SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ सामण्णविसेस 651 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस दिकल्पे ज्ञाने एव प्रतिपत्तॄणी कुत इत्याह- तयोः-- सविकल्पावि-- कल्पज्ञानयोः, विमा हासिद्धेः, असिद्धिश्च स्वसंवेदनरूपत्वेन हेतुना ताभ्यां स्वस्वभावदर्शनादिति / इत्थमपिस्वस्वभावदर्शनऽपि सति, विमोहे तदनुच्छेदापतिः-मोहानु च्छेदापत्तिः / कुत इत्याह- उपायाभावात् / न हि स्वसंधेद नरूपे कदाचिदन्यथा भवत इत्युपायाभावः / चेत्यादि। न चानयोः सविकल्पाविकल्पयोर्विज्ञानयोः ऐक्यव्यवसायः। युति इत्याह-- मिथः- परस्परं, भेदाभ्युपगमात् / यदि नामैवं ततः / किमित्याह- स्वविषयनियतत्वेन हेतुना, तथाप्रतिभासानुपपत्तेः-- एक्यप्रतिभासानुपपनः / प्रतिभासश्च व्यवसाय इति। एवमपितथाप्रतिभासानुपपत्तावपि, तदभ्युपगमे ऐक्यव्यवसायाभ्युपगमे अतिप्रसगात् शशविषाणादिव्यवसायापत्तेः। स्यादेतत्, एक्यव्यवसायस्तदपरो विकल्प एव,व्यवसायस्स परिच्छेदात्मकत्वात्। स किं विषय इति वाच्यम् / तदुभयविषय इति चेत् / कथमेतत्प्रतिभासी तद्विषयः? तत्प्रतिभासित्वे वा कथमैक्यं व्यवस्यति? न चात्यन्तभिन्नयोस्तथाव्यवसाये निमित्तम् / भ्रान्त एवाऽयमिति चेत् / तदन्यैवंविधभावे कथं नेतरयोर्भेदव्यवसायः? व्यवसाय एवेति चेत्। न, तथायुक्त्यनुभवाभावेन वाङ्मात्रत्वात् / एतेन 'अन्यत्राऽनयोर्योगपद्येऽपि भेददर्शनात्, इत्यादि प्रत्युक्तम्, तत्त्वतस्तुल्ययोगक्षेमत्वात्। स्यादतदिल्यादि। स्यादेतत्, ऐक्यव्यवसायोऽधिकृतः , ताभ्यां सविकल्पाविकल्पविज्ञ भ्यामपर:-अन्यो विकल्प एव / कुत इत्याहव्यवसायस्य परिर छेदात्मकत्वात् / एतदाशङ्कयाह- रा किं विषयो विकल्पः, इति वाच्यम् / तदुभयविषयः- सविकल्पाविकल्पविज्ञानोभयविषय इते चेत् / एतदाशक्याह-कथमेतत्प्रतिभासी सविकल्पाविकल्प विज्ञानाऽप्रतिभासी सन्, तद्विषयः सविकल्पाविकल्पज्ञानविषयः? तत्प्रतिभासित्वे वा–सविकल्पाविकल्पविज्ञानप्रतिभासित्वे वा सते, कथमक्यं व्यवस्यति परिच्छिन्नति? तद्भेदव्यवसायरूपत्वादित्यर्थः / न चेत्यादि / न चात्यन्तभिन्नयोजातिभेदन, सविकल्पाविकल्प विज्ञानयोरिति प्रक्रमः, तथाव्यवसायः, ऐक्यन व्यवसाये निमित्तं गेलपीतयोरिव भ्रान्त एवायम्परो विकल्प इति चेत्। एतदाशड्क्याह- तदन्येत्यादि / तस्माद् भ्रान्तादन्योऽभ्रान्त एवंविध उभय विषयस्तस्य भावे राति कथं न इतरयोः सविकल्पाविकल्पविज्ञानयोः, भेदर वसायस्तदन्येन? न ह्यन्यस्मिन सत्यरूपेऽसत्यस्य भ्रान्ततेति हृदयम्। व्यवसाय एवेति चेत् अन्येनेतरयोः / इत्येतदाशड्याहनेत्यादि। न-नैतदवम्, तथायुक्त्यनुभवाभावेन हेतुना, वाडमात्रत्वादर्थशून्यत्वादधिकृतवचसः / युक्त्यभावश्चेह स्वलक्षणसामान्यलक्षणगोरकत्राप्रतिभासनात्, अनुभवस्य चासंकीर्णोभयग्राहिणोऽभावादिति। एतेनेत्यादि / एतेनानन्तरोदितेन दूषणजातेन 'अन्यत्राऽनयोयोगपद्येऽपि भददर्शनात् ' इत्यादि पूर्वपक्षोक्तं, प्रत्युक्तम्-निराकृतम् ।