________________ संकम 8 - अभिधानराजेन्द्रः - भाग 7 संकम आधारभूतायां तत्प्रकृत्यन्तरस्थं दलिकं परिणमयति आधारभूतप्रकृतिरूपतामापादयति एषा प्रकृतिराधारभूता पतद्ग्रह इत्युच्यते / पतद्ग्रह इव पतद्ग्रहः संक्रम्यमाणप्रकृत्याधार इत्यर्थः / संक्रमलक्षणं च प्रागुक्तमितिप्रसक्तमिति तत्रापवादमाहमोहदुगाउगमूल-प्पगडीण न परोप्परम्भि संकमणं / संकमबंधुदउव्व-ट्टणा (णव) लिगाईण करणाइं / / 3 / / 'मोह' ति मोहद्विक-दर्शनमोहनीयं, चारित्रमोहनीयं च। तयोः पररम्हपर संक्रमो न भवति। तथाहि-नदर्शनमोहनीय चारित्रमोहनीये संक्रमयति, चारित्रमोहनीयं वा दर्शनमोहनीये / तथा आयूषि चत्वार्यपि न परस्पर संक्रमयति, नापि मूलप्रकृतीः परस्पर संक्रमयति। तथाहि-न ज्ञानावरणीये दर्शनावरणीय संक्रमयति, नापिदर्शनावरणीये ज्ञानावरणीयम्। एवं सर्वास्वपि मूलप्रकृतिषु भावनीयम्। अपि च-यस्मिन् दर्शनमोहनीये यो जन्तुरवतिष्ठते, स तदन्यत्रन संक्रमयति। यथा मिथ्यादृष्टिमिथ्यात्वम्, सम्य-ग्मिथ्यादृष्टिः सम्यग्मिथ्यात्वम्, सम्यग्दृष्टिः सम्यक्त्वम, तथा सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शनमोहनीय कापि संक्रमयन्ति, अविशुद्धदृष्टित्वात् / बन्धभावे हि दर्शनमोहनीयस्य संक्रमो विशुद्धदृष्ट रेव भवति, नाविशुद्धदृष्टः / अन्यच्च-परप्रकृतिसंक्रान्तं दलिकमावलिकामात्रं कालं यावदुद्वर्तनादिसकलकरणायोग्यमवगन्तव्यं, न केवलं संक्रान्तमपि तु बन्धाद्यावलिकागतमपि। तथाचाह- 'संको त्यादि संक्रमावलिकागतम, बन्धावलिकागतम्, उदयावलिकागतम, उद्धर्तनावलिकागतम्, आदिशब्दादुपशान्तं मोहनीय दर्शनमोहनीयत्रिकरहितमित्येतानि सर्वाण्यप्यकरणानि सकलकरणायाग्यान्यवसैयानि / दर्शनत्रिकं तूपशान्तमपि संक्रमयति। तदेवं लक्षणापवादोऽभिहितः। सम्प्रति क्रमेणोत्क्रमेण वा विशेषण (षण) संक्रमे प्राप्ते सति नियममाहअंतरकरणम्मि कए, चरित्तमोहेऽणुपुट्विसंकमणं / अन्नत्थ सेसिगाणं, च सव्वहिं सव्वहा बंधे / / 4 / / 'अंतरकरणम्मि' त्ति अन्तरकरणविधिग्रे उपशमनाकरणाभिधानावसरे प्रतिपादयिष्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीयोपशमनार्थमकविशतेः प्रकृतीनाम, क्षपक श्रेण्या पुनः कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्तरकरणे कृते सति, चारित्रमोहे पुरूषवेदसंज्वलनचतुष्टयलक्षणे / अत्र हि चारित्रमोहनीयग्रहणेनेता एव पञ्च प्रकृतयो गृह्यन्ते, न शेषाः बन्धाभायात्। तत्रानुपूर्वीपरिपाट्या संक्रमणं भवति, न त्वनानुपूर्व्या। तथाहि-पुरूषवेद सज्वलनक्रोधादावेव संक्रमयति नान्यत्र। संज्वलनक्रोधमपि संज्वलनमानादावेव न तु पुरूषवेदे / संज्वलनभानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादौ / संज्वलनमायामपि संज्वलनलोभे एव, न तु संज्वलनमानादाविति / 'अन्नत्थ त्ति अन्तरकरणादन्यत्र पञ्चानामपि पुरूषवेदादिप्रकृतीनां शेषाणां पुनः प्रकृतीनाम्। | 'सव्वहि' ति सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वा इत्यर्थः / सर्वैःप्रकारैः क्रमेणोत्क्रमेण वा संक्रमोऽवगन्तव्यः / किं सर्वदैव ? नेत्याह-बन्धे बन्धकाले, न त्वन्यदा यथोक्तं प्राक् / तदेवं संक्रमस्य सामान्यलक्षणविधिरपवादो नियमश्वोक्तः। संप्रति यदुक्तं यस्याः प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंक्रमणं प्रति पतद्ग्रह इति तत्रापवादमाहतिसु आवलियासु समऊ-णियासु अपडिग्गहा उ संजलणा। दुसु आवलयासु पढम-ठिइए सेसासु वि य वेदो।।५।। “तिसु' ति-अन्तरकरणे कृते प्रथमस्थितौ, तिसृष्वावलिकासु. समयोनासु सतीषु चत्वारोऽपि संज्वलना अपतद्ग्रहाः, पतद्ग्रहा न भवन्ति / एतदुक्तं भवति-चतुलपि संज्वलनेषु प्रथमस्थिता तिसृष्वावलिकासु समयोनावलिकात्रिकशेषायां सत्यां बध्यमानेष्वपि नान्यत्प्रकृत्यन्तरदलिकं तेषु संक्रामति, तेन तदानीमपतद्ग्रहाः / तथाऽतरकरणे कृते सति द्वयोरावलिकयोःप्रथमस्थितिसत्कयोः समयोनयोः सत्योर्वेदः पुरूषवेदः पतद्ग्रहो न भवति, न किमपि तत्र प्रकृत्यन्तरदलिक संक्रामतीत्यर्थः / वेदश्वेह पुरूषवेद एव द्रष्टव्यः,ने स्थीनपुंसकवेदौ, तदानीं तयोर्बन्धाभावादेवापतद्ग्रहत्वसिद्धेः ।अपि चमिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वस्य मिथ्यात्वसम्यग्मिथ्यात्वयोश्च क्षपितयोः सम्यक्त्वस्योदलितयोस्तु सम्यक्त्यसम्यगमिथ्यात्वयोर्मिथ्यात्वस्यापतद्ग्रहताऽनुक्ताऽपि द्रष्टव्या, न खलु तत्रापि किंचित संक्रामतीति। संप्रति साधनादिप्ररूपणामाहसाइअणाईधुवअ-धुवा य सव्वधुवसंतकम्माणं / साइयधुवा य सेसा, मिच्छावें यणीयनीएहिं / / 6 / / 'साई' ति सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरोकच्चैर्गोत्रलक्षणाश्चतुर्विंशतिप्रकृतयोऽधुवसत्कर्माण आयुश्चतुष्टयं च ।शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म / ततोऽपि साताऽसातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं चतुष्टयमपनीयते। ततः शेषस्य षड् विंशत्युत्तरप्रकृतिशतस्य साद्यादिरूपतया चतुर्विधोऽपि संक्रमो भवति / तथाहि-अमूषां ध्रुवसत्प्रकृतीनां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमोन भवति / ततः पुनरपितासां संक्रमविषयप्राकृतीनां स्वबन्धहेतु-सम्पर्कतो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्वन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, अभव्यस्य ध्रुवः कदाचिदपि व्यवचछेदाभावात्, भव्यस्य पुनरध्रुवः कालान्तरे व्यवच्छेदसम्भवात् / शेषाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्कर्माणो मिथ्या-त्ववेदनीयनीचैर्गोत्रः सह साद्यध्रुवाः-साद्यध्रुवसंक्रमाअवगन्तव्याः। तथाहि-अध्रुवसकर्मणामध्रुवसत्कर्मत्वादेव संक्रमः सादिरध्रुवश्चावगन्तव्यः, सातासातवेदनीयनीचैर्गोत्राणांतुपरावर्तमानत्वात्। मिथ्यात्वस्थपुनः संक्रमौविशुद्धसम्यगदृष्टः, विशुद्धसम्यग्दृष्टित्वंच कादाचित्कं,ततस्तस्याऽपि संक्रमः साद्यध्रुवएव।