम्,रामरावणभीमाऽर्जुनादिसम्बन्धीनि वेषान्तराण्यापन्नः प्राप्ती नट इवेति / यथाहि--बहून वेषान् कुर्वन्नपि नटो निज देवदत्तादिस्वभावं | न जहाति, सर्वास्ववस्थास्वपि तस्यैकस्वरूपत्यात, एवं सुवर्णातिक द्रव्यमपि कङ्कणादिबहुरूपाण्यापन्नमपि सुवर्णादिरूपतांन परित्यजतीति न तव्यतिरेकिणः केचनापि गुणाः। इत्यष्टादशगाथार्थः। अस्यैव द्रव्यार्थिकनयमतस्य समर्थनार्थ नियुक्तिकाराऽप्याहजं जं जे जे भावे, परिणमइ पओगवीससा दव्वं / तं तह जाणाइ जिणो,अपज्जवे जाणणा नत्थि।।२६६७।। प्रयोगश्वेतनावतो व्यापारः,विस्रसा- रवभावस्ताभ्यां निष्पन्न द्रव्य प्रयोगविस्रसाद्रव्यमुच्यते / तत्र प्रयोगनिष्पन्न घटपटादि,विससा - | निष्पन्न त्यभेन्द्रधनुरादि / तत्र प्रयोगविस्रसाद्रव्यं कर्तृ यान यान कृष्णरक्तपीतशुक्लत्वादीन भावान् पर्यायान परिणमति प्रतिपद्यते, 'तं तह' त्ति वीप्साप्रधानत्वाद् निर्देशस्य तत् तत् तथा तेन तेन रूपेण परिणमद् द्रव्यमेव जानाति, जिनः केवली, न पुनस्तदतिरिवतान् पर्यायानिति भावः तेषामुत्प्रेक्षामात्रेणैव सत्त्वात् / न ह्युत्फण-विफणकुण्डलिताद्यवस्थायामपि सादिद्रव्यस्य स्व-स्वरूपव्यतिरिक्तः कोऽपि पर्यायः संलक्ष्यते,सविस्थास्वविचलितस्वरूपस्य सादिद्रव्यस्यैव संलक्षणादिति। यदि पर्याया न विद्यन्ते,तर्हि कथमुच्यते 'जे जे भावे परिमणइ ? इत्याशक्याह-'अपज्जवे जाणण नत्थि' तिअपर्याय पर्यायरहिते वस्तुनि केवल्यादीनां परिज्ञा नास्तीति मन्यामहे, केवलमुत्प्रेक्षामात्रेणैव ते पर्यायाः,न पुनव्यव्यतिरेकिणः केचनापि वास्तवास्ते विद्यन्ते। अतो द्रव्यमेव परमार्थसत्, इति निक्तिगाथार्थः / अथ भाष्येणैतां व्याचष्टेजं जाहे जं भावं, परिणमइ तयं तया तओऽणन्नं / परिणइ मेत्तविसिटुं,दव्वं चिय जाणइ जिणिंदो॥२६६८।। इह यद घटेन्द्रधनुरादिद्रव्यं यदा यस्मिन् काले यं रक्त श्वेतादि-भाव पर्याय परिणमति प्राप्नोति तत् तदा ततः पर्यायादनन्यदभिन्न सद्रव्यमेव परिणतिभात्रविशिष्टमविचलितस्वरूपं जानाति जिनेन्द्रः केवलीति। ननु यदि पर्याया वस्तु सन्तो न भवन्ति तर्हि कथमविशिष्टेऽपि सुवादिद्रव्ये कुण्डलाऽड्गुलीयकनू पुरादयं व्यपदेशाः प्रवर्तन्ते? नचैते निर्विबन्धना एव अनि प्रसङ्गादित्याशङ्याहन सुवण्णादन्नं कुं-डलाइ तं चेय तं तमागारं / पत्तं तव्ववएसं, लभइ सरूवादभिन्नं ति / / 2666 / / न सुवर्णादन्यो व्यतिरिक्तः कुण्डलादिरथोऽस्ति, येन सुवर्णादिव्यव्यतिरकिणः कुण्डलादिपर्याया भवेयुः किन्तु तदेव सुवर्णादि द्रव्यं तं तं कुण्डलकङ्कणाद्याकारं प्राप्त सत् तस्य तस्य कुण्डलाद्याकारस्य व्यपदेशं लभते / कथंभूतम? पूर्वावस्थास्वरूपादुत्तरावर थायामभिन्नमप्यविचलितस्वभावमपीति। ततश्च नेते सुवर्णादिद्रव्ये कुण.इसकङ्कणादयो व्यपदेशा निर्निबन्धनाः, तत्तद्विशिष्टाकार-निबन्धनत्वात् / न च तदाकारस्य द्रव्याद् भिन्नत्वम्, द्रव्यस्य निराकारत्वप्रसङ्गात्। तस्मादनन्यत्वं गुणानामिति। अथान्यत्वमिष्यते, तत्राहजइ वा दव्वादन्ने,गुणादओ नूण सप्पएसत्तं / होज व रूवाईणं, विभिन्नदेसोवलंभो वि॥२६७०।। यदि पुनर्द्रव्यादरूपादयो, गुणाः,आदिशब्दाद-नवपुराणादयः पर्याया अन्ये व्यतिरेकिण इध्यन्ते,तदा नूनं निश्चितं गुणादीनां सप्रदेशत्वमेष्टव्यं भवता / इदमुक्तं भवति-द्रव्यप्रदेशा गुणादय इति रूढम् यदाच ते द्रव्याद् गिन्ना इष्यन्ते, तदाऽनन्यशरणाः सन्तः स्वस्यात्मन एव प्रदेशा अवयवा भवेयुः / न चैतद् दृष्टम, इष्ट वा, गुणादीना सदैव पारतन्त्रण परप्रदेश त्वस्यैव रूढत्वात्। न हि वस्तु स्वात्मन एव स्वयमवयवो भवतीति क्यापि दृश्यते, युज्यते वेति / किञ्च-गुणादीनां द्रव्याद् भिकत्व इष्यमाणे रूपरसगन्धादीना घटादिद्रव्याद भिन्नेऽपि देश उपलब्धिः स्यात्, तथाहि-यद्यतो भिन्नं तत् ततो भिन्नदेश उपलभ्यते, यथा घटात पटः, न चैवं रूपादयः, तस्मात् ते घटादिद्रव्यादभिन्ना एवेति द्रव्यमेवास्तिन पर्याय इति। अथोपचारतस्तेऽपीष्यन्ते, तर्हि सिद्धसाध्यतेति दर्शानाहजइ पञ्जवोक्यारो, लयप्पयासपरिणाममेत्तस्स।