________________ समुग्धाय 453 - अमिधानराजेन्द्रः - भाग 7 समुग्धाय निच्छुभइ' इति-विक्षिपति आत्मविश्लिष्टान करोतीत्यर्थः, 'तहिं / ' मिति-तैः पुद्गलैः कियत क्षेत्रमापूर्णम्, आपूर्णत्वमपान्तराले कियदाकाशपदेशाः सस्पर्शनऽपि व्यवहारत उच्यते, तत आह-कियत् क्षेत्रं स्पृष्टप्रतिप्रदेशापूरणेन व्याप्तम्, एवं गौतमेन प्रश्ने कृते सति भगवानाह'सरीरे' त्यादि नियमात्-नियमेन 'छद्दिसिं' ति-पदिशो यत्रापूरणे स्पर्शन या षड़ादेक्तद्यथा भवति एव विष्कम्भतो-विस्तरेण बाहल्यतःपिण्डतः शरीरप्रमाणभात्र, यावत्प्रमाणः स्वशरीरस्य विष्कम्भो यावत् प्रमाण च बाहल्यम् एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह-'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह बदनासमुद्धातो वेदनातिशयात्, वेदनातिशयश्व लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्थानवर्तित्वात् तेषा, किन्तु-सनाड्या अन्तः, तत्र परोदीरणसम्भवात्, तत्र च षड्दिकसम्भव इति नियमाच्छद्दिसिमित्युक्तम, अन्यथा 'सिय तिदिसिं सिय चउदिसि सिय पचदिसि' मित्याधुच्यत। अथ स्वशरीरप्रमाणविष्कम्भबाहल्य-मेव क्षेत्रमापूर्ण स्पृष्ट च विग्रहगतो जीवस्य गतिमधिकृत्य कियद्-दूर यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह-'से ण भंते !' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात्, तत्-अनन्त-रोक्तप्रमाणं णमिति प्राग्वद्, भदन्त ! क्षेत्र कालस्य इति-प्राकृ-तत्वात् तृतीयार्थे षष्ठी, कियता कालेन पूर्ण कियता कालेन स्पृष्टम् / किमुक्तं भवति ? कियन्तं कालं यावत् स्वशरीरप्रमाणविष्कम्भबाहल्या क्षेत्र निरन्तर विग्रहगतो जीवस्य गतिमधिकृत्यापूर्ण स्पृष्ट च लभ्यते इति? भगवानाह– गौतम ! एकसमयेन वा द्विसमयेन वा तिसमयेन वा विग्रहेण / किमुक्तं भवति?-एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मात्र क्षेत्रं व्याप्यते इयदूरं यावत् स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्र वेदनाजनन-योग्यैः पुद्गलेरापूर्णभृतं जीवस्य गतिनधिकृत्यावाप्यते, तत एतद्-गतमुत्कृष्टतस्त्रिसामयिकेन विग्रहेण यावन्मात्र क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टर्वेदनाजननयोग्यः पुद्गलैरापूर्ण लभ्यते। इह चतुः-सामायिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि वेदनासमुद्धातः प्रायः परोदीरितवेदनावशत उपजायते परोदीरिता च वेदना सनाड्यां व्यवस्थितस्य न बहिः, सनोडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति उत्क-र्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्च-सामयिकेन चेति। उपसंहारवावयमाह-एव इयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः, कालेनापूर्णमतावताकालेन स्पृष्टम् / किमुक्तं भवति?-विग्रहगतावुत्कर्षतः त्रीन् समयान यावत् त्रिभिश्च समयः यावन्मात्र व्याप्यते, इयन्ती सीमामभिव्याप्य स्वशरीरप्रमाणविष्कम्भबाहल्य क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापूर्ण भृत च जीवस्य गतिमधिकृत्य व्याप्यते / अथवा- 'केवइयकालस्स' त्तिपष्ट्येव व्याख्येया, ततः स्वशरीरप्रमाणविष्कम्भबाहल्य क्षेत्र वेदनाजननयोग्यः पुद्गलेरापूर्ण भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि कियन्तं कालं यावदवाप्यते इत्यर्थः। भगवा-नाह- | एकरसमयन द्विरनमयन त्रिसमयेन वा विग्रहेणाऽपूर्ण स्पृष्ट च लभ्यते इति वाक्यशेषः, तत एतावता उत्कर्षतः-त्रिसमयप्रमा-णस्य कालस्य सम्बन्धि यथोक्तप्रमाणं क्षेत्र वेदनाजननयोग्यैः पुगलैरापूर्णमेतावता कालस्य सम्बन्धिस्पृष्टमिति।सम्प्रति यावन्तं कालं वेदनाजननयोग्यान् पुद्गलान् विक्षिपति तावत्काल-प्रमाणप्रतिपादनार्थमाह- 'ते णं भंते !' इत्यादि, तान् वेदनाज-ननयोग्यान् पुद्गलान्, णमिति वाक्यालङ्कारे, भदन्त ! परमकल्या-णयोगिन् ! परमसुखयोगिन् ! वा पुद्गलान कियतः कालस्य सम्बन्धिनो विक्षिपति ? कियत्काल वेदनाजननयोग्यान् विक्षिपतीति भावः / भगवानाह-जघन्येनाप्यन्तर्मुहूर्तस्य सम्बन्धिन उत्कर्ष--तोऽप्यन्तर्मुहूर्तस्य, केवलं मनाक् बृहत्तरस्य सम्बन्धिनः विक्षिपति / कि मुक्तं भवतिये पुद्गला जघन्यत उत्कर्षतश्चान्तर्मुहूर्त यावद्वेदनाजननसमर्थाः तान् तथा तथा वेदनातः सन् स्वशरी-रगतानस्वशरीरादहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान् विक्षिपति, यथाऽत्यन्तदाहज्वरपीडितः सन् सूक्ष्मपुद्गलान्, प्रत्यक्षसिद्ध चैतदिति, 'ते णं भंते !' इत्यादि, तेणमिति पूर्ववत्, भवान्त ! पुद्गला विक्षिप्ताः सन्तः शरीरसम्बद्धा असम्बद्धा वा 'जाई तत्थे' त्यादि प्राकृतत्वात् पुंस्त्वेऽपि नपुंसकता, यान तत्र वेदनासमुद्धा-तगतपुरुषसंस्पृष्ट क्षेत्रे प्राणान्-द्वित्रिचतुरिन्द्रिवान् शव कीटिका-मक्षिकादीन् भूतान् वनस्पतीन् जीवान-पञ्चेन्द्रियान् गृहगोधिकासप्पोदीन् सत्त्वान्-शेषपृथिवीकायिकादीन् अभिनन्तिअभिमुखमागच्छन्तो घन्ति वर्त्तयन्ति आवर्तपतितान् कुर्वन्ति लेशयन्ति-मनाक स्पृशन्ति सङ्घातयन्तिपरस्परं तान् संघातमा-पन्नान् कुर्वन्ति सइट्टयन्ति-अतीव सङ्घातविशेषमापादितान् कुर्वन्ति परितापयन्तिपीडयन्ति क्लमयन्तिमूपिन्नान् कुर्वन्ति अपद्रावयन्तिजीवितात्व्यपरोपयन्ति तेभ्यः पुद्गलेभ्यः तेषां प्राणादीनां विषये भदन्त ! सः-अधिकृतो वेदनासमुद्धातगतो जीवः कतिक्रियः प्रज्ञप्तः ? भगवानाह -गौतम ! 'सिय तिकिरिए' इति, स्यात् शब्दः कथञ्चित्पर्यायः, कथञ्चित् कदाचित् कौश्चिच जीवानधिकृत्येत्यर्थः त्रिक्रियः / किमुक्त भवति?-यदा न केषाश्चित् सर्वथा परितापनं जीविताद् व्यपरोपणं वा कराति तदा सर्वथा विक्रिय एव, यदापि केषाञ्चित्परितापं मरणं वा आपादयति तदापि येषां नाबाधामुत्पादयति तदपेक्षया त्रिक्रियः, 'सिय चउकिरिए' इति-केषांचित्परितापकरणे तदपेक्षया चतु-ष्क्रिय इति, केषांचिदपद्रावणे तदपेक्षया पञ्चक्रिय इति // सम्प्रति तमेवाधिकृत वेदनासमुद्घातगत जीवमधिकृत्य तेषां वेदनासमुद्धातगतपुरुषपुद्गलस्पृष्टानां जीवाना क्रिया निरूपयति- 'ते ण भंते !' इत्यादि, तेवेदनामुद्धातगतपुद्गलस्पृष्टा णमिति पूर्ववद्, भदन्त ! जीवास्ततोवेदनासमुद्धातपरिगतान् जीवान् अत्र 'स्थानियपः कर्माधारयोः' इति स्थानिनं यपमधिकृत्य पञ्चमीयम्, अयमर्थः-तं वेदनासमुद्घातपरिगत जीवमधिकृत्य कतिक्रियाः प्रज्ञप्ताः ? भगवानाह-गौतम ! स्यात् त्रिक्रियाः, यदा न काञ्चित्तस्याबाधामापादयितुं प्रभविष्णवः, स्याचतुष्क्रियाः, यदा तपरितापयन्ति। दृश्यन्तेशरीरेण स्पृश्यमानाः परिताप