________________ सत्तुग 334 - अभिधानराजेन्द्रः - भाग 7 सत्थ वा मुग्गा पासाणजंतग्गे दलिया महिणा सत्तुगा भण्णति / नि० चू० / १उ०। सत्तुचुण्ण पुं० (सक्तुचूर्ण) यवसक्तुषु, दश०१०। सत्तुजण पुं० (शत्रुजन) वैरिलोके, ति०। सत्तुदाह पुं० (शत्रुदाह) यत्र शत्रयो दान्ते / तादृशे स्थाने, नि० चू० / 330 // सत्तुमद्दन पुं० (शत्रुमर्दन) तच्छरीरतत्सैन्यकदर्थनादिषु सहस्र- / मानमथने, स० सत्तुय पुं० (शक्तुक) भ्रष्टयवक्षोदे, उत्तरावहे सत्तुया अन्नेसुवाजं विसए दाऊण पच्छा अणेगमवक्खा पगारा दिजंति। नि० चू० 1 उ०। सत्तुसेण पुं० (शत्रुसेन) नागरय गृहपतेः सुलसायां भार्यायामुत्पन्ने पुत्रे, अन्त०१ श्रु०२ वर्ग 1 अ०। (स च अरिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सेत्स्यतीत्यन्तकृदृशाना तृतीये वर्ग षष्ठे अध्ययन सूचितम्।) सत्तुस्सेह त्रि० (सप्तोत्सेध) सप्तकुम्भादिषु स्थानेषून्नते, ज्ञा० 1 श्रु० 1 अ० / सप्तहस्तप्रमाणशरीरे, च० प्र०१ पाहु० / सप्तहस्त-प्रमाणशरीरोच्छ्रये, सू० प्र०१पाहु०। सत्थ त्रि० (शस्त) प्रशस्ते, षो०७ विव०॥ *शस्त्र न० शस्यन्ते-हिंस्यन्ते अनेन प्राणिन इति शस्त्रम् / आचा० / 1 श्रु०१ अ०३ उ० / जीवशासनहेती, स्था० 6 ठा०३ उ० / उपघातकारिणि, आचा०१ श्रु०२ अ०१उ०। खड्गारिकाद्यक्षेप्यायुधे, प्रश्न०५ संव० द्वार। प्रव०। व्य०। स्था०। प्रहरणे, सूत्र० 1 श्रु०८ अ० / ज्ञा० / दात्रादिके, सूत्र०१ श्रु० 4 अ० 1 उ०। जंजस्स विणासकारणं तं तरस सल्थं भण्णति। नि० चू०१ उ०। प्रच्छन्नके नापितोपकरणे, विपा० 1 श्रु०६ अ० / शस्त्र द्रव्यभावभिन्नम् / तत्र द्रव्यशस्वस्वकायपरकायोभयरूपम् / भावशस्त्र तु असंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः / आचा०१ श्रु०१ अ०२ उ०। द्रव्यशस्त्रमपि समासविभागभेदात् द्विधातत्र समासो द्रव्यशस्त्रमप्कायविषयकमुत्सेचन उपक्षेषणादि, विभागतस्तु किं-चित्रस्वकार्य परकायं वा शस्त्रम् / आचा०१ श्रु०१ अ०३ उ०। शस्त्रनिक्षेपःदव्वं सत्थग्गि विस--णेहंबिलखारलोणमादीयं / भावो उ दुप्पउत्तो, वाया काओ अविरती य / / 36 / / शस्त्रस्य निक्षेपो नामादिश्चतुर्धा-व्यतिरिक्तं द्रव्यशस्त्रं खङ् गाद्यग्निविषस्नेहाम्लक्षारलवणादिकम्, भावशखं दुष्प्रयुक्तो भावः अन्तःकरणं, तथा वाकायावविरतिश्चेति जीवोपघातकारित्वादिति भावः / आचा० 1 श्रु०१ अ०१ उ०। (अत्रत्या वक्तव्यता 'पुढवीकाइय' शब्दे पञ्चमभागे 678 पृष्ठे गता।) (पृथिव्यतेजोवायुवनस्पतिरसाना शस्त्राणि पृथिव्यादिशब्देषूक्तानि।) अस्थि सत्थं परेण परं, णऽत्थि असत्थं परेण परं / (सू० 1254) तत्र द्रव्य शस्त्र कृपाणादि लापरेणापि एरमरित, तीक्ष्णादपि तीक्ष्णतरमस्ति लोहकर्तृ संस्कारविशेषात् / यदि वा