________________ सदा 337 - अभिधानराजेन्द्रः - भाग 7 सदारसंतोस सदा अव्य० (सदा) सर्वस्मिन् काले, ध०२ अधि० / सर्वदा शब्दार्थे, सूत्र०१ श्रु०३ अ०१ उ०। सदागम पुं० (सदागम) आप्तोपदेशे, पञ्चा० 1 विव०। सदागमविसुद्ध त्रि० (सदागमविशुद्ध) सदर्थप्रतिपादकागमः सदागमस्तेन विशुद्ध निर्दोषम्। सदागमसम्मते, षो०२ विव०। सदाजत त्रि० (सदायत) अप्रमादिनि, आचा०१ श्रु० 3 अ०२ उ०। सदाजय त्रि०(सदाजय) सदा सर्वकालं जयो येषु तानि सदाजयानि / सर्वकालं जय-सु, जी०३ प्रति०३ अधि०।। सदायार पुं० (सदाचार) शोभनाचारे, षो०५ विव० / सर्वोपकारप्रियवचनाकृतिमाचितरनेहादिकायां सज्जनचेष्टायाम्, यो० वि०। अथ सदाचारमाहलोकापवादभीरुत्वं,दीनाभ्युद्धरणाऽऽदरः। कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः॥१२६|| लोकापादभीरुत्वं-यतःकृतोऽपि लोकापवादान्मरणान्निर्विशिप्यमाणाद् भीतभावः, दीनाभ्युद्धरणादरः-उपलक्षणत्वाद्दीनानाथोपकारप्रयत्नः, कृतज्ञतापरकृतोपकारपरिज्ञानम्, सुदाक्षिण्यंगम्भीरधीरचेतसा निर्मत्सरस्य च प्रकृत्यैव परकृत्याभियोगपरता। किमित्याहसदाचारः-प्रागुपन्यस्यः प्रकीर्तितः-प्रज्ञप्तः। तथासर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु। आपद्यदैन्यमत्यन्तं, तद्वत्संपदिनम्रता।।१२७॥ सर्वत्र-जघन्यमध्यमोत्तमजनेषु निन्दासंत्यागः-परिवादापनोदः, वर्णवादश्च-प्रशंसारूपः साधुषु-सदाचारेषु जनेषु, आपदिव्यसनेऽदैन्या-अदीनभावोऽत्यन्तम्-अतीव तद्वदापादैन्यवत, संपदिविभवसमागम नम्रता औचित्येन नमनशीलता। तथाप्रस्तावे मितभाषित्व-मविसंवादनं तथा। प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम्॥१२८।। प्रस्तावे-भाषणावसरे उपलब्धे मितभाषित्वं मितभाषणशीलता, अविसंवादन-विसंवादवतः स्ववचनस्याकरणं, तथा प्रतिपन्नक्रिया घेति--प्रतिपन्नस्यव्रतनियमादेः क्रियानिर्वाहणम् / इति पदसमाप्ता, कुलधर्मानुपालनम्-अविरुद्ध स्वकुलाचारानुवर्त्तनम्। असद्व्ययपरित्यागः, स्थाने चैतक्रिया सदा। प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम्॥१२६।। असद्व्ययपरित्याग:-असतः पुरुषार्थानुपयोगित्वेनासुन्दरस्य व्ययस्यवित्तवियोगरूपस्य परित्यागः स्थाने च-स्थाने एव देवपूजनादावेतत् क्रियाव्ययक्रिया सदासर्वकालं प्रधानकार्येविशिष्टफलदायिनि प्रयोजने निर्बन्ध:--आग्रहः प्रमादस्यमद्यमानादिरूपस्य विवर्जनमउज्झनम्। लोकाचारानुवृत्तिश्च, सर्वत्रोचित्यपालनम्। प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि।।१३०॥ लोकाचारानुवृत्तिश्च-बहुजनरूढाविरोधिलोकव्यवहारानुपालनरूपा सर्वत्रस्वपक्षे परपक्षे चौचित्यपालनसमुचिताचाररूपं प्रवृत्तिर्गर्हिते कुत्सित कुलदूषणादौन-नैवेति प्रावित्, प्राणैरुच्छासरूपैः कण्टगतरपिगलस्थानप्राप्तैः किं पुनः स्वभावस्थैरित्यपिशब्दार्थः / यो०बि०। सदायारसंग पु० (सदाचारसङ्ग) सम्-शोभनम् आचार हपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैः सह सङ्ग:-सङ्गतिः / राजनीः सह सङ्गे, ध० / असत्सङ्गे हि सपदि शीलं विलीयेत / यदाह- "या सत्संगतिरतो, भविष्यसि भविष्यसि / अथाऽसज्जनगोष्ठीषु, पतिष्यारे पतिष्यसि / / 1 / / " इति। तथा- “सङ्गः सर्वात्मना त्याज्यः, स चेत् त्यातु न शक्यते / स सद्भिः सह कर्त्तव्यः,सन्तः सङ्गस्य भेषजम् / / 2 / / " इति। ध०१ अधि०। सदार पुं० (स्वदार) आत्मीयभार्यायाम, पञ्चा० 1 विव० / *सदार पुं० सपत्नीके. उत्त०१४ अ०। सदारमंतभेय पुं० (स्वदारमन्त्रभेद) स्वदाराणां मन्त्री विश्रम्भभाषित तस्य भेदः-अन्यकथनम्। ध०र०२ अधिक / स्वदाराणां विश्रब्धविशिष्टावस्थाभाषितस्यान्यस्मै कथने, ध०२ अधि० / पञ्चा० / श्रा०। आव०॥ सदारसंतोस पुं०(स्वदारसन्तोष) स्वदारैः सन्तोषः स्वदारसन्तोषः / स्वदारसन्तुष्टी, उपा०१ अ०। एयमिह-मुणेयव्यं, सदारसंतोस मो एत्थ॥११५।। स्वस्य आत्मनः स्वे वा आत्मियादाराःस्वदाराःस्वकलत्रं तैः संतोषःसंतुष्टिः मैथुनासेवनं प्रति वेश्यादेरपि वर्जनमिति स्वदारसंतोषः स च चतुर्थाणुव्रतमिति योजितमेव / इह च प्रथमैकवचनलोपः प्राकृतत्वात् 'मो' इति निपातः पादपूरणार्थः, अत्रेति चतुर्थाणुव्रते वर्जयतीत्युत्तरेण योग इति गाथार्थः / पञ्चा० १विव०। आत्मीयकलत्रादन्यत्रेच्छानिवृत्ता, स्था०५ ठा० 1 उ० / “स्वकीयदारसन्तोषो, वर्जन चान्ययोषिताम्। श्रमणोपासकानां तच्चतुर्थाणुव्रतमतम्॥१॥" ध०२ अधि०। ('आणंद' शब्दे द्वितीयभागे 106 पृष्ठ व्याख्या गता।) (अस्यातिचाराः 'परदारगमन' शब्दे पञ्चमभागे 526 पृष्ठ व्याख्याताः। एतद्विषये प्रथमा कथा"सख्योऽत्र गिरिनगरे, तिस्रः सवयसोऽभवन्। उज्जयन्तं गता नन्तुं, गृहीतास्ता मलिम्लुचैः / / 1 / / नीत्वा पारसकुलेऽथ, वेश्यानां ददिरेऽधमैः / आसंस्ताः प्रौढगणिका-स्तत्पुत्राः पितृभिः पुनः।।२।। पालिता यौवनं प्राप्ता-स्तत्रैवागु:पणायितुम्। तासा भाटि ददुस्तेऽथ, स्वसंपत्या विभूषिताः / / 3 / / रात्रौ तन्मन्दिरे जग्मु-दौ रेमाते स्वमातरम्। एक: सुश्रावको रन्तु, नैच्छत्पप्रच्छ किं तु ताम्॥४॥ कुतः कथमिहायाता,सा स्वरूपं न्यरूपयत्। सोऽवदत्ते वयं युष्म-त्पुत्राः शिष्टं तदन्ययोः॥५॥ सर्वे वैराग्यमापन्ना-स्तदम्बाश्च प्रवव्रजुः। द्वितीया कथाश्रेष्ठी हेमपुरे श्रीदः, प्रियामुन्मुच्य गुर्विणीम्। दिग्यात्रायां ययौ पश्चा-ज्जायते स्म सुताऽदुता / / 1 / /