________________ संवच्छर 232 - अभिधानराजेन्द्रः - भाग 7 संवच्छर म्प्रति पर्यवसानसमयं पृच्छति- 'ता सेणं' इत्यादि, ता इति पूर्ववत्, स प्रथमश्चान्द्रसंवत्सरः किं पर्यवसितः-किं पर्यवसान आख्यात इति वदेत्? भगवानाह- 'ताजे ण' मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादिः-आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः-अतीतसमयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः, 'तं समयं च ण' मित्यादि, तम्मिश्चान्द्रसंवत्सरपर्यवसानभूते समये चन्द्रः केन नक्षत्रेण सह योग युनक्ति-करोति ? भगवानाह– 'ता उत्तराहि' इत्यादि, इह द्वादशभिः पौर्णमासीभिश्चान्द्रः संवत्सरो भवति, ततो यदेव प्राक् द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाण चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम्, तथैव गणितभावना कर्तव्या, एवं शेषसंवत्सरगतान्यादिपर्यवसानसूत्राणि भावनीयानि यावत्प्राभृतपरिसमाप्तिः, नवरं गणितभावना क्रियते-तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विशतितमपौर्णमासीपरिसमाप्तौ, तत्र ध्रुवराशिः षट्षष्टिमुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः 66-5-1 इत्येवं प्रमाणश्चतुर्वि-शत्या गुण्यते, जातानि पादश शतानि चतुरशीत्यधिकानि मुहूर्ताना मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतमेकस्य च द्वाषष्टिभागस्य चतुर्विशतिः सप्तषष्टिभागाः 1584 / 120 / 24 // तत एतस्मादष्टभिः मुहूर्तशतै रे कोनविंशत्यधिकै रेक स्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्त-षष्टिभागैरेकः परिपूर्णो नक्षत्रपर्यायः शुद्ध्यति.ततः स्थितानि पश्चात्सप्त मुहूर्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तगतानां च द्वाषष्टिभागानां पञ्चनवतिरेकस्य च द्वाषाष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः 765 / 65 / 25 / ततो 'मूले सत्तेव चोयाला' इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंशदधिकै - मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्त-षष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शुद्धानि, ततः स्थिताः पश्चात् द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्त्तस्याष्टो द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट् विशतिः सप्तषष्टिभागाः / / 22 / 666 / / तत आगतं द्वितीयचान्द्रसंवत्सरस्य पर्यवसानसमये पूर्वाषाढानक्षत्रस्य सप्त मुहूर्त्ता एकस्य च मुहूर्तस्य त्रिपक्षाशद् द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य एकचत्वारिंशत् सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण युक्तस्य पुनर्वसोर्टाचत्वारिंशद् मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशत् द्वाषष्टिभागा एकस्य चद्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथाहि-स एव ध्रुवराशिः 166 / 5 / 15 चतुर्विशत्या गुणितो जातानि पञ्चदश शतानि चतुर-शीत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तर शतम् एकस्य च द्वाषष्टिभागस्य चतुर्विशतिः सप्तषष्टिभागाः / / 1584 // 120 / 24 तत एतस्मादष्टभिः शतैरेकोनविंशत्यधि-कैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैः / / 816 / 24 / 66 / / एकः परिपूर्णो नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चात् / सप्तमुहूर्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तानामेकमुहूर्तगताश्च द्वाषष्टिभागाः पशनवतिः एकस्य च द्वाषष्टिभागस्य पशाविंशतिः सप्तषष्टिभागाः 7656525 // तत एतेभ्य एकोनविंशत्या मुहूर्तरेकस्य च मुहूर्त-स्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रि-शता सप्तषष्टिभागैः पुष्यःशुद्धः, स्थितानि पश्चान्मुहूर्तानां सप्त शतानि षट्चत्वारिंशदधिकानि एकस्य च मुहूर्तस्य एकपञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यैकोनषष्टिः सप्तषष्टिभागाः 746 / 51 / 56 / ततो भूयोऽप्येतस्मात् सप्तभिर्मुहूर्तशतैश्चतुश्चत्या-रिंशदधिक रेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि शुद्धानि, स्थितौ पश्चाद् द्वौ मुहूर्तावकस्य च मुहूर्तस्य षड्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षष्टिः सप्तषष्टिभागाः / 26 / 60 / आगतं द्वितीयचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य द्वाचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथा तृतीयाभिवर्द्धितसंज्ञसवत्सरपरिसमाप्तिः सप्तत्रिंशता पौ भासीभिस्ततो ध्रुवराशिः 66 / 5 / 1 / सप्तत्रिंशता गुण्यते,जातानि मुहूर्तानां चतुर्विशतिः शतानि द्वाचत्वारिंशदधिकानि द्वाषष्टिभागानां च पञ्चाशीत्यधिकं शतं सप्तषष्टिभागाः सप्तत्रिंशत् 2442 / 185 / 37 / तत एतेभ्योऽष्टी मुहूर्तशतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिःसप्तषष्टिभागा इत्येकनक्षत्रपर्यायपरिमाणं द्वाभ्या गुणयित्वा शोध्यते,ततः स्थितानि पश्चादष्टौ मुहूर्तशतानि चतुरुत्तराणि मुहूर्तसत्कानां च द्वाