________________ सामाइय 722 - अभिधानराजेन्द्रः - भाग 7 सामाइय दि, इह शेषग्रहणेनाण्डजपोतजलक्षणं जन्मद्वयमेव गृह्यते,औपपातिकास्तु पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्चाद्ययोद्वयोरेव भवन्तीति द्रष्टव्यमिति। (50) अथ स्थितिद्वारमाहउक्कोसयट्ठिईए, पडिवज्जंते य नत्थि पडिवण्णो। अजहण्णमणुक्कोसे, पडिवजे यावि पडिवण्णे // 2723 / / आयुर्वर्जाना ज्ञानावरणादिकर्मणा त्रिशत्सागरोपमकोटीकोट्या- | दिकायामुत्कृष्टस्थितौ वर्तमानो जीवश्चतुर्णामपि सामायिकानां न प्रतिपद्यमानको न चापि पूर्वप्रतिपन्नः प्राप्यते, तस्यातिसंक्लिष्टत्वेन तदसम्भवात् / आयुषस्त्रयस्त्रिंशत्सागरोपमलक्षणायामुत्यष्टस्थिती वर्तमानोऽनुत्तरसुरः पूर्वप्रथमसामायिकद्वयस्य प्रतिपन्नः प्राप्यते, सप्तमपृथिव्यप्रतिष्ठाननारकस्तु षण्मासावशेषायुस्तथाविधविशुद्धियुक्तत्वादस्यैव सामायिकद्वयस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते; तथा च वक्ष्यति-'आउक्कोसे दोण्णि उपवजमाणो पवण्णो वा' इति / जघन्यायां तु क्षुल्लकभव-ग्रहणलक्षणायामायुःस्थिती वर्तमानो निगोदादिश्चतुर्णामपि न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नः प्राप्यते,तस्या विशुद्धत्वेन तदयोग्यत्वादिति। शेषे तु ज्ञानावरणादि-कर्मसप्तकेजघन्यामन्तर्मुहूर्तादिकां स्थिति बध्नन् दर्शनससकातिक्रान्तोऽन्तकृल्केबलित्वप्राप्स्यन् क्षपको देशविरतिवर्जितस्य सम्यक्त्वश्रुतसर्वविरतिलक्षणसामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते,तस्यातिविशुद्धत्वेनातिज - घन्यस्थितिबन्धकत्वात्, क्षपकस्य च देशविरतेरसंभवात्सम्यक्त्वादिप्रतिपत्तेश्च पूर्वमेव संजातत्वादिति।जघन्यस्थितिकर्मबन्धकत्वेन चेह जघन्यस्थितिकत्वं गृह्यते, नतूपातकर्मसत्तापेक्षयेति, व्याख्यानतो विशेषप्रतिपत्तेरिति / 'अजहण्णमणुक्कोसे' इत्यादि, अजघन्योत्कृष्ट तु कर्मण्यष्टानामपि कर्मणां मध्यमाया स्थिती वर्तमानो जीव इत्यर्थः / चतुर्णामपि सामायिकानां प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते / इति नियुक्तिगाथार्थः। अथ भाष्यमउक्कोसट्ठिइकम्मो,न पवजंतो न यावि पडिवण्णो। आउकोसे दुण्णि उ.पवजमाणो पवण्णो वा // 2724 / / न जहण्णा उ ठिईए.पडिवज्जइ नेयपुर्वपडिवण्णो। सेसे पुथ्वपवण्णो,देसविरइवज्जिए होज्ज / / 2725 / / व्याख्यातार्थे एव। (५१)साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराहचउरो वितिविहवेए, चउसु वि सण्णासु होइ पडिवत्ती! हेट्ठा जहा कसाएँ सुवणियं तह य इहयं पि॥२७२६|| चत्वार्यपि सामायिकानि-स्त्रीपुंनपुंसकलक्षणे त्रिविधेऽपि वेदे प्राप्यन्त इदमुवत भवति-चत्वार्यपि सामायिकान्यधिकृत्य त्रि विधवेदे विवक्षित काले प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वर येव / अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्, न तु प्रतिपद्यमानकः / तथा, चतसृष्वपि संज्ञास्वाहार-भयमैथुनपरिग्रहरूपासुचतुर्विधस्थापि सामायिकस्य भवति प्रति-पत्ति:-प्रतिपद्यमानको भवति, न न भवतीत्यर्थः, पूर्वप्रतिपन्नकरत्वस्त्येव / हे' तिअधो यथा पढमिल्लुआण उदए नियमा संजोयणा कसायाणं' इत्यादिना कषायेषु वर्णित तथेहापि वर्णयितव्यम्, सामान्येन तु सकषायी चतुर्णामपि प्रतिपद्यमामानकः, पूर्वप्रतिपन्नश्च भवति / अकषायी तु छास्थवीतरागो देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानक इति। गतं वेदादिद्वारत्रयम्। (52) साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सया प्राह.. संखेज्जाऊचउरो; भयणा सम्मसुऐऽसंखवासाणं। ओहेण विभागेण य, नाणी पडिवजए चउरो॥२७२७।। संख्यातवर्षायुर्जीवश्चत्वारि सामायिकानि प्रतिपद्यने, प्रतिपन्नस्त्वस्त्येव' इति शेषः / भयणे तयादि भजना - विकल्पना सम्यक्त्वश्रुतसामायिकयोरसंख्येयवर्षायुषाम् / इयमत्र भावना-विवक्षितकालेऽसंख्येयवर्षायुषां सम्यक्त्वश्रुतयोः प्रतिपद्यमगनकः सम्भवति पूर्वप्रतिपन्नस्त्वस्त्येवेति द्वारम् / 'ओहेणे' त्यादि ओघेनसामान्यतः निश्चयनयमतेन ज्ञानी चत्वार्यपि सामायिकानि प्रतिपद्यते, व्यवहारनयमतेन त्वज्ञानिन एव सम्यक्त्वश्रुतप्रतिपत्तः। पूर्वप्रतिपन्नस्तु ज्ञानी चतुर्णामप्यस्त्येव। विभागेनच भेदेन यदा ज्ञानी चिन्त्यत तदा मतिश्रुतज्ञानी द्वे सम्यक्त्वश्रुतसामायिके युगपत् प्रतिपद्यते / देशसर्वविरतिसामायिके तु भजनया प्रतिपद्यते / पूर्वप्रतिपन्नस्तु चतुर्णामप्यस्त्येव। अवधिज्ञानी तु सम्यक्त्व-श्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः / देशविरतिसामायिकंतुन प्रतिपद्यते / देवनारकयतिश्रावका हि चत्वारोऽवधिस्वामिनः। तत्राद्यत्रयस्य देशविरतिप्रतिपत्तेरसम्भव एव, श्रावकोऽप्यवधिज्ञानं प्राप्य देशविरतिं प्रतिपद्यत इत्येव न,किन्तुपूर्वमभ्यस्तदेशविरतिगुणः पश्चादवधि प्रतिपद्यते, देशविरत्यादिगुणप्राप्तिपूर्वकत्वादवधिज्ञानप्रतिपत्तेरित्येतावद् गुरुभ्योऽस्माभिरवगतम्, तत्वं तु केवलिनो विदन्ति। सर्वविरतिसामायिकं तु प्रतिपद्यते। पूर्वप्रतिपन्नस्तु सर्वेषामप्यस्त्येव / मनःपर्यायज्ञानी तु देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव, न तु प्रतिपद्यमानः, युग-पद्वा सह तेन वा चारित्र प्रतिपद्यते तीर्थकृत् , उक्तं च- "पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्थो" इति / भवस्थकेवलिसम्यक्त्वचारित्रसामायिकयोः पूर्वप्रतिपन्नो भवति, नतुप्रतिपद्यमानकः। इति नियुक्तिगाथाद्वयार्थः। भाष्यम्दोसु जुगवं चिय दुर्ग, भयणा देसविरइए य चरणे य। ओहिम्मि न देसवयं,पडिजइ होइ पडिवन्नो // 2728|| देसव्वयवजं माणसे पवन्नो समं पिच चरित्तं /