कृत इत्याह सत्वतः- परमार्थ तः, तुल्ययोगक्षेमत्वादिति। किक्षा -अनयोभिन्न विषयत्वेन तथापि जन्माऽयुक्तम्, अन्यदर्शनस्यान्यविकल्पानिमित्तत्वात्, निमित्तत्वे वाऽतिप्रसङ्गात्, नीलदर्शनादपि पीतादिविकल्पापत्तेः, तदभाव प्रसङ्गात्, निश्चयबलाद्धि, तद्भावसिद्धिः स चेदन्यदर्शनादप्यन्यविषयः, अप्रमाणिकाऽन्यसत्तेति विश्वस्य नीलमात्रतापत्तिः। भिन्नदर्शनविषयाः, पीतादय इति चेत् न / तेषामनिश्चयात्मकत्वेन तथातानधिगतेः, न च तन्निश्वयात् तदधिगतिर्युक्ता, तस्यान्यतोऽपि भावेन तत्प्रतिबन्धासिद्धेः। स पारम्पर्येण तद्दर्शनसामोद्भूत एव, सदाऽतद्दर्शिनोऽभावादिति चेत् / न। इत्थं सर्वत्राऽनाश्वासेनाऽसमनसत्वापत्तेः, सन्निहितार्थदर्शनबलोत्पन्ननिश्चयादपि पारम्पर्येणार्थान्तरदर्शनशक्तिजत्वाऽऽरेकातः प्रवृत्त्वाद्ययोगात् / समानविषययोः पुनरनयोर्भावस्तथा भवन्नपि न नो बाघायै, अक्रमेणाऽप्रवृत्तेः। एवं च'अतीताद्यर्थगतविकल्पेनापीन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः' इत्यादि यावद् 'भिन्नजातीयत्वात्' इत्येतद् व्युदस्तमवसेयम, अक्रमप्रवृत्तावतीतादिविकल्परूपादिग्रहणयोरस्य साफल्योपपत्तेः, अन्यथा वाङ्मात्रत्वात्। किञ्चेत्यादिनाऽभ्युचयमाह-किञ्च, अनयोः सविकल्पाविकल्पज्ञानयोरुदाहृतयोः भिन्नविषयत्वेन हेतुना, जातिभेदतः, तथापि प्रक्रमात्क्रमेणापि यथकजातीययोस्तथापि, जन्मायुक्तमघटमानकम् / कुत इत्याह-- अन्यदर्शनस्यरूपादिदर्शनस्य, अन्य विकल्पानिमित्तत्वादअतीताद्यर्थगतविकल्पानिमित्तत्वात्. निमित्तत्वे वाऽतिप्रसङ्गत् / एनमेवाह--नीलदर्शनादपि सकाशात.पीतादिविकल्पापत्तेः / यदि नामेय ततः किमित्याह- तदभावप्रसङ्गात्-पीताद्यभावप्रसङ्गात् / एतदेव स्पष्टयति- निश्चयेत्यादिना / निश्चयबलाद् यस्मात्, तद्भावसिद्धिःपीतादिभावसिद्धिः. स चेद निश्चयः, अन्यदर्शनादप्यन्यविषयो भवति, अप्रगाणिकाऽन्यसत्ता, इह लावत्प्रक्रमादन्यत्पीतादि, ततश्चाप्रमाणिका पीतादिसतेति कृत्वा, विश्वस्य सर्वस्य नीलमात्रतापत्तिः, यावत् किञ्चित् सत तत्सर्व नीलमिति पीतादिनिश्चयस्तु नीलदर्शनादेवेति न्यायोपपत्तेः भिन्नदर्शनविषयाः- पीलादिदर्शनविषयाः, पीतादय इति चेत्। एतदाशड्क्याह-नत्यादि। न--नैतदेवं तेषां दर्शनानाम्, अनिश्चयात्मकत्वेन हेतुना. तथा तानधिगतेः पीतादिरूपतया भिन्नताऽनधिगतेः / न चेत्यादि / नच तन्निश्वात-पितादिनिश्चयात, तदधिगतिदर्शनाना तथा भिन्नताधिगतियुक्ता / कुत इत्याह-तस्य सामान्येन निश्चयस्य, अन्यतोऽपिदर्शनान्तरादपि, भावेनहे तुना, तत्प्रतिबन्धासिद्धेः पीतादिदर्शनभेदेन सह पीतादनिश्चयस्य प्रतिबन्धासिद्धेः / स पीतादिनिश्चयः, पारम्पर्येण तदर्शनसाम ोद्भुत एव- पीतादिदर्शनसामोद्भूत एव / कुत इत्याह- सदाऽतद्दर्शिनः-पीताद्यदर्शिनः अभावादिति चेत् / एतदाशड्क्याह- नेत्यादि। न-नैतदवम हत्यमेवं, सर्वत्रानाश्वासेन हेतुना। किमित्याह - असम
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy