________________ सामाइय 727 - अभिधानराजेन्द्रः - भाग 7 सामाइय धार्थ ! ' तयंभूता मतिर्भवेचारित्रोपयुक्तेभ्योऽन्येऽपि केवलज्ञानगम्या अनभिलाप्या अनन्तगुणाः पर्यायाः सन्ति, ये चारित्रादनन्तगुणाः, चारित्रं तु येषामनन्तभाग इति / परः प्राह- 'ते वि के / सदभहिय' ति-तेऽपि केवलज्ञानगम्या ज्ञेयगता अनभिलाप्याः पर्यायाः / के तदभ्यधिकाः तेभ्यश्चारित्रोपयुक्तेभ्योऽभ्यधिका अतिरिक्ताः रयुः? न केचनेत्यर्थः, संयमस्थानपर्यायैः सर्वस्थापि त्रिजगत्पर्यायराशेः क्रोडीकृतत्वात् तदनुपयुक्तत्वासम्भवादिति। किञ्चएवमपि चारित्रयायाः केवलज्ञानगम्यैज्ञेयगतैः पर्यायैस्तुल्या एव भवेयुः, न पुनस्तेषां केवलज्ञानगम्यपर्यायाणामनन्तगुणत्वं युक्तम् / यावन्तोहिशेयस्य पर्यायास्तवन्तस्तदवभासकत्वेन ज्ञानस्याप्येष्टय्याः, अन्यथा तदवभासकत्वायोगात् / ततश्च ज्ञानदर्शनचारित्राध्यवसायात्मिकायाः संयमश्रेणरन्तर्गतत्वात केवलज्ञानस्य संयमश्रेण्यात्मकं चारित्रं पर्यायः केवलज्ञानगम्यानां ज्ञरागतपर्यायाणां तुल्यमेव युक्तं न हीनमिति। (64) एव परस्यातिप्रेयनिपुणत्वमवलोक्य सूरिरतिनिपुणमेव प्रतिविधानमा:सेढी य नाणदंसण-पञ्जाया तेण तप्पमाणा सा। इह पुण चरित्तमेत्तो-वओगिणो तेण ते थोवा // 2758 / / श्रेण्या ज्ञानदर्शन-चारित्राध्यवसायात्मिकाया संयमश्रेणो ज्ञानदनिपाया मध्ये संलुलिता विवक्षिताः, तेन तत्प्रमाणासौसर्वनभः प्रदेशानन्तगुणपर्यायराशिप्रमाणाऽसौ प्राक्ता / इह तु ये चारित्रोपयोगिनस्तएव विवक्षिताः, तेच ग्रहणधारणादिविषयभूता एव केचित, तेन स्ताका तिन दोषः। अथान्यत् प्रेयमुत्थापयन्नाहनणु सामाइयविसओ, किं दारम्मि वि परूविओ पुटिवं। कह न पुणरुत्तदोसो, होज इहं को विसेसो वा? ||2756 / / ननु पूर्व किद्वार एव से खलु पशक्खाणं आवार' इत्यादिना सामायिकान, विषयः प्ररूपित एव इह पुनरपि 'सव्वगयं सम्मत्त' इत्यादिना तविषयनिरूपणं कुर्वतः कथं न पुनरुक्तदोषो-भवेत्? को वा विशेषोऽत्र यमाश्रित्य पुनरप्येवमुच्यते? इति। अत्रोत्तरमाहकिं तं ति जाइभावे--ण तत्थ इह नेयभावओऽभिहियं / इह विसयविसइभेओ, तत्थाभेओवयारो त्ति // 2760 / / किं तत् सानायिकम्? इति जातिभायेन विषयविषयिणोरभेदं चेतसि विधाय सामायिकजातिमात्रमेव तत्र पूर्व किंद्वारेऽपरेण जिज्ञासितम्, ततः आया र लु सामइयं इत्यनन तदेव मुख्यतया प्रोक्तम्, तद्विषयस्तु चरण जिज्ञापितोऽपि विषयिणि पृष्टे तदभिन्नत्वाद् गौणवृत्त्यैव प्रोक्तः / इह तु केषु' इतिद्वारे विषय एव मुख्यतया परंण जिज्ञासितः, अतस्तस्यैव विषयस्य ज्ञेयभावेन ज्ञातव्यतयाऽभिहितं स्वरूपमित्युपस्कारः / पाठान्तर वा--'अभिहिउ' ति- तत्रायमर्थ:-इह तु ज्ञेयभावेनज्ञातव्यतया विषय एवाभिहितः। किमुक्त भवति?