________________ सामण्ण 636 - अभिधानराजेन्द्रः - भाग 7 सामण्ण कर्मत्वं सामान्यम्, द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः / एवं कर्मत्यापेक्षया उत्क्षणत्वादिकं ज्ञेयम्। तत्र सत्ताद्रव्यगुणकर्मभ्योऽर्थान्तर कया युवतया? इति चेद, उच्यते-न द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः; एकद्रव्यवत्त्वादएकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्व-वत्-यथा द्रव्यत्वम्नवसुद्रव्येषु प्रत्येक वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव; एवं सत्ताऽपि वैशेषिकाणां हि अद्रव्यं वा द्रव्यम्, अनेकद्रव्य वा द्रव्यम् / तत्राऽद्रव्यं द्रव्यम्-आकाशः, कालो, दिगाऽऽत्मा, मनः, परमाणवः, अनेकद्रव्यं तु-व्यणुकादिस्कन्धाः , एकद्रव्यं तु-द्रव्यमेव न भवति, एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वाद् न द्रव्यम्। एवं न गुणः-सत्ता; गुणेषु भावाद, गुणत्ववत्। यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्तेत; निर्गुणत्वाद् गुणानाम् / वर्तते च गुणेषु सत्ता, सन् गुण इति प्रतीतेः। तथा सत्ता-कर्म, कर्मसु भावात् कर्मत्ववत्। यदि च सत्ता कर्म स्याद्न तर्हि कर्मसु वर्तेत; निष्कर्मत्वात्, कर्मणाम् : वर्तते च कर्मसु भावः, सत् कर्मेति प्रतीतेः, तस्मात् पदार्थान्तरं सत्ता / स्या० / जात्यादिकल्पनारहिते वस्तुमात्रे, विशे० / वस्तुनः समाने परिमाणे, स्था०१ठा०।एकप्रकारे, आ० चू०१अणद्रव्यत्वजीवत्वाजीवत्वादिके, सूत्र०२ श्रु०७ अ०। विशे०। आ० चू०। आ० म०। (सामान्यलक्षणम् अर्पितम्, अनर्पितं 'लक्खण' शब्दे षष्ठभागे गतम्।) तत्र सामान्य द्विविधम्-परम्, अपरं च / परं च सत्ताख्यम्, तच त्रिषु द्रव्यगुणकर्मसु पदार्थेष्वनुवृत्तिप्रत्ययस्यैव कारणत्वात् सामान्यमेव न विशेषः / अपरंतु द्रव्यत्वगुणत्वकर्मत्वादिलक्षणम्, तच स्वाश्रयेषुद्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यमित्युच्यते, स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तप्रत्यय-हेतुतया विशेषणात् सामान्यमपि सद्विशेषसज्ञा लभते तथाहि-द्रव्यादिषु 'अगुण' इत्यादिका येयं व्यावृत्तबुद्धिसत्पद्यते तां प्रत्ये-षामेव हेतुत्वं नान्यस्य न ह्यगुणत्वादिकमपरमस्ति। अपेक्षाभेदाचैकस्य सामान्यविशेषभावो न विरुद्ध्यते। यद्वा सामान्यरूपता मुख्यतो विशेषसंज्ञा तूपचारतो विशेषाणामिव द्रव्यत्वादीनामपिव्यावृत्तबुद्धिनिबन्धनत्वात् सामान्यस्य चेन्द्रियान्वयव्यतिरेकानुविधाय्यनुगताकारप्रत्ययग्राह्यत्वादध्यक्षतः प्रसिद्धिः। तथा अनुमानाच / तथाहि-व्यावृत्तेषु खण्डमुण्डशाबलेयादिष्वनुगताकारः प्रत्ययस्तद्व्यतिरिक्तानुगताकारनिमित्तनिबन्धनः,व्यावृत्तेष्वनुगताकारप्रत्ययत्वात्।योयो व्यावृत्तेब्वनुगताकारः प्रत्ययः स तद्व्यतिरिक्तानुपतनिबन्धनो यथा चर्मचीरकम्बलेषु नीलप्रत्ययः, तथा चायं शाबलेयादिषु गौरिति प्रत्ययस्तस्मात्तद्व्यतिरिक्तानुगतनिमित्तनिबन्धन इति / तथाहि- नेदमनुस्यूताकारज्ञानं पिण्डेषु निर्हेतुकं कादाचित्कत्वात् / न शाबलेयादिपिण्डनिबन्धनं तेषां व्यावृत्तरूपत्वात् अस्य चाऽनुगतरूपत्वात् / यदि चेदं पिण्डमात्रप्रभवं स्यात् तदा शाबलेयादिष्विव कर्कादिष्वपि 'गोर्गौः' इत्युल्लेखनोत्पद्यते