________________ सरीर 557 - अभिधानराजेन्द्रः - भाग 7 सरीर नं वा रोगादिना कशावस्थायां यस्य वपुषस्तद्बीभत्सदर्शनम् 'अंसलग' | त्ति-अंशयोः स्कन्धयोः 'बाहुलग' त्ति बाहोर्भुजयोः अङ्गुलीनां - करशाखानाम अड् गुढग' ति-अड गुष्ठयोरड्गु -लयो खानां महाराजानां ये संघयस्तेषां संघातेन समूहेन सन्धित-मिदं वपुः बहु०' बहुरसिकागारम 'नालखं०' नालेन स्कन्धशि-राभिः-अंसधमनीभिः 'अणेगन्हारु' नि-अनेकस्नायुभिः अस्थि-बन्धनशिराभिः बहुधर्मानभिरनेकशिराभिः संधिभिरस्थिमेलाप-कस्थानैश्च, 'नद्धं ति-नियन्त्रित प्रकटं सर्वजनदृश्यमानम् उदर-कपालं जठरकडहल्लकं यत्र तत् प्रकटोदरकपाले कक्षैव दोर्मूलमेव निष्कुटम्-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत्कक्षनिष्कुष्ट कक्षायां गच्छन्तीति कक्षोगा अधिकारातद्गतकुत्सितबालास्तैः कलितं सदा सहित कक्षागकलितम्,यद्वा-कक्षायां भवाः काक्षकास्तद्गतकेश-लतास्ताभिः कलितं, 'दुरंत ति-दुष्टोऽन्तो विनाशः प्रान्तो वा यस्सं तद् दुरन्तंदुप्पूरं वा अस्थिधमन्योः सन्तानेन परपरया 'सतयं' ति-व्याप्त यत्तदस्थिधमनिसन्तानसन्ततं. स सर्वतःसर्वप्रकारैः समन्ततः सर्वत्र रोमकूपैः-रोमरन्धैः परिश्रवत् गल-गलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्ध, परिश्रवत्, 'सयं' ति-स्वयमेव अशुचिअपवित्रं सभावउ' त्ति-स्वभावेन परमदुष्टगन्धीति 'कलिज्जयअंतपित्तजरहिययफोप्फ-सफेफसपिलिह'त्ति-प्लीहागुल्मः 'उदर' ति-जलोदरं गुह्यकुणिम मांसनबछिद्राणि यत्र तत्तथा (थि) धिवि (थि) धिवंत ते-द्रि-गद्रिगायमानं 'हिययं' त्ति-हृदयं यत्र तत्, परमयावत हृदयं नव छिद्राणि तु-नयनद्वयकर्णद्वयनासिकाद्वयजिह्नाशिश्नापानलक्षणानि 'दुरहि त्ति-दुर्गन्धानां पित्तसिम्भमूत्रलक्षणानामोषधानामायतनंगृहं सर्वोषधायतनं रोगादावस्मिन् सर्वोषधप्रक्षेपात, सर्वत्र-सर्वभागे दुष्टोऽन्तो विनाशः प्रान्तो यस्य तत् सर्वतो दुरन्तम् 'गुज्झो०' गुह्योरुजानुजङ्गापादसंघातसंधितमुप-स्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितम् अशुचिकुणि-मस्यअपवित्रमासस्य गन्धो यत्र तदशुचिकुणिमगन्धि, 'एवं चि०' एवम्पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीय-भयंकररूपम् 'अधुवं अनिययं असासयं चे' तिपदत्रयव्याख्या पूर्ववत्, 'सडण' शटनयतनदिध्वंसनधर्मम् तत्र शटनं कुष्टादिनाऽडगुल्यादेः, पतनं बाहादेः खड्गछेदादिना विध्यसनं सर्वथा क्षेयः एतेधाः -स्वभावा यस्य तत्तथा 'पच्छा व पुरा व अवस्स चइयव्वं' ति-पूर्ववत् 'निच्छ०' निश्यतः सुष्ट भृशं त्वं 'जण' त्ति-जानीहि एतन्मनुष्य-शरीरम् 'आइनिहण' तिआदिनिधनं सा दिसान्तमित्यर्थः ईदृशं पूर्ववर्णित वक्ष्यमाणं वा सर्वमनुजानां समस्तमनुष्याण देहः-शरीरम् एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्त्वतः स्वभावः। (26) अथ विशेषतः