शस्वमिन्युपघातकारि; तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति। तद्यथा-कृपाणाभिघाताद्वातोत्कोपस्ततः शिरोर्तिस्तस्या ज्वरस्ततोऽपि मुखशोषमूदिय इति / भावशस्त्रपारपर्यत्वेकसूत्रान्तरित स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारंपर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह- 'नत्थि' इत्यादि, नास्ति- न विद्यते किं तत्-शस्त्रं संयमस्तत्परेण परमिति प्रकर्षगत्यापन्नमिति / तथाहि-पृथिव्यादिना सर्वतुल्यता कार्या, न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषु समभावत्वात् सामायिकस्या अथवा शैलेश्यवस्थासंयमादपिपरः संयमो नास्ति तदूर्द्ध गुणस्थानाभावादिति भावः, यो हि क्रोधमुपादानतो बन्धतः स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्श्यपीति / आचा०१ श्रु०३ अ०४ उ० / सत्थमेगे उ सिक्खंति। (सू०४+) शस्त्रम्-खङ्गादिप्रहरणं शास्त्रं वा-धनुर्वेदायुर्वेदादिकं प्राण्युपम-ईकारि तत् सुष्ठ सातगौरवगृद्धा एके–केचन शिक्षन्ते उद्यमेन गृह्णन्ति, तच्च शिक्षितं सत् प्राणिनां-जन्तूनां विनाशाय भवति। तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रत्यालीढादिभिञ्जीवे व्यापादयितव्ये स्थान विधेयं, तदुक्तम्- "मुष्टिनाऽऽच्छादयेलक्ष्य, मुष्टौ दृष्टिं निवेशयेत् / हतं लक्ष्य विजानीयाद्यदि मूर्धान कम्पते / / 1 / / " सूत्र०१ श्रु०५ अ० 1 शस्त्रमिव शस्त्रम् / मृषावादादिके, प्राण्युपतापकारिल्वात्तेषाम् / सूत्र०१ श्रु० 6 अ०। *शास्त्र न० शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रम। विशे० आ० म०। नं०। सूत्र०। सासिज्जए तेण तहिं, व नेयमायावतो सत्थं // 1384 / / 'शासु' अनुशिष्टौ, शास्यते ज्ञेयमात्मा वाऽनेनास्मादस्मिन्निति वा शास्त्रम्, शास्यते-कथ्यते तदिति वा शास्वमिति गाथार्थः। विशे० श्रुते, आ० चू०१ अ०। जैनागमे, अष्ट० 24 अष्ट०। तस्मात्सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते।। लोके मोहान्धकारेऽस्मिन, शास्त्रालोकः प्रवर्तकः॥२२४।। तस्माद्धर्म विधानतः परानर्थभावात् सदैव-सर्वकालमेव धर्मार्थीधर्माभिलाषुकः शास्त्रयत्नः-शास्त्रादरपरः प्रशस्यतेश्लाघ्यते। कुतः - यतः लोके-जगति मोह एवान्धकारस्तमो यत्र स तथा / तत्र शास्त्रालोकः-शास्त्रप्रकाशः प्रवर्तकः--प्रवर्तयिता परलोकक्रियासु / अथ शास्त्रमेव स्तुवन्नाह-- पापामयौषधं शास्त्र,शास्त्रं पुण्यनिबन्धनम्। चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् // 225 / / पापामयौषधं-पापव्याधिशमनीयं शास्त्रम्, तथा शास्त्रं पुण्यनिबन्धनम्-पवित्रकृत्यनिमित्तम् / चक्षुः-लोचनं सर्वत्र सूक्ष्म-- बादरादावर्थ गच्छति यत्तत्सर्वत्रगं शास्त्रम् / शाख सवार्थसाधन सर्वप्रयोजननिष्पत्तिहेतुः।