________________ सह 343 - अभिधानराजेन्द्रः - भाग 7 सद्द चायमभिजल्पो बुद्धिस्थ एव / तथाहि-बाह्यार्थयोः (बाह्ययोः) शब्दार्थयोभिन्नेन्द्रियग्राह्यत्वादिभ्यो भेदस्य सिद्धेस्तयोरैक्यापादनं परमार्थतोऽयुक्तमेवेति बुद्धिस्थयो रेव शब्दार्थयोरेकबुद्धिगतत्वादेकीकर युक्तम् / तथाहि- उपगृहीताभिधेयाकारतिरोभूतशब्दस्वभाव। बुद्धौ विपरिवर्त्तमानः शब्दात्मा स्वरूपानुगतमर्थमविभागेनान्तः सन्निवेशयन्नभिजल्प उच्यते; स च बुद्धरात्मगत एवाकारो युक्ता न बाहाः, तस्येकान्तेन परस्पर विविक्तस्वभा-वत्वात; ततश्च बुद्धिशब्दार्थपक्षादनन्तरोक्तादस्य न कश्चिद् भेदः, उभयत्रापि बौद्ध एवार्थः / एत वन्मात्रं तु भिद्यते - 'शब्दा-विकीकृतौ' इति / दोषस्तु समान एव- 'ज्ञानादव्यतिरिक्तं च कथमन्तिर व्रजेत्"? इति। (7 प्रतिभापदार्थवादिमतनिरसनम्)प्रतिभापक्षे तुयदि सा परमार्थतो बाह्यार्थविषया तदैकत्र वस्तुनिशब्दादौ विराद्धसमयावस्थायिनां विचित्राः प्रतिभा न प्राप्नुवन्ति, एकस्यानेकरवभाव सम्भवात् / अथ निर्विषया तदार्थे प्रवृत्ति-प्रतिपत्ती न प्राप्नुतः, अनद्विषयत्वाच्छब्दस्य। अथ स्वप्रतिभासो (से)ऽनर्थेऽर्थाध्यवसायन भ्रान्त्या ते प्रवृत्ती-प्रतिपत्ती भवत-स्तदा भान्तः शब्दार्थः प्राप्रति, तर याश्च बीजं वक्तव्यम् ; अन्यथा सा सर्वत्र सर्वदा भवेत्। यदि पुनर्भावानां परस्परतो भेद एव बीजमस्यास्तदाऽस्मत्पक्ष एव समर्थितः स्यादिति सिद्धसाध्यता। किञ्च-सर्वमेतत् स्वलक्षणादिकं शब्दविषयत्वनाभ्युपगम्यमानं क्षणिकम् अक्षणिकं वेति? आद्यपक्षे सङ्केतकालदृष्टस्य व्यवहारका लानन्वयान्न तत्र समयः सप्रयोजनः / अक्षणिकपक्षे च "नाक्रमात् क्रमिणो भावः" इति शब्दार्थविषयस्य क्रमिज्ञानस्याभावप्रसक्तिः / (विवक्षापदार्थवादिमतमुल्लिख्य तन्निरसनम्)अन्य त्वाहुः-- "अर्थविवक्षां शब्दोऽनुमापयति" इति / यथोक्तम्"अनुमान विवक्षायाः शब्दादन्यन्न विद्यते" इति। अत्रापि यदि परमार्थतो विवक्षा पारमार्थिकशब्दार्थविषयेष्यते तदसिद्धम्, स्वलक्षणादेः शब्दार्थस्य कस्यचिदसम्भवात; अतो न कृचिदर्थे परमार्थ विवक्षाऽस्ति, अन्वयिनोःर्थस्याभावात् / नापि तत्प्रति-पादकः शब्दः सम्भवति / यदाह- "धावा श्रुतिः" [तत्त्वस०का०६०७ ] इति। न च-विवक्षाया प्रतिपाद्यायां शब्दाद् बहिरर्थे प्रवृत्तिः प्राप्नोति, तस्याप्रेरितत्वात् अर्थान्तरन्त्। न च विवक्षा-परिवर्तिनो बाह्यस्य च सारूप्यादप्रेरितेऽपि तत्र ततः प्रवृत्तिर्यम-लकवत्, सर्वदा बाह्ये प्रवृत्तेरयोगात् कदाचिद् विवक्षापरिवर्ति-न्यपि प्रेरिते प्रवृत्तिप्रसक्तेर्यमलकयोरिव / अथ परमार्थत स्व-प्रतिभासानुभवेऽपि वक्तुरेवमध्यवसायो भवति 'म्याऽस्मै बाह्य-एवार्थः प्रतिपाद्यते' श्रोतुरप्येवमध्यवसायः 'ममार्य बाह्यमेव प्रतेपादयति' इति; अतस्तैमिरिकद्वयद्विचन्द्रदर्शनवदय-शाब्दो व्यवहार इते। यद्येवमस्मत्पक्ष एव समाश्रित इति कथं न सिद्धसाध्यता? शब्दस्तु लगभूतो विवक्षामनुमापयतीत्यभ्यु-पगम्यत एव यथा धूमोऽग्निम्। 1 [वैभाषिकमतं निर्दिश्य तन्निरसनम्]एतेन वैभाषिकोऽपि शब्दविषयं नामाख्यमर्थचिह्नरूपं विप्रयुक्त संस्कारमिच्छन्निरस्तः / तथाहि-तन्नामादि यदि क्षणिकं तदाऽ-- न्वयायोगः / अक्षणिकत्वे क्रमिज्ञानानुपपत्तिः, बाह्य च प्रवृत्त्य-- भावःसारूप्यात् प्रवृत्तौ न सर्वदा बाह्य एव प्रवृत्तिः / अशक्यस-मयो हात्मा, नामादीनामनन्यभाक्। तेषामतोन चान्यत्वं, कथ-चिदुपपद्यते" / / 1 / / इत्यादेः सर्वस्य समानत्वात् / तदेवम्- 'अशक्यसमयत्वात्' इत्यस्य हेतोनासिद्धता / नाप्यनैकान्तिकत्वं विरुद्धत्वे / तत् सिद्धम् अपोहकृच्छब्द इति। ['निषेधमात्रमेव अन्यापोहः' इति मत्वा कौमारिलकृतानामाक्षेपाणामुपन्यासः] अत्र परो निषेधमात्रमेव किलान्यापोहोऽभिप्रेत इति मन्यमानः प्रतिज्ञायाः प्रतीत्यादिविरोधमुद्भावयन्नाह"नन्वन्यापोहकृच्छब्दो, युष्मत्पक्षे नु वर्णितः। निषेधमात्रं नैवेह, प्रतिभासैव [ सेऽव ] गम्यते" / / [तत्त्वसं० का०६१०] "किन्तु गौर्गवयो हस्ती, वृक्ष इत्यादिशब्दतः। विधिरूपावसायेन,मतिः शाब्दी प्रवर्त्तते / / " [तत्त्वसं० का०६११] “यदि गौरित्ययं शब्दः, समर्थोऽन्यनिवर्तन। जनको गवि गोबुद्धे-ऍग्यतामपरो ध्वनिः।।" [भामहालं० परि०६ श्लो०१७] "नन ज्ञानफलाः शब्दा,नचैकस्य फलद्वयम्। अपवाद-विधिज्ञानं,फलमेकस्य वः कथम्"?|| [भामहालं० परि०६ श्लो०१८] "प्रागगौरिति विज्ञान, गोशब्दश्राविणो भवेत्। येनागोः प्रतिषेधाय, प्रवृत्तो गौरिति ध्वनिः" / / [ भामहालं० परि०६ श्लो०१६] यदि गोशब्दोऽन्यव्यवच्छेदप्रतिपादनपरस्तदा तस्य तत्रैव चरितार्थत्वात् सास्नादिमति पदार्थे गोशब्दात् प्रतीतिर्न प्राप्रोति, ततश्व सारनादिमत्पदार्थविषयाया गोबुद्धेर्जनकोऽन्यो ध्वनिर--न्वेषणीयः / अथैकनैव गोशब्देन बुद्धिद्वयस्य जन्यमानत्वान्नापरो ध्वनिमुंग्यः, नैकस्य विधिकारिणः प्रतिषेधकारिणो वा शब्दस्य युगपद्विज्ञानद्वयलक्षण फलमुपलभ्यते, नापि परस्परविरुद्धमप-वादविधिज्ञानं फलं युक्तम्, यदि च गोशब्देनागोनिवृत्तिर्मुख्यतः प्रतिपाद्यते तदा गोशब्दश्रवणानन्तरं प्रथमम् 'अगौः' इत्येषाश्रोतुः प्रतिपत्तिर्भवेत्। यत्रैव ह्यव्यवधानेन शब्दात् प्रत्यय उपजायते स एव शाब्दोऽर्थः न चाव्यवधानेनागोव्यवच्छेदे मतिः, अतो गोबु-ध्द्यनुत्पत्तिप्रसङ्गात् प्रथमतरमगोप्रतीतिप्रसङ्गाच नापोहः शब्दार्थः / अपि च-अपोहलक्षणं सामान्य वाच्यत्वेनाभिधीय-मानं कदाचित् पर्युदासलक्षणं वाऽभिधीयते, प्रसज्यलक्षण वा ? तत्र प्रथमपक्षे सिद्धसाध्यता प्रतिज्ञादोषः, अस्माभिरपि गोत्वा-ख्यं सामान्य गोशब्दवाच्यमित्यभ्युपगम्यमानत्वात्-यदेव ह्य-गोनिवृत्तिलक्षणं सामान्य गोशब्देनोच्यते भवता तदेवाऽस्माभि-विलक्षणं सामान्य तद्वाच्यमभिधीयते, अभावस्य भावान्तरा-त्मकत्वेन स्थितत्वात् / तदुक्तम्- "क्षीरे दध्यादि यन्नास्ति, प्रागभावः स उच्यते।" [ श्लो० वा० अभा० परि० श्लो०२] "नास्ति वा [ स्तिता ] पयसो दध्नि, प्रध्वंसाभावलक्षणम् / गवि योऽश्वाद्यभावश्व सोऽन्योन्याभाव उच्यते॥