________________ सण्णा 305 - अभिधानराजेन्द्रः - भाग 7 संण्णाणपसंसा णेरइया सण्णी वि असण्णी वि नोसण्णी नोअसण्णी वि। एवं असुरकुमारा० जावथणियकुमारा। पुढविकाइयाणपुच्छा, गोयमा ! नो सण्णी असण्णी, नो नोसण्णी नो असण्णी, एवं बेइंदियतेइंदियचउरिंदिया वि मणुस्सा जहा जीवा पंचिंदियतिरिक्खजोणिया वाणमतराय जहाणेरड्या जोइसियवेमाणिया सण्णीनोअसण्णी,नो नोसन्नीनो असण्णी सिद्धाणं पुच्छा गोयमा! नो सण्णी नो असण्णी नोसण्णी नोअसण्णी / “णेरइयतिरियमणुया,य वणयरगसुराइसण्णीऽसण्णीय। विगलिंदिया असण्णी, जोइसवेमाणिया सण्णी॥१॥” (सू०३१५४) 'जीवा णं भंते ! किं सपणी' इत्यादि, संज्ञान संज्ञा--'उपसर्गादातः' / / 5 / 3 / 110 // इत्यजप्रत्ययः, भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते संझिनः, विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असज्ञिनः, ते च एकेन्द्रियविकलेन्द्रियसम्मच्छिमपञ्चेन्द्रिया वेदितव्याः। अथवा-संज्ञायते-सम्यकपरिच्छिद्यते पूर्वो पलब्धो वर्तमानो भावी च पदार्थो यया सा सज्ञाभिदादिपाठाभ्युपगमात् करणे घञ् विशिष्टा मनोवृत्तिरित्यर्थः, सा विद्यते येषां ते सज्ञिनः समनस्का इत्यर्थः / तद्विपरीता असंज्ञिनोऽमनस्का इत्यर्थः ते चैकेन्द्रियादय एवानन्तरोदिताः प्रतिपत्तव्याः। एकेन्द्रियाणां प्रायः सर्वथा मनोवृत्तेरभावात्,द्वीन्द्रियादीना तु विशिष्ट मनोवृत्तेरभावः,ते हि द्वीन्द्रियादयो वार्तामानिक मेवार्थ शब्दादिकं शब्दादिरूपतया सविदन्ति,न भूतं भाविन चेति / केवली सिद्धश्चोभयप्रतिषेधविषयः। केवली हि यद्यषि मनोद्रव्यसम्बन्धभाक् तथापि न तैरसौ भूतभवद्भाविभावस्वभावपर्यालोचनं करोति, किन्तु क्षीणसकल-ज्ञानदर्शनावरणत्वात् पर्यालोचनमन्तरेणैव के वलज्ञानेन के वलदर्शनेन च साक्षात्समस्तं जानाति पश्यति च, ततो न संज्ञी नाप्यसंज्ञी, सकलकालकलाकलापव्यवच्छिन्नसमस्तद्रव्यपर्यायप्रपञ्चसाक्षात्कारणप्रवणज्ञानसमन्वितत्वात् / सिद्धोऽपि न संज्ञी,द्रव्यमनसोऽप्यभावात्, नाप्यसंज्ञी सर्वज्ञत्वात्, तवेदं सामान्यतो जीवपदे संझिनोऽसंज्ञिनो नोसंझिनोअसंज्ञिनश्च लभ्यन्ते इति भगवान् तथैव प्रतिसमाधानमाह'गौतमे' त्यादि, जीवाः सज्ञिनोऽपि नैरयिकादीनां संज्ञिनां भावाद्, असंज्ञिनोऽपि पृथिव्यादीनामसंज्ञिनां भावात्. नोसंज्ञिनोअसंज्ञिनोऽपि सिद्धके वलिना नोसंज्ञि-नो असं झिनामपि भावात् / एताने व चतुर्विशतिदण्डकक्रमेण चिन्तयति- 'नेरइया ण' मित्यादि, इह ये नैरयिकाः संज्ञिभ्य उत्पद्यन्तेते संज्ञिनो व्यवयिन्ते इतरेत्वसंज्ञिनः नच नैरयिकाणां केवलिभावो घटते, चारित्रप्रतिपत्तेरभावात्,तत उक्तं नैरयिकाः संज्ञिनोऽप्यसंज्ञिनोऽपि, नो नोसंज्ञिनो नो असंज्ञिनः, एवमसुरकु मारादयोऽपि स्तनितकु मार-पर्यवसाना भवनपतयो वक्तव्याः, तेषामप्यसंज्ञिनोऽप्युत्पादात् केवलित्वाभावाच्च / 'मणूसा जहा जीव' ति-मनुष्याः प्राक् यथा जीवा उक्तास्तथा वक्तव्याः, संज्ञिनोऽपि असज्ञिनोऽपि नोसंज्ञिनोअ-संज्ञिनोऽपि वक्तव्या इति भावः / तत्र ये गर्भव्युत्क्रान्तास्ते संज्ञिनः सम्मूञ्छिमा असंज्ञिनः केवलिना नोसंज्ञिनो असंज्ञिनः, 'पंचिंदिय-तिरिक्खजोणियवाणमंतरा जहा नेरइया' इति-पञ्चेन्द्रियतिर्यग-योनिका व्यन्तराश्च यथा नैरयिका उक्तास्तथा वक्तव्याः, संज्ञिनोऽपि असंज्ञिनोऽपि नोसंज्ञि-नोअसंझिनो वक्तव्या इति भावः। तत्र पञ्चेन्द्रियतिर्यग्योनिकाः संमूर्षिछमा असंज्ञिनः गर्भव्युत्क्रान्ताः सज्ञिनः, व्यन्तरा असंज्ञिभ्य उत्पन्नाः असंज्ञिनः, संज्ञिभ्य उत्पन्नाः संज्ञिनः / उभयेऽपि चारित्रप्रतिपत्तेरभावावात् नो संज्ञिनोअसंज्ञिनः / ज्योतिष्क-वैमानिका संज्ञिन एव नोअसंज्ञिनः संज्ञिभ्य उत्पादाभावान्नो नोसंज्ञि-नो असंज्ञिनश्चारित्रप्रतिपत्तेर-भावात्, सिद्धास्तु प्रागुक्तयुक्तितो नो संझिनो नाप्यसज्ञिनः किंतु-नोसंझिनोअसंज्ञिनः / अत्रैव सुखप्रतिपत्तये संग्रहणिगाथा-माह- 'नरइए' इत्यादि, नैरयिकाः 'तिरिय' त्ति-तिर्यक् पञ्चेन्द्रियाः मनुष्या वनचरा व्यन्तरा असुरादयः-समस्ता भवनपतयः प्रत्येकं संझिनोऽसंज्ञिनश्च वक्तव्याः, एतद्यानन्तरमेव भावितम्। विकलेन्द्रिया एकद्वित्रिचतुरिन्द्रिया असंज्ञिनो ज्योतिष्कवैमानिकाः संज्ञिन इति। प्रज्ञा०३१ पद। प्रव० / संकेते, नि० चू० 2 उ०। विषयाभिष्वङ्ग जनितसुखेच्छायाम्, परिगहसंज्ञायां च / आचा०१ श्रु०२ अ०६ उ०। ('वणप्फई' शब्दे षष्ठ भागे 808 पृष्ठे उत्पलादिवनस्पतीनां संज्ञाद्वारम्।) (सामायिकसयतादयः किं संज्ञोपयुक्ताः इति 'संजय' शब्देऽस्मिन्नेव भागे६६ पृष्ठे गतम्।) (निर्ग्रन्थाना संज्ञाद्वारम् 'णिग्गंथ' शब्दे चतुर्थभागे 2045 पृष्ठे उक्तम्।) (विप्रकृष्टष्वपि विषयेषु अविरतेः कर्मबन्धो भवतीति प्रतिपादनात् संज्ञयसंज्ञिदृष्टान्ता 'पराक्खाण' शब्दे 5 भागे 111 पृष्ठे उक्तौ / ) समयपरिभाषया पुरीपोत्सर्गे , 50 व० 1 द्वार (थंडिल शब्द चतुर्थभागे 2380 पृष्ठे तद्विधिरुक्तः।) *स्वर्णा स्त्री० उज्जयन्तशैले स्वनामख्यातायां नद्याम,ती०३ कल्प। (गाथा 'उज्जयंत' शब्दे द्वितीयभागे 735 पृष्ठे।) सण्णाकरण न० (संज्ञाकरण) संज्ञाविशिष्ट करणं संज्ञाकरणम्। सङ्केतकरणे, विशे०। आ० म०। सण्णाखंध पुं० (संज्ञास्कन्ध) संज्ञानिमित्ताऽवग्रहणात्मके प्रत्यये. सूत्र० 1 श्रु०१०१ उ०। सण्णाण न० (संज्ञान) सम्यग्ज्ञाने, षो०१३ विव०। उपयोगे अवधाने, आव०६ अ० / स्मृतावबोधे, आचा०१ श्रु०१ अ० 1 उ० / संज्ञा व्यञ्जनावग्रहोत्तरकालभवे मतिविशेषे, स्था०१ ठा०। *स्वज्ञान न० स्वगतबोधे, पञ्चा० 12 विव०। संण्णाणपसंसा रत्री० (संज्ञानप्रशंसा) संज्ञानप्रशंसनमिति सद अविपर्यस्तं ज्ञानं यस्य स सज्ञानः पण्डितो जनः, सतो वा ज्ञानस्य सविवेचनलक्षणस्य प्रशंसन पुरस्कार इति। विद्वजनप्रशंसायाम, ध०। "तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः,