________________ समाहि 426 - अभिधानराजेन्द्रः - भाग 7 समाहि चेतः स्वास्थ्ये, स०३२ सम० / आचा० / आ० चू०। आव० / धo नीरोगतायाम्, व्य०१ उ०। उत्त० / इन्द्रियप्रणिधाने, आचा०१ श्रु०६ अ०४ उ०ायोगे उत्त०२ उ०।धर्मध्यानादिके, सूत्र०१श्रु०२ अ०३ उ०। सम्यगवस्थाने, सूत्र० 1 श्रु० 14 अ० / सम्य-ग्दर्शनादिकायां मोक्षपद्धती, सूत्र०१ श्रु० 13 अ०। प्रशमवाहि-तायां ज्ञानादो च। स्था० 4 ठा०१ उ० / एकाग्रे निरुद्ध चित्ते स-माधिरिति / द्वा० 11 द्वा० / ज्ञानदर्शनचारित्रात्मके चित्तरवास्थ्ये, आचा०१ श्रु०५ अ०५ उ०। प्रशस्तभावे, स्था०२ ठा०३ उ० / समाधानं समाधिः, स च द्रव्यभावभेदात द्विविधः / तत्र द्रव्यस-माधिर्यदुपयोगात् स्वास्थ्यं भवति, येषां वा विरोध इति, भावस-माधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययो-गादिति, यतश्वायमित्थं द्विधा, अतो द्रव्यसमाधिव्यवच्छेदार्थ-माह-वर-प्रधानं भावसमाधिमित्यर्थः, (ददतु / आव०२ अ०। प्रव० / सन्मार्गानुष्ठाने, ध०३ अधि० / द्वा० / प्रशान्तवाहिता वृत्तेः,संस्कारात् स्यान्निरोधजात्। प्रादुर्भाव-तिरोभावौ, तद्व्युत्थानजयोरयम्।।२३।। प्रशान्तति-प्रशान्तवाहिता परिहृतविक्षेपतया सदृश प्रवाहपरि... जामिता, वृत्तेर्वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात, तदाह - "तस्य प्रशान्तवाहिता संस्कारात्" (3-10) / कोऽयं ? निरोध एवेत्यत आह- तदव्युत्थानजयो निरोधजव्युत्थानजयोः संस्कारया: प्रादुर्भावतिरोवाभौ-वर्तमानाध्वाभिव्यक्तिकार्य-करणासामथ्यविस्था नलक्षणी, अयं निरोधः चलत्वेऽपि गुणवृत्तस्योक्तोभयक्षयवृत्तित्वान्वयेन चित्तस्य तथाविधस्थैर्य-मादाय निरोधपरिणामशब्दव्यवहारात् / तदुक्तम्- "व्युत्थाननि-रोधसंस्कारयोरभिभवप्रादुर्भावी निराधक्षणचित्ताऽन्वयो निरोध-परिणाम" इति (3-6) / सर्वार्थतैकाग्रतयोः, समाधिस्तु क्षयोदयौ। तुल्यावेकाग्रताशान्तो-दितौ च प्रत्ययाविह॥२४॥ सर्वार्थतति-सर्वार्थता--चलत्वान्नानाविधार्थग्रहणम्:चित्तस्य विक्षेपो - धर्मः; एकाग्रता-एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामिता तयोः क्षयोदयाँ तु अत्यन्ताभिभवाभिव्यकि लक्षणी, समाधिरुद्रिक्तसत्त्वचित्तान्वयितयाऽवस्थितः; समाधिपरिणामोऽभिधीयते / यदुक्तम् - "सर्वार्थतैकाग्रतयोः क्षयोदयाँ चित्तस्य समाधिपरिणामः” इति (311) / पूर्वत्र विक्षेपस्याभिभवमात्रम्, इह त्वत्यन्ताभिभवोऽनुत्पत्तिरूपीऽतीताध्वप्रवेश इत्यनयोर्भेदः / इहा-धिकृतदर्शने तुल्यावेकरूपालम्बनत्वेन सदृशौ शान्तोदिती अतीताध्वप्रविष्टवर्तमानाध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता उच्यते समाहितचित्तान्वयिनी। तदुक्तम्"शान्तोदिती हि तु (तो तु) ल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः" (312) / नचैव-मन्वयव्यतिरेकवस्त्वसंभवः, यतोऽन्यत्रापि धर्मलक्षणावस्थापरिणामा दृश्यन्ते / तत्र धर्मिणः पूर्वधर्मनिर्वृत्तावुत्तरधर्मापत्तिध - र्मपरिणामः, यथा-मल्लक्षणरय धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः। लक्षणपरिणामश्च