________________ सम्मइंसण 508 - अभिधानराजेन्द्रः - भाग 7 सम्मइंसण मोहविवज्जुक्कोसो, मोहो सेसो उ भइयव्वो / / 66|| मोहोत्कर्ष मोहनीयरयोत्कृष्टायां स्थितौ सत्यां नियमतः आयुर्वजत्वात् शेषाणां कर्मणामुत्कृष्टा स्थितिर्भवति, मोह विवर्जस्य ज्ञानावरणीयादेरुत्कर्षे -उत्कृष्टायां स्थिती मोहोमोहनीयं शेषाश्च प्रकृतयों भक्ताः- विकल्पिताः कदाचिदुत्कृष्टस्थितिका भवन्ति कदाचिन्नेति भावः / तत्र सर्वेषां कर्मणामुत्कृष्ट स्थितौ वर्तमानः प्रबलमोहाऽऽच्छादितत्वान्न किमपि सम्यग्दर्शन लभते, उक्तं च-"अट्टण्ह वि पगडीणं, उकोसठिईए उवट्टमाणो उ। न लभति सम्मईसणमिच्छत्तण वि मोहा उ // 1 // " किं तु सप्तानामायुर्वर्जानामभ्यन्तरकोटीकोट्या वर्तमानाः। तथा चाहअंतिमकोडाकोडी-ऍ होइसव्वासि कम्मपगडीणं। पलियामसंखभागे,खीणे सेसे हवइगंठी||१८|| आयुर्वर्जाना सर्वासां कर्मप्रकृतीनामन्तिमायां कोटीकोट्यां स्थितायां तत्रापि पल्योपमस्यासंख्येयतमे भागे क्षीणे शेष स्थितिदलिके सति सम्यग्दर्शनलाभो भवति, केवलं तदानीं सम्यग्दर्शनलाभान्तरायात्ततः कर्कशधनरूढगुपिलवल्कग्रन्थिरिव दुर्भेदो घनरागद्वेषपरिणामरूपी गन्धिर्भवति। ततस्तस्मिन् भिन्ने प्रतिपत्तव्यं,तस्य च भेदः करणवशात्। अथकरणवक्तव्यतामाहतिविहं च होइ करणं,अहापवत्तं तु भव्वभव्वाणं / भवियाण इमे अन्ने,अपुवकरणा नियत्ती य||६|| करणं नाम परिणामविशेषस्तत्त्रिविधं-त्रिप्रकारं भवति। तद्यथा-प्रथम यथाप्रवृत्ताख्यं भव्यानाम, अभव्यानां च साधारणम् / भव्याना पुनरिमे द्वे अन्ये करणे अपूर्वकरणमनिवृत्तिश्चानिवृत्ति-करणं च। सांप्रतमेतेषामे त्रयाणां करणानां कालविभागमाहजा गंठी तप्पढम, गंठीसमतित्थतो भवे वीयं / अनियट्टी करणं पुण, सम्मत्तपुरक्खडे जीवे / / 100|| यावद् ग्रन्थिस्तावत् प्रथमं यथाप्रवृत्ताख्यं करणं ग्रन्थिं समतिक्रामतो भिन्दनस्येत्यर्थः पुनरपूर्वकरणम्, अनिवृत्तिकरण तु सम्यक्त्वपुरस्कृतं येन सम्यक्त्वपुरस्कृतस्तस्मिन् जीवे सम्यक्-त्वाभिमुखे इत्यर्थः / अथ यावत् ग्रन्थिस्तावन्निर्गुणस्य सतः कथं कर्मशराशेः क्षपणम्? उच्यते गिरिसरित्प्रस्तरदृष्टान्तात्। ततस्तमेव दृष्टान्तं तत्प्रसङ्गतः शेषकरणयोरपि। दृष्टान्तानभिधित्सुरिगाथामाहनदिपहजरवत्थजले, पिपीलिया पुरिसकोद्दवा चेव। सम्महसणभे, एते अट्ठ उ उदाहरणा // 101 / / करणवशात्सम्यग्दर्शनलाभे एतान्यष्टावुदाहरणानि तद्यथा- 'नदि' त्ति-गिरिनदीप्रस्तरोदाहरणं पथदृष्टान्तः ज्वरोदाहरणं वस्त्रोदाहरण जलोदाहरणं पिपीलिकोदाहरणं पुरुषोदाहरणं कोद्रवोदाहरणम् / तत्र प्रथमतो गिरिसरित्प्रस्तरोदाहरणं भावयति गिरिसरियपत्थरेहि, आहरणं होइ पढमए करणे / एवमणाभोगियकरण-सिद्धितो खवण जा गंठी / / 1021 गिरिसरित्प्रस्तरेरुदाहरण-दृष्टान्तःप्रथमे यथाप्रवृत्ताख्ये करणे भवति, तच्चैवम्- यथा गिरिसरित्प्रस्तरा-गिरिसदुपलावेगतो घर्षणघोलनादिना केचिद्वर्तुला भवन्ति केचित्तस्रा एवमनाभोगकरणसिद्धितो यथाप्रवृत्तकरणप्रभावतः सुदीर्घाया अपि कर्मस्थितेस्तावत् क्षपणं यावत् ग्रन्थिरिति। अथानिवृत्तिकरण सम्यक्त्वपुरस्कृते जीवे भवतीत्युक्तम्, तत्सम्यक्त्वं कथलभते? उच्यते-उपवेशतः स्वयं वा। तथा चात्र पथदृष्टान्तःउवएसेण सयं वा, नट्ठपहो कोइ मग्गमोतरति। जरितो य ओसहेहि,पउणइ कोइ विणा तेहिं / / 103|| नष्टपथः कोऽपि पुरुष उपदेशेनान्यं दृष्ट्वा तस्योपदेशेन मार्गमवतरति कश्चिन्मार्गानुसारी प्रज्ञतया स्वयमेवोहापोहं कृत्वा, एवमिहापि सम्यग्दर्शनमाचार्यादीनामुपदेशतो लभते / कश्चित् स्वयमेव जातिस्मरणादिना अत्रैवज्वरदृष्टान्तमाह-ज्वरितोऽपि कश्चिदोषधः प्रगुणतिप्रगुणीभवति कश्चित्पुनस्तैरौषधैर्विना एव-मेय। एवमत्रापि कस्यचिद्दर्शनमोह आचार्याधुपदेशतोऽपगच्छति, कस्यचित्पुनरेवमेव मार्गानुसारितया तत्त्वपर्यालोचनतः / इह ज्वरस्थानीयो दर्शनमोहः औषधस्थानीय आचार्याधुपदेशः / इह यस्तत्प्रथमतया क्षायोपशमिकसम्यक्त्वदृष्टिरुपजायते सोऽपूर्वकरणवशात् मिथ्यात्वदलिक त्रिधा करोति, तद्यथामिथ्यात्वम्,सम्यग्मिथ्यात्वम्, सम्यक्त्वं च। अथ वस्त्रदृष्टान्तं जलदृष्टान्तं चाहमइलदरसुद्धसुद्ध, जह वत्थं होइ किंचि सलिलं च / एसेव य दिटुंतो, दसणमोहम्मि तिविहम्भि।।१०४।। यथा किंचिद्वस्त्रं सलिलं वा मलिनं भवति, किंचिद्दरशुद्धमीषद्विशुद्धं, किंचित् शुद्धम्, एष एव दृष्टान्तो दर्शनमोहे त्रिविधे भावनीयः। तदप्यपूर्वकरणवशात्किचित् शुद्ध सम्यक्त्वरूपं, किंचिदीषद्विशुद्धं सम्यग्मिथ्यात्वरूपं, किंचित्तथैव मलिनं मिथ्यात्वरूपं स्थितमिति भावः / अत्राह कथमभव्यास्तस्मिन् पथि देशेऽवतिष्ठन्ते कथं वा ततः प्रतिपतन्ति, भव्या वा कथं ग्रन्थिं विभिद्य ततः परतो गच्छन्ति उच्यते। पिपीलिकादृष्टान्तात् तमेवाह अहभावेण पसरिया, अपुव्वकरणेण खाणुमारूढा। चिट्ठति तत्थ काइ, पिवीलिका काइ उड्बंति // 105 / / पञ्चोरुहणट्ठा खाणु, आतो चिट्ठन्ति तत्थ एवावि। पक्खविहू णतो पिवीलियाउ उड्डंति उसपक्खा / 106 / काश्चित्पिपीलिका यथाभावेन अनाभोगतः प्रसरिताविलान्निर्गत्य इतस्ततो गन्तुं प्रवृत्ताः / काश्चित्पुनरपूर्वकरणेन स्थाणुमारूढास्तासामपि मध्ये काश्चित्तत्र स्थाने चैव तिष्ठन्ति याः पक्षविहीना। काश्चित्संजातपक्षास्तत उड्डयन्ते-ऊर्ध्वमाकाशेन गच्छन्ति। उत्तरार्द्धस्यैव व्याख्यानार्थमनन्तरगाथा पचोरुहणट्ठा' इत्यादि, काश्चित्पक्षविहीनाः