पिण्डरूपतायास्तेष्यप्यविशेषात् / अथवा- इह दोहाद्यर्थ-क्रिया निबन्धनेवेव तेषु 'गौ\ः' इति प्रत्ययहेतुता न तदर्थक्रियाभावेऽपि वत्सादौ गोबुद्धिप्रवृत्तेः, महिष्यादौ तत्सद्भावेऽपि चाप्रवृत्तेः / नच दुष्टकारणप्रभवत्वं विशदं, किंचार्थक्रियाया अपि प्रतिव्यक्तिभेदे कुतोऽनुगताकारज्ञानहेतुता अभेदे सिद्धमनुगतनिमित्तनिबन्धनत्वमस्य ज्ञानस्य / नचास्य बाधितत्त्यं सर्वदा सर्वत्र सर्वप्रमातृणां शाबलेयादिष्वनुस्यूतप्रत्ययोत्पत्तेः। नच दुष्टकारणप्रभवत्वं, विशदनेत्राणामप्यनुस्यूताकारस्याक्षजप्रत्यये प्रतिभासनात्। नच संशयविपर्ययानध्यवसायरूपतयाऽस्योत्पत्तिः तद्वैपरीत्येनास्य प्रतिभासनात् / नचैवंभूतस्यापि प्रत्ययस्याप्रमाणता स्वलक्षणविषयस्यापितस्याऽप्रमाणताप्रसक्तेः / न च प्रतीयमानस्याप्यनुगतप्रत्ययस्यापलापः शक्यते कर्तुं सर्वप्रत्ययापलापप्रसक्तेः / तस्मादनुगतप्रत्ययनिमित्तत्वात् सामान्यसद्भावः सिद्धः / अत्र प्रतिविधीयते-यत्तावदुक्तमध्यक्षप्रत्ययादेव सामान्य प्रतीयत इति तदयुक्तम्, शाबलेयादिव्यतिरेकेणापरस्यानुगताकारस्याक्षजप्रत्यये सामान्यस्याप्रतिभासनात्, नह्यक्षव्यापारेण शाबलेयादिषु व्यवस्थितं सूत्रकण्ठे गुण इव भिन्नमनुगताकारं सामान्य केनचिल्लक्ष्यते 'गौः' 'गौः' इति विकल्पज्ञानेनापि त एव समानाकाराः शाबलेयादयो बहिर्व्यवस्थिता अवसीयन्ते अन्तश्च शब्दोल्लेखः, न पुनस्तद्भिन्नमपरं गोत्वं, तन्न निर्विकल्पकेन सविकल्पकेन वाऽध्यक्षेण सामान्य व्यवस्थापयितुं शक्यम्। यदपि कार्यभूतानुगतप्रत्ययेनानुमानतः सामान्यव्यवस्थापनं तदप्यसङ्गतं तस्य प्रत्ययहेतुत्वेन प्रमाणतो निश्चयात् / तथाहि-अनुगताकारज्ञानस्य निमित्तस्यासंभवाकेनचित् निमित्तेन भाव्यं, इत्येतावन्मानं सिद्ध्यति। तच्च सामान्यमन्यद्वेति न निश्चयो भवताम् / कार्यान्वयव्यतिरेकाभ्यां च कारणत्वावधारण, पिण्डानां च विज्ञानजन्मनि ततः सामार्थ्य विशेषप्रत्यये सिद्धमिमि। इहापि तेषामेव सामर्थ्यप्रकल्पनं, न सामान्यस्य तस्य क्वचिदपि सामानवधारणात् / तथाहि-पिण्डसद्भावे अनुगताकारं ज्ञानमुपलभ्यते तदभावे न इति वरमध्यक्षप्रत्ययावसेयानां तेषामेव तन्निमित्ततो कल्पनीया। यदपि पिण्डानामविशिष्टत्वात् प्रतिनियमो न स्यात् तजन्मनि' इत्यभिधानं, तदप्यसङ्गतम्: यतो यथा पिण्डादिरूपतयाऽविशेषेऽपितन्तूनामेव पटजन्मनि हेतुत्वं न कपालादीनां, तथा शाबलेयादीनामेव 'गौः 'गोः' इति ज्ञानोत्पादने सामर्थ्य भविष्यति, न कयाचिद् युक्त्या न कादीनाम् / यथा वा गुडूच्या एव ज्वरादिशमने सामर्थ्य प्रतीयतेन दध्यादेः वस्तुरूपतयाऽविशेषेऽपि तथा प्रकृतेऽपि भविष्यतीति न पर्यनुयोगो युक्तः। किञ्च-सामान्यं परेण मूर्तमभ्युपगम्यते अमूर्त वा? यद्यमूर्त नसामान्य स्यात्रूपवत्, अथमूर्त, तथा चनसामान्य घटादिवत्। तथा यदि अनशं सामान्यमभ्युपगम्यते, तर्हि न सामान्यमनशत्वात् परमाणुक्त्। साशत्वेऽपि न सामान्य घटवत्। किं च यदि पिण्डेभ्यो भिन्नं सामान्य भेदेनैवोपलभ्यते घटादिभ्य इव पटः / न चैकान्ततो व्यक्तिभ्यः सामान्यस्यभेदे 'गोर्गोत्वम्' इतिव्यपदेशोपपत्तिः संबन्धाभावात्, समवायस्य तत्संबन्धत्वेन निषेत्स्यमानत्वात् व्यक्तिभ्यस्तस्याभेदे अन्यत्राननुयायिस्वान्न सामान्यरूपता पिण्डस्वरूपवत्।नच भेदेन व्यक्तिभ्यस्तस्यानुपलक्षणं