यथा-तस्यैव घट-स्यानागताऽध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः। अवस्थापरिणामश्च यथा- तस्य घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन चलगुणवृत्तीनां गुणपरिणामनं धर्मीय शान्तोदितषु शवितरूपेण स्थितेषु सर्वत्र सर्वात्मकत्यव्यपदेशेषु धर्मेषु कथचिदिन्नप्वन्वयी दृश्यते, यथा-पिण्डघटादिषु मृदेव प्रतिक्षणमन्यान्यत्वाद्विपरिणाभान्यत्वम् / तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते, यथासुखादयः संस्थानादयो वा। केच्चिानुमानगम्या, यथा-कर्मसंस्कारशवितप्रभृतयः / धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः / तदिदमुक्तम्- "एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याः” (3-13) / “शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी" (3-14) "क्रमान्यत्वं परिणामान्यत्वे हेतु-रिति” (3-15) // 24 // (द्वा०) (25 श्लोकः 'सप्पवित्तिप-यावहा' शब्देऽस्मिन्नेव भागे गतः1) (26 श्लोकः 'परा' शब्दे पञ्चमभागे 546 पृष्ठे गतः।) स्वरूपमात्रनिर्भासं, समाधियानमेव हि। विभागमनतिक्रम्य, परे ध्यानफलं विदुः / / 27|| स्वरूपेति-स्वरूपमात्रस्य ध्येयस्वरूपमात्रस्य निर्भासो यत्र तत्तथा। अर्थाकारसमावेशेन भूतार्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यतापत्तेः ध्यानमेव हि समाधिः / तदुक्तम्-"तदवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति। (3-3) विभागमाङ्गो योगः इति प्रसिद्धमनतिक्रम्यानुल्लङ्घय परे ध्यानफलं समाधिरिति विदुः / निराचारपदो ह्यस्या-मतः स्यान्नातिचारभाक् / चेष्टा चास्याखिलाभुक्त--भोजनाभाववन्मता॥२८॥ निराचारेति-अस्या दृष्टौ योगी नातिचारभाक् स्यात् तन्निबन्धनाभावात् / अतो निराचारपदः प्रतिक्रमाद्यभावात्, चेश चास्यैतददृष्टिमतोऽखिलाभुक्तभोजनाभाववन्मता आचारजेयकर्मा-भायात्, तस्य भुक्तप्रायत्वात, सिद्धत्वेन तदिच्छाविघटनात्। कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आहरत्नशिक्षादृगन्या हि, तन्नियोजनदृग्यथा। फलभेदात्तथाचार-क्रियाऽप्यस्य विभिद्यते // 26 / / रत्नेति-रत्नशिक्षादृशोऽन्या हि यथा शिक्षितस्य सतस्तन्नियाजनदृक्, तथाऽऽचारक्रियाऽप्यस्य भिक्षाटनादिलक्षणफलभेदाद्विभिद्यते / पूर्व हि साम्परायिककर्मक्षयः फलम्, इदानीं तु भवापग्राहिकर्मक्षय इति। कृतकृत्यो यथा रत्न-नियोगाद्रत्नविद्भवेत् / तथाऽयं धर्मसंन्यास-विनियोगान्महामुनिः।।३०।। कृतकृत्य इति-यथा रत्नस्य नियोगात् शुद्धदृष्ट्या यथच्छव्यापाराणिग् रत्नवाणिज्यकारि कृतकृत्यो भवेत् तथाऽयमधिकृतदृष्टिस्थ धर्मसंन्यासविनियोगात द्वितीयापूर्वकरणे महामुनिः कृत-कृत्यो भवति। केवलश्रियमासाद्य, सर्वलब्धिफलान्विताम्। परंपरार्थ संपाद्य, ततो योगान्तमश्नुते // 31|| के वले ति-के वल श्रियं के वल ज्ञानलक्ष्मीमासाद्य-प्राप्य सर्वल-ब्धिफलान्वितां सर्वोत्सुक्यनिवृत्त्या परंपरार्थ यथा भव्यं सम्य-क्त्वादिलक्षणं संपाद्य ततो योगान्त-योगपर्यन्तमश्नुते