-इत्याह- 'इहे.' त्यादि, इह -केषु इतिद्वारे विषयविषयिणोर्भेदो विवक्षित इत्यतो निष्कृष्य विषय एव ज्ञेयभावेनोक्तः, तत्र तु किं द्वारे विषयविषयिणोरभेदोपचार इत्यतो विषयिभूतं सामायिकमेव ज्ञेयभावेन मुख्यतया निर्दिष्टम / इति गाथानवकार्थः / साम्प्रतं 'कथं सामायिकं लभ्यते?' इति द्वारे महाकष्टलभ्ये तल्लाभक्रमं दर्शयन्नाह-- 'माणुस्स' इत्यादिकाः 'अब्भुटाणे विणए' इति पर्यन्ता अष्टाविंशतिगाथाः / एताश्च पाटसिद्धा एव, कृचिद् वैषम्यसम्भवे मूलावश्यकटीकातो बोद्धव्या इति। कथमिति द्वारम् गतम्। विशे०। आ० म० / आ० चू०। (कथं सामायिकमवाप्यते इति माणुसत्त' शब्दे षष्ठे भागे गतम्।) (65) मानुषत्वे लब्धेऽपि एतैः कारणैः दुर्लभं सामायिकमिति प्रतिपादयन्नाहआलस्स मोहवन्ना, थंभा कोहा पमायकिविणत्ता। भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा / / एएहि कारणेहिं, लखूण सुदुल्लहं पि माणुस्सं / नलहइ सुइं हियकरिं, संसारुत्तारणिं जीवो।। आलस्यान्न साधुसकाशं गच्छति शृणोति वा, तथा-मोहात् गृह.. कर्तव्यतया व्याकुलत्वात्, तथा अवज्ञातः किमेते जानन्तीत्येवं-- रूपायाः, स्तम्भात्-जाड्यादपि,मानात उत्तमजातीयोऽहं कथ–मेतेषा भिक्षाचराणा हीनजातीयानां पाश्वेगच्छामीत्यादिलक्षणात् क्रोधात्तथा च कोऽपि साधुदर्शनादेव कुप्यति,तथा प्रमादात् मद्या-- दिप्रसक्तिरूपात्, कृपणत्वात् नून गतैस्तेभ्यः किमपि दातव्यं भविष्यतीत्यवं रूपात, तथाभयात् साधवो हि नरकादिभयं गतेभ्यो दर्णयन्तीति, शोकादा इष्टवियोगजात, अज्ञानात कुदृष्टिजनितात्, कुबोधात् व्याक्षेपात् अन्यान्यबहुप्रयोजनकरणत आत्मनो व्याकुलीभावसंपादनात्, तथा कुतूहलात् नटादिविषयात्, रमणात् नानाविधकुकुटयोधनादिक्रीडाप्रसवितरूपात्। एतेहिं' एभिः कारणैरालस्यादिभिश्च दुर्लभमपि मानुष्य लब्ध्वाऽपि हितकरी संसारोत्तारणी श्रुतिमिति व्रतादिसामग्रीयुक्तस्तु कमरिपुं विजित्याविकलचारित्रसामायिकमाप्नोति। यानादिगुणयुक्तयोध इव जयलक्ष्मीमिति। तथा चाऽऽहजाणावरणपहरणे, जुद्धे कुसलत्तणं व नीई य। दक्खत्तं ववसाओ,सरीरमारोग्गया चेव // यानम्-हस्त्यादि आवरणम्-कवचादि प्रहरणम्-खड्गादि यानावरणप्रहरणानि,तथा-युद्धे कुशलत्वम्-सम्यक्त्वज्ञानम् नीतिश्व निर्गभप्रवेशरूपा,दक्षत्वम्-आशुकारिता व्यवसायःशौर्य , शरीरमविकलम,आरोग्यता-व्याधिवियुक्तता-एतावद्रणसामग्रीसमन्वित एव योधो जयश्रियमाप्नोति एष दृष्टान्तः। दार्शन्तिकयोजना त्वियम्जीवो जोहो जाणं, वयाणि आवरणमुत्तमाखंति / झाणं पहरणमिटुं,गीयत्थत्तं व कोसल्लं॥ दव्वाइजहोवाया-गुरूवपडिवत्तिवत्तिया नीई।