________________ समुद्दपाल 460 - अभिधानराजेन्द्रः - भाग 7 समुद्दपाल वावत्तरी कलाओ, सिक्खिए नीइकोविए। जोव्वणेण य अप्फुण्णे, सुरूवे पियदंसणे // 6 / / तस्स रूववई भज्ज, पिया आणेइ रूविणिं / पासाइ कीलए रम्मे, देवो दोगुंदओ जहा / / 7 / / अह अण्णया कयाई, पासायालोयणे ठिओ। वज्झममणसोभागं, वज्झं पासइ वज्झगं ||8|| तं पासिऊण संविग्गे, समुद्दपालो (इ) णमव्ववी। अहोऽसुभाण कम्माणं, निजाणे पावए इमं // 6 / / संबुद्धो सो तहिं भगवं,परं संवेगमागओ। आपुच्छ अम्मापियरो, पव्वइए अणगारियं / / 10 / / सूत्राणि दशइदमुत्तरं चाध्ययनं क्वचित्सोपस्कारतया व्याख्या--स्यतेचम्पायां चम्पाभिधानायां पुरि पालितो नाम सार्थवाह: श्रावकः श्रमणोपासकः आसीद्-अभूदा वणिगेव वाणिजो-वणिग्जातिमहावीरस्य भगवतः शिष्यो-विनेयः ‘स' इति सः तुर्विशेषणे, महात्मनःप्रशस्यात्मनः स च कीदृग् ? इत्याह-'निग्गथ' त्ति--नैर्गन्थनिर्गन्थसम्बन्धिनि 'पावयणि' ति–प्रव-चने श्रावकः 'स' इति-पालिता विशेषेण कोविदः-पण्डितो विकोविदः, कोऽर्थः, विदितजीवादिपदार्थः पोतेन व्यवहरन प्रवहणवाणिज्यं कुर्वन् 'पिहुंड' पिहुण्डनामकं नगरमागतः-प्राप्तः, तत्र च पिहुण्डे व्यवहरते तद्गुणाकृष्ट चेताः कश्चिद्वाणिजो ददाति-यच्छति 'धूयरं ति-दुहितरमुदढवाश्च तामसी स्थित्वा च तत्र कियन्तमपि काल ता ससत्त्वामित्यापन्नसत्त्वां परिगृह्य - आदाय स्वदेशमथानन्तरं प्रस्थितः-चलितः, तत्र चागच्छतोऽथ पालितस्य गृहिणी समुद्रे-जलधौ प्रसूते-गर्भ विमुञ्चति स्मेति शेषः / 'अर्थ' त्युपन्यासे, दारकः सुतस्तस्मिन्निति प्रसवने जातःउत्पन्नः 'समुद्रपाल' इति नामतो नामाश्रित्य क्रमेण चागच्छन् क्षेमेण--कुशलेनागतश्चम्पायां श्रावको वणिजो 'घर' ति चस्य गम्यमान-त्वाद् गृहं च स्वकीयं कृतं च तत्र वर्धापनकादि संवर्द्धते च गृहे-वेश्मनि तस्येति पालिताभिधानवणिजा दारकः स सुखोचितः सुकुमारः, एवं च प्राप्तः कलाग्रहणयोग्यतां द्विसप्ततिकलाश्च शिक्षितः शिक्षते वा पाठान्तरतः / जातश्च नीतिको विदो-नया-भिज्ञः 'जो व्वणेण य अप्फुण्णे' ति-चस्य भिन्नक्रमत्वात् यौवने-नापूर्णश्च परिपूर्णशरीरश्च,पठ्यते च–'जोवणेण य संपण्णे' त्ति-तत्र च संपन्नो-युक्तोऽत एव सुरूपः सुसंस्थानः प्रियदर्शनः-सर्वस्यैवानन्ददाता परिणयनयोग्यतां च तस्य विज्ञाय रूपवती-विशिष्टाकृति भाया पत्नी पिता पालितवणिगानय ति तथाविध-रूपिणी कुलादागमयति, रूपिणीनाम्नी परिणायितश्च तामसी प्रासादे क्रीडति रमते तया सह रम्ये-(अ) रतिहेतौ देवो दुगुन्दको यथा, अथ अन्यदा कदाचित् प्रासादालोकने उक्तरूपे स्थितः सन् वधमर्हति वध्यस्तस्य मण्डनानि-रक्तचन्दनकरवीरादीनि तैः शोभातत्कालोचितपरभागलक्षणा यस्यासौ वध्यमण्डन–शोभाकस्तं वध्य-वधार्ह कंचन तथाविधाकार्यकारिणं पश्यति बाह्य-नगरबहिर्वरिप्रदेश गच्छतीति बाह्यगस्त कोऽर्थो बहिर्निष्क्रामन्तम, यद्वा-वध्यगमिह वध्यशब्देनोप-चाराध्यभूमिरुक्ता तथाविधं वध्यं दृष्ट्वा संवेगः संसारवैमुख्यतो मुक्त्यभिलाषस्तद्धे-तुत्वात् सोऽपि संवेगस्त समुद्रपाल इदम्--वक्ष्यमाणमब्रवीत्, यथा-अहो अशुभानां कर्मणांपापानामनुष्टानानां निर्याणम्-अवसानं पापकम् अशुभमिदं-प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयले इति भावः, एवं परिभावयन संबुद्धः-अवगततत्त्वः स वणिकपुत्रस्तत्रेति तस्मिन्नेव प्रासादालोक ने भगवान्माहात्म्यवान् माहात्म्येऽपि भगवच्छब्दस्य दर्शनात्पर-प्रकृष्ट संवेगमागतस्ततश्वापृच्छय मातापितरौ 'पव्वए' ति-प्रावाजीत-प्रकर्षण गतवान्, कोऽर्थः ? प्रतिपन्नवान्, अनगारिता-निःसङ्गतामिति सूत्रदश-कार्थः। सम्प्रत्यनुवादोऽपि स्पष्टताहेतुाख्याङ्गमिति ख्यापनायैवोक्तमेवार्थमनुवदन् विशेष च वदन्नाह नियुक्तिकृत्चंपाए सत्थवाहो, नामेणं आसि पालगो नाम / वीरवरस्स भगवओ, सो सीसो खीणमोहस्स।।४२५|| अह अन्नया कयाई, पोएणं गणिमधरिम-भरिएणं / तो नगरं संपत्तो, पे (पि) हुंडं नामनामेणं / / 426 / / ववहरमाणस्स तहिं, पेहुंडे देइ वाणिओ धूयं / तंपिय पत्तिं घेत्त-ण णिग्गओ सो सदेसस्स / / 427 / / अह सा सत्थाहसुया, समुद्दमज्झम्मि पसवई पुत्तं / पियदसणसव्वंगं, नामेण समुद्दपालि त्ति / / 428|| खेमेणं संपत्तो,सो पालिय सावओ घरं निययं / धाइदसद्धपरिवुडो, अह वड्वइ सो उदहिनामो // 426|| वावत्तरि कलाओ, य सिक्खिओ नीइकोविदो जाहे। तो जोव्वणमप्फुन्नो, जाओ पियदंसणो अहियं / / 430 / / अह तस्स पिया पत्तिं, आणेई रूविणि त्ति नामेणं / चउसद्विगुणोवेयं, अमरवहूणं सरिसरूवं // 431|| अह रूविणी य सहितो, कीलइ सो भवणपुंडरीयम्मि। दोगुदगु व्व देवो, किंकरपरिवारिओ निश्च / / 432 / / अह अन्नया कयाई, ओलोयणसंठिओ सदेवीओ। बज्झं नीणिज्जंतं, अन्निजंतं जणसएहिं // 4333 // अह भणइ सन्निनाणी, भीओ संसारियाण दुक्खाणं। नीयाण पावकम्मा-ण हा जहा पावगं इणमो // 434 / / संबुद्धो सो भगवं, संवेगमणुत्तरं च संपत्तो। आपुच्छिऊण जणए, निक्खंतो खायजसकित्ती / / 425 / / गाथा एकादश व्याख्यातप्राया एव, नवरं 'वीरवरस्स' त्ति-नामतोऽन्येऽपि वीराः सम्भवन्ति, स तु भगवान् भावतोऽपि 'वीर' इति प्राधान्यख्यापकं वरग्रहणम्, अनेन भगवत्समकालतामप्यस्य दर्शयति- 'गणिमधरिमभरिएणं' ति-गणिम-पूगफलादि धरिमसुवर्णादि प्रियदर्शनानि-सकलजनाभिमतावलोकनानि सर्वाण्यङ्गानि शिरउरः प्रभृतीन्यस्येति प्रियदर्शनसर्वाङ्गस्तं 'धातीदसद्धपरिखुड' ति दशार्द्धधात्रीपरिवृत्तो दशार्द्ध च पञ्च ताश्च क्षीर--मजनम