________________ सत्त 313 - अभिधानराजेन्द्रः - भाग 7 सत्तणाम सत्त त्रि० (सप्तन) सात संख्याभेदे, नि० चू०१ उ० ज० / स०। / संत्तंग न० (सप्ताङ्ग) राजामात्याऽ 1 मात्यगृहाऽ २र्थलाभ ३कोश 4 राष्ट्र 5 दुर्ग 6 सैन्य 7 लक्षणे सप्तावयवे राज्ये, कल्प०१ अधि०३ क्षण। सत्तंगपइट्ठिय त्रि० (सप्ताङ्ग प्रतिष्ठित) सप्ताङ्गानि चत्वारः पादाः करः पुच्छं शिरनं चेति, एतानि प्रतिष्ठितानि भूमौ लग्नानि यस्य तत्तथा / सप्तभिः पादादिभिर्भूमी लग्ने, उपा०२ अ०। सत्तंत न० (सत्तन्त्र) सच्छास्त्रे, प्रति०। सत्तकप्प पुं० (कप्तकल्प) सप्तविधकल्पे, पं० भा०। सत्तविहकप्पमेत्तो, वोच्छामि अहकमेणंतु। ठितमट्टितजिणथेर-लिंग उवही तहेव संभोगे॥ एसो तु सत्तकप्पो,णेयव्यो आणुपुव्वीए। पं०भा०१ कल्पापं०५०। सत्तखेत्ती स्त्री० (सप्तक्षेत्री) सप्ताना क्षेत्राणां समाहारः समक्षेत्री। जिनबिम्बादिसप्तके,सप्तक्षेत्र्या धनवापः। ध०। सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री, जिनबिम्ब 1 भवना२ऽऽगम 3 साधु 3 साध्वी 5 श्रावक 6 श्राविका 7 लक्षणा तस्या वित्तस्यधनस्य श्रावकाधिकारान्न्यायोपात्तस्य वापोविकरणं तच विशेषतो गृहिधर्मो भवतीति योज्यम् / एवमग्रेऽपि स्वयमूह्यम् / क्षेत्रे हि बीजस्य वपनमुचि तमित्युक्तं वाप इति। वपनमपि क्षेत्रे उचितं नाऽक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम्। क्षेत्रत्वं च सप्तानां रूढमेव वपनं व सप्तक्षेत्र्या यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया चाध०२ अधिक। सत्तग पुं०(सप्तक) सप्तपरिमाणस्य सप्तकः। सप्तावयवे, व्य०४ उ०। सत्तगइय पुं० (सप्तगतिक) मृतानां सप्त गतयः-अण्डजादियोनिलक्षणा येषां ते सप्तगतयः / मृत्वा सप्तसु गतिषु उत्पत्स्यमानेषु, स्था० 7 ठा० ३उ०। सत्तघर न० (सप्तगृह) जीवानुशासनकारस्य जिनदत्तसूरेर्निवासस्थाने, जी०१ प्रतिः। सत्तघरंतर न० (सप्तगृहान्तर) सप्तगृहमध्ये, कल्प० 3 अधि०६क्षण। सत्तघरंतरिय पुं० (सप्तगृहान्तरिक) राप्तगृहाण्यन्तरं भिक्षाग्रहणे यस्य स सप्तगृहान्तरिकः / सप्तर गृहाण्यतिक्रम्यभिक्षाग्रणाभिग्रहे, औ०। सत्तच्छद पुं० (सप्तच्छद) सप्तपर्णवृक्षे,विशे० / “अजुअल (प) वण सत्तच्छय" पाइ० ना०२५७ गाथा। सत्तट्ठाणणिव्वत्तिय पुं० (सप्तस्थाननिर्वर्तित) सप्तकारनिष्पादिते, स्था० 7 ठा०३ उ०। सत्तट्ठिसट्ठिखंडिय त्रि० (सप्तषष्टिखण्डित) सप्तषष्टिप्रविभागीकृते, ज्यो०६ पाहु०। सत्तणउइ स्त्री० (सप्तनवति) सप्ताधिकायां नवतिसंख्यायाम, स०। सत्तणाम न० (सप्तनाम) सप्तानामर्थानामभिधायके, नामनि, अनु०। / से किं तं सत्तनामे? सत्तनामे सत्त सरा पण्णत्ता, तं जहासज्जे रिसहे गंधारे, मज्झिमे पंचमे सरे। रेवए चेव नेसाए,सरा सत्त विआहिआ।।१।। 'स्व' शब्दोपतापयोरिति स्वरणानि स्वराः-ध्वनिविशेषाः, ते च सप्त, तद्यथा- 'सज्जे' त्ति श्लोकः, व्याख्या-षड्भ्यो जातः षड्जः, उक्तं च- 'नासां कण्ठमुरस्तालु, जिह्वां दन्ताँश्च संश्रितः। षड्भिः संजायते यस्मात, तस्मात्, षड्ज इति स्मृतः।।१।।' तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च-“वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः / नर्दन वृषभवद्यस्मात्,तरमादृषभ उच्यते॥२॥" तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारो; गन्धवाहविशेष इत्यर्थः, अभाणि च - "वायुः समुत्थितो नाभेर्हदि कण्ठे समाहतः। नानागन्धवहः पुण्यो, गान्धारस्तेन हेतुना॥३॥" तथा मध्ये कायस्य भवो मध्यमः, यदवाचि"वायुः समुत्थिता नाभेरुरोहृदि समाहतः / नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते / / 4 / / " तथा पशाना षड्जा-दिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः, अथवा-पञ्चसुनाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, यदभ्यधायि- "वायुः समुत्थितो नाभेरुरोहृत्कण्ठशिरोहतःनवाऽक्षरो*यं पादः / पञ्चस्थानोत्थितस्यास्य, पश्चमतत्वं विधीयते / / 5 / / " तथाऽभिसन्धयतेऽनुसंधयति शेषस्वरानिति निरुक्तिवशालैंवतः, यदुक्तम्-- "अभिसंधयते यरमादेतान् पूर्वोदितस्वरान् / तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते॥६॥" पाठान्तरेण रक्तश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स निषादः, -यतोऽभिहितम्"गिषीदन्ति स्वरा यस्मिन्निषादस्तेन हेतुना / सर्वाश्चाभिभवत्येव, यदादित्योऽस्य दैवतमत्॥७॥” इति, तदेवं स्वराः-जीवाजीवनिश्चितध्वनिविशेषाः 'सत्तवियाहिय' त्ति विविधप्रकारैराख्यातास्तीर्थकरगणधरैरिति श्लोकार्थः / आह-ननु कारणभेदेन कार्यस्य भेदात् स्वराणां च जिहादिकारणजन्यत्वात् तद्वतां च द्वीन्द्रियादित्रसजीवानामसंख्येयत्वाज्जीवनिसृता अपि तावत् स्वरा असंख्याताः प्राप्नुवन्ति किमुताजीवनिसृता इति कथं सप्तसंख्या नियमो न विरुध्यत इति? अत्रोच्यते, असङ्घ यातानामपि स्वरविशेषाणामतेष्येव सप्तसु सामान्यस्वरेष्वन्तभर्भावाद बादराणां वा केषाश्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणादीतोपकारिणां विशिष्ट स्वराणां वक्तुमिष्टत्वाददोष इति / स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराहएएसिणं सत्तण्हं सराणं सत्तसरहाणा पण्णत्ता। तंजहा सजंच अग्गजीहाए, उरेण रिसह सरं। कंग्गएणं गंधारं, मज्झजीहाएमज्झिमं||२||