शरीरादेः अशुभत्वं दर्शयतिसुक्कम्मि सोणियम्मि य, सभूओ जणणिकुच्छिमज्झम्मि। तं चेव अमिज्झरसं, नवमासे धुंटियं संतो / / 8 / / 'सुक्कम्मि' इत्यादि 'सुकं०' जननीकुक्षिमध्ये-मातृजठरान्तरे शुक्रे वीर्य शोणिते-लोहिते चशब्दादेकत्र मिलिते सति प्रथम संभूतः उत्पन्नः तदेवामध्यरसंविष्टारसं 'घुठिय' ति-पिबन सन्नव मासान यावत् स्थित इति। जोणीमुहनिप्फिडिओ,थणगच्छीरेण वडिओ जाओ। पगई अमिज्झमइओ, कह देहो धोइउं सक्को / / 86|| यो निमुखनिम्फिटितः-स्मरमन्दिरकुण्डनिर्गतः 'थणगं' तिप्राकृतत्वादनुस्वारःस्तनकक्षीरेण वर्द्धितः-पयोधरदुग्धेन वृद्धिं गतः प्रकृत्याऽमेध्यमयो जातः, एवंविधो देहः कथं 'धोइउ' ति-धौतुं - क्षालयितुं शक्यः? तं०। (शेषवक्तव्यता 'इत्थी' शब्दे द्वितीयभागे 604 पृष्ठे गता / ) 'रसासृगमासमंदोऽस्थिमञाशुक्रान्त्रवर्चसाम् / अशुचीनां पदंकायः. शुचित्वं तस्य तत् कुतः।।१।। अष्ट 16 अष्ट०। नारकादिशरीराणि बीभत्सान्युदारणि च दृष्ट्वापि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय 'नेरइयाण' मित्यादिसूत्रप्रपञ्चः णेइयाणं सरीरगा पंचवण्णा पंचरसा पण्णत्ता, तं जहाकिण्हाजाव सुकिल्ला, तित्ता० जाव मधुरा,एवं निरंतरं० जाव वेमाणियाणं / सू०(३६५४) 'रइयाण' मित्यादि, कण्ठ्यं नवरं पञ्चवर्णत्वं नारकादिवेमानिकान्ताना शरीराणां निश्चयनयात्, व्यवहारतस्तु एकवर्णप्राचुर्य्यात् कृष्णादिप्रतिनियतवर्णी वेति 'जाव सुकिल्ल' ति 'किण्हा नीला लोहिया हालिदा सुकिल्ला य० जाव महुर' त्ति तित्ता कडुया कसाया अंबिला महुरा जाव वेमाणियाणां ति / चतुर्विशतिदण्डकसूत्राणि / स्था० ५ठा०१उन (27) शरीराणां वर्णादिओरालियसरीरे पंचवन्ने पंचरसे पण्णत्ते, तं जहा-कि-हे० जाव सुकिल्ले, तित्ते० जाव महुरे एवं०जाव कम्मगसरीर सव्वे वि णं बादरबों दिधरा कलेवरा पंचवण्णा पंचरसा दुगंधा अट्ठफासा। (सू०३६५+) तथा सर्वाण्यपि बादरबोन्दिधराणि पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति अक्षिगोलकादिषु तथैवापलब्धः / 'दो गंध' त्ति सुरभिदुरभिभेदात् / 'अट्ठफास' त्ति-कठिनमृदुशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अबादरबान्दिधराणि तुन नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनावयवविभागाभावादिति / स्था० ५टा०१ उ०। (कस्मादोदारिकादेः शरीरा-त्कति क्रियाः इति 'किरिया' शब्द तृतीयभागे 536 पृष्ठे गतम् / ) "पाणीयसत्थग्गिसंभमेहिं च देहतरसंकमणं करेइ जीवो मुहुत्तेण।'' महा०६अ। (ओदनादयो वनस्पतगोऽनिकायत्वेन वक्तव्याः रयुरिति 'अगणिजीवसरीर' शब्द प्रथमभागे 156 पृष्ठे गतम् / ) (निर्ग्रन्थानां शरीरद्वारम् ‘णिग्गंथ' शब्दे चतुर्थभागे 2036 पृष्ठे गतम्।) ('सम' शब्द रिमन्नेव भागे 363 पृष्ठे नैरयिकादयः समाहाराः समशरीरा इत्यु-क्तम्।) (पृथिवीकायस्य सूक्ष्मबादरशरीराणि पुढवी