________________ सम्मइंसण 506 - अभिधानराजेन्द्रः - भाग 7 सम्मइंसण पिपीलिकाः स्थाणी प्रत्यवरोहणार्थ तत्रैव स्थाणावेव तिष्ठन्ति, अपिशब्दात्प्रत्यारोहन्ति चायास्तु सपक्षास्ता उड्डीयन्ते। इह पिपीलिकानामितस्ततः प्रसर यथा प्रवृत्तकरणतः,स्थाण्वारोहण मपूर्वकरणतः,उडयनमनिवृत्तकरणात्। एवमत्रापि ग्रन्थिदेशगमनं यथाप्रवृत्तिकरणेन, ग्रन्थिभेदनमपूर्वकरणतः, सम्यग्दर्शनमनिवृत्तिकरणेन / यथा च काश्चित पिपीलिकाः पक्षविहीनत्वात् स्थाणावेव स्थिताः स्थित्वा च ततः प्रत्यवतीर्णास्तथा कोऽपि मन्दाध्यवसायतया तीव्रविशोधिरहितोऽपूर्वकरणेन ग्रन्थिभदमाधातुमुद्यतः समुच्छलितधनरागद्वेषपरिणामस्तत्रैव तिष्ठति स्थित्वा च पुनः पश्चात्ततः प्रतिनिवर्तते। अस्मिन्नेवार्थे पुरुषदृष्टान्तमाहजह वा तिण्णि मणूसा, सभयं पंथं भएण वचंता। वेलाइक्कमतुरिया,वयंति पत्ता य दो चोरा॥१०७॥ तत्थेगो उ निउत्तो,एगो बद्धो अतित्थितो एक्को। कमगतिअहापवत्तं, मिन्नतरं धावणं तइए।।१०८|| वाशब्दो दृष्टान्तान्तरसमुच्चये,यथा त्रयो मनुष्या सभयं पन्थानं भयेन पाठान्तरक्रमेण जन्तो वेलातिक्रमत्वरिताः संध्यासमापतनेन गमने वेलातिक्रमतस्त्वरमाणा व्रजन्ति। अत्रान्तरे चोभयपार्श्वतः प्राप्तौ पाणिकृपाणकरालौ द्वौ चोरौ तौ च हक्कयन्तावेवमाक्षिपतः क्व यास्यथ यूयं मरणमेव युष्माकमिदानीं समापतितमिति। तत्रैकः पुरुषस्तौ समापतन्ती दृष्ट्वा प्रथमत एव निवृत्तः, एकः पुनर्द्वितीयो हक्काश्रवणत उद्गीर्णकृपाणदर्शनतश्च भयेन शोचंस्तत्रैव स्थितः,एकस्तृतीयः पुनः परमसाहसिकः प्रत्युगी-खड्गस्ती द्वावपि चोरौ पश्चात्कृत्य तत्स्थानमतिक्रान्तौ / इह या त्रयाणामपि पुरुषाणां प्रथमतः क्रमेण गतिः सा यथाप्रवृत्तिक-रणं यत्पुनस्तद्वयं भिन्नं तत इतरदपूर्वकरणाद-पूर्वकरणम्,यत्तु तत्परतो धावनं तत् तृतीय निवृत्ताख्ये करणे द्रष्टव्यम्। तदेवं दृष्टान्तद्वयमपि विधाय सांप्रतमुपनयमाहएवं संसारीणं, जोएअव्वाइँ तिन्नि करणाई। भवसिद्धिसलद्धीण य,पक्खालपिवीलिया उवमा।। 106 / / एवम्-अमुना दृष्टान्तगतेन प्रकारेण यानि त्रीणि करणानि प्रागभिहितानि तानि सर्वाणि संसारिणां योजयितव्यानि तत्र पिपीलिकादृष्टान्तमधिकृत्य प्रागेव योजिताः,नवर याः पक्षवत्यः पिपीलिका उक्तास्ताभिरुपमा भवसिद्धिसलब्धिकानां द्रष्टव्या। भवैः सिद्धिर्येषां ते भवसिद्धिकाः कतिपयभवमोक्षगामिन इत्यर्थः, तेऽपि कदाचित्प्रतिपतन्ति, तत आह-सलब्धिः-उत्तरोत्तरविशुद्धाध्यवसायप्राप्तिर्येषां ते सलब्धिकास्ततो विशेषणसमासस्तेषाम् / किमुक्तं भवति-सपक्षपिपीलिका इव केचित्संसारिणो भवसिद्धिकाः सलब्धिकाः स्थाणोरिय ग्रन्थिदेशादपि परतो गच्छन्ति,के चित्पुनरभव्या भव्या या केचन पक्षविहीनपिपीलिका इव स्थाणोरिव ग्रन्थिदेशात्प्रतिपतन्ति / पुरुषदृष्टान्तमधिकृत्यैवं योजनापुरुषस्थानीयाः संसारिजीवाः, कर्मक्षपणस्थानीयः पन्थाः, भयस्थानीयो ग्रन्थिः, द्वौ चोरौ रागद्वेषौ, यस्तु मन्दप . ! राक्रमो न पुरतो न मार्गतः किं तु भयेन तत्रैव स्थितस्तत्सदृशे ग्रन्थिदेशे वर्तमानो भव्योऽभव्योऽवा। स च तत्र संख्येयमसंख्येयं वा कालं तिष्ठति। तत्र स्थितस्य को लाभ इति चेत्? उच्यते-श्रुतलाभः / तथा चाहदठूण जिणवराणं, पूअं अन्नेण वावि कज्जेण / सुयलंभो उ अभव्ये, हविज्ज थंभेण उवणीतं / / 110 / / यस्तम्भेन उपनीतं उपनयं प्रापितस्तस्मिन् अभव्येतुशब्दाव्ये च भवति श्रुतलाभो द्रव्य श्रुतलाभः / कथमितिचेदत आह- 'दट्-ठूणे' त्यादि,स हि ग्रन्थिकसत्त्वो भव्योऽभव्यो वा भगवतां जिन-वराणां पूजां दृष्ट्वा अहो कीदृशं तपसः फलमिति परिभाव्य तद-र्थिकतया अन्येन वा कार्येन स्वर्गसुखार्थित्वादिना प्रव्रज्यामभ्यु-पगच्छति,ततःसामायिकादिद्रव्यश्रुतलाभः, ग्रन्थौ चैव कियन्तं कालं स्थित्वा पुनः पश्चात्प्रतिनिवर्तत, येनाप्यनिवृत्तिकरणतः सम्यक्त्वमासादितं तस्यापि द्वौ प्रकारौ केचित्परिणामतोवर्द्धन्ते केचित् हानिमुपगच्छन्ति। तत्र ये हानिंगच्छन्ति ले प्रलिपतन्ति, इतरे श्रावकत्वादीनि लभन्ते। तत्र जघन्यतः समकमेव, यत उक्तम्- "सम्मत्तचरित्ताइ जुगवं पुव्वं च सम्मत्तं"। उत्कर्षतः पुनरेवम्समत्तम्मि उलद्धे, पल्लपुहत्तेण सावओ होजा। चरणोवसमखयाणं, सागरसंखंतरा होति।।१११।। एवं अप्पडिवडिए, सम्मत्ते देवमणुयजम्मेसु / अन्नयरसेढिवजं, एगभवेणं च सव्वाई।।११२|| सम्यक्त्वे लब्धपल्यपृथक्त्वेन-पल्योपमपृथक्त्वेन श्रावको देशविरतो भवति, ततश्चरणोपशमक्षयाणामन्तराणि संख्यातानि सागरोपमाणि भवन्ति। इयमत्र भावना-देशविरतिप्राप्त्यनन्तरं संख्यातेषु सागरोपमेषु गतेषु चरणलाभस्तदनन्तरं भूयः संख्यातेषु सागरोपमेषु गतेषूपशमश्रेणिलाभस्ततोऽपि परतः संख्येयेषु सागरोपमेष्वतिक्रान्तेषु क्षपकश्रेणिस्ततस्तद्भवे मोक्षः एवममुना प्रकारेणाप्रतिपतितसम्यक्त्वे देवमनुजजन्मसु वर्तमानस्य प्रति-पत्तव्यम्। यदिवा- अन्यतरश्रेणिवर्जमुपशमश्रेणिपर्ज क्षपकश्रेणिवर्ज वा एकभवन सर्वाणि देशविरत्यादीनि प्रतिपद्यते। श्रेणिद्वयप्रतिपत्तिस्त्वेकस्मिन् भवे न भवति, यत उक्तम् 'मोहोपशम एकस्मिन, भवे द्विः स्यादसंततः / यस्मिन् भये तूपशमः, क्षयो मोहस्य तत्र न" // 1 // संप्रति यदुक्तं प्राक् मिथ्यात्वमपूर्वकरणेन त्रिधा करोति तत्र कोद्रवदृष्टान्तमाहअप्पुव्वेण तिपुंज, मिच्छं काऊण कोद्दवोवमया। तिन्नि वि अवेदयंतो, उवसासगसम्मदिट्ठीऊं।।११३।। कोद्रवोपमया-कोद्रवदृष्टान्तेन अपूर्वकरणेन मिथ्यात्वं त्रिपुञ्ज कृत्वाऽनिवृत्तिकरणेन तत्-प्रथमतया क्षायोपशमिक सम्यक्त्वमासादयति, ततः परिणामवशतः कालान्तरेण मिश्र मिथ्यात्वं वा गच्छति, यत्पूर्वकरणमारोऽपिमन्दाध्यवसायतया मिथ्यात्वं त्रिपुञ्जीकर्तुमसमर्थः स निवृत्तिक