SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ समुग्धाय 452 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय - 'एएसिण' मित्यादि, एतेषां भदन्त ! जीवाना क्रोधसमुद्धाते न मानसमुद्धातेन मायासमुद्धातेन लोभसमुद्धातेन च समवहतानाम् / अकषायेणेतिकषायव्यतिरेकेण शेषेण समुद्धातेन समवहतानामसमवहतानां च कतरें कतरेभ्यः अल्पा वा बहवो वा ? 'अर्थवशाद्विभक्तिपरिणाम' इति न्यायात् पञ्चम्याः स्थाने तृतीयापरिणामनातु कतरे कतरेस्तुल्या वा, तथा कतरे कतरेभ्यो विशेषाधिकाः, एवं गौतमेन पृष्टे भगवानाह-गौतम ! सर्वस्तोका जीवा अकषायसमुद्धातेन कपायव्यतिरिक्तेन शेषवेदनादिसमुद्धातषट्के न समवहताः, कषायव्यतिरिक्तसमुद्धातमुद्धता हि क्वचित् कदाचित् केचिदेव प्रतिनियता लभ्यन्ते, ते चोत्कर्षपदेऽपि कषायमुद्धातसमवहतापेक्षया अनन्तभागे वर्तन्ते, ततः स्तो काः तेभ्यो मानसमुद्धातसमवहता अनन्तगुणाः, अनन्तानां वनस्पतिजीवानां पूर्वभवसंस्कारानुवृत्तितो मानसमुद्धात वर्तमानानां प्राप्यमाणत्वात्. तेभ्यः क्रोधसमुद्भातेन समवहता विशेषाधिकाः, मानापेक्षया क्रोधिनां प्रचुरत्वात्, तेभ्यो मायामुद्धातेन समवहता विशे-- षाधिकाः, क्रोध्यपेक्षया मायाविनां प्रचुरत्वात्, तेभ्योऽपि लोभसमुद्धातेन समवहता विशेषाधिकाः, मायाविभ्यो लोभवतामतिप्रभूतत्वात्, तेभ्योऽपि केनाप्यसमवहताः संख्येयगुणाः, चतसृष्वपि गतिषु प्रत्येक समवहतभ्योऽसमवहतानां सदा संख्येयगुणतया प्राप्यमाणत्वात् / सिद्धास्त्वे के न्द्रियापेक्षयाऽनन्तभागवर्तिन इति ते सन्तोऽपि न विवक्षिताः। एतदेवाल्पबहुत्वं चतुर्विशतिदण्डकक्रमेण चिन्तयन्नाह - 'एएसि ण' मित्यादि सुगम, नवरं सर्वस्तोका नैरयिका लोभसमुद्धातेन समवहता इति, नैरयिकाणामिष्टद्रव्यसंयोगाभावात्प्रायो लोभसमुद्धातस्तावन्नोपपद्यते, येषामपि च केषाञ्चिद्भवति ते कतिपया इति शेषसमुद्धातसमवह-तापेक्षया सर्वस्तोकाः, असुरकुमारविषयाल्पबहुत्वचिन्तायां सर्वस्तोकाः क्रोधसमुद्भातसमुद्धता इति, देवा हि स्वभावतो लोभबहुलास्ततोऽल्पतरा मानादिमन्तः, ततोऽपि कदाचित्कतिपये क्रोधवन्त इति शेषसमुद्धातसमवहतापेक्षया सर्वस्तोकाः, 'एवं सव्वदेवा० जाव वेमाणिया' इति, एवम्-असुरकुमारगतेनाल्पबहुत्वप्रकारेण सर्वे देवा नागकुमारादयस्तावद्वक्तया यावद्वैमानिकाः / पृथिवीकायिकचिन्तायां सामान्यतो जीवपदे इव भावना भावनीया, समानत्वात्। 'एवं जावे' त्यादि, एवं-पृथिवीकायिकोक्तेन प्रकारेण तावद्वक्तव्यं यावत् तिर्यपञ्चेन्द्रियाः, मनुष्या यथा जीवाः, नवरमकषायसमुद्धातसमवहतापेक्षया मानसमुद्धातेन समवहता असंख्येयगुणा वक्तव्याः / (छाद्यस्थिकसमुद्धातवक्तव्यता 'छाउमत्थियसमुग्धाय' शब्दे तृतीयभागे 1354 पृष्टं गता।) (11) सम्प्रति यस्मिन् समुद्धाते वर्तमानो यावत् क्षेत्र समुद्धातवशतस्तैस्तैः पुद्गलैया प्नाति तदेतन्निरूपयति जीवे णं भंते ! वेदणासमुग्घाएणं समोहते समोहणित्ता जे पोग्गले निच्छु भति तेहिं णं भंते ! पोग्गलेहिं के वइए खेत्ते अफुण्णे केव-तिते खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं नियमा छद्दिसिं एवतिते खेत्ते अफुण्णे एवनिते खेत्ते फुडे / से णं भंते ! खेत्ते केवतिकालस्स अप्फुडे केवइए फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवति-कालस्स अफुण्णे एवइयकालस्स फुडे / ते णं भंते ! पोग्गले केवइकालस्स निच्छुभति ? गोयमा ! जहण्णेणं अंतो मुहुत्तस्स उक्कोसेणं वि अंतोमुहुत्तं / ते णं भंते ! पोग्गला निच्छूढा समाणा जातिं तत्थ पाणातिं भूयातिं जीवातिं सत्तातिं अभिहणंति वत्तेंति लेसेंति संघाएंति संघट्टेति परितावेंति किलामेंति उद्दवेंति तेहिंतो णं भंते ! से जीवे कतिकिरिए? गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। तेणं भंते ! जीवा तातो जीवाओ कतिकिरिया ?गोयमा ! सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया / से णं भंते ! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि / नेरइए णं भंते ! वेदणासमुग्धाएणं समोहते, एवं जहेव जीवे,णवरं णेरड्यामिलायो,एवं निरवसेसंजाय वेमाणिते एवं कसायसमुग्धाओ वि भणितव्यो / जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहणइ समोहणित्ता जे पोग्गले णिच्छु-भति तेहिं णं भंते ! पोग्गले हिं के वतिते खेत्ते अप्फुण्णे केवतिते खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं असंखेज्जाई जोयणाई एगदिसिं एवति खेत्ते अफुण्णे एवतिते खेत्ते फुडे / से णं भंते ! खेत्ते केवइकालस्स अफुण्णे केवइकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउस-मइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे, सेसं तं चेव० जाव पंचकिरियाओ! एवं नेरइए वि, णवरं आया मेणं। जहण्णेणं साइरेगं जोयणसहस्सं उक्कोसेणं असंखेज्जाई जोअणाई,एगदिसिं एवतिते खेत्ते अफुण्णे एवतिते खित्ते फुडे / विग्गहेणं एगसमइएण वा दुसमइएण वा तिसमइण वा चउसमइएण वा भन्नति, सेसं तं चेव० जाव पंचकिरिया वि। असुरकुमारस्स जहा जीवपदे, णवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जहा असुरकुमारे एवं० जाव वेमाणिए, णवरं एगिदिए जहा जीवे निरवसेसं / (सू०३४२) 'जीवे णं भंते !' इत्यादि, जीवो णमिति वाक्यालङ्कारे, वेदना समुद्धाते वर्तमानः तस्मिन् समवहतो भवति, समवहत्य च यान पुगलान् वेदनायोग्यान स्वशरीरान्तर्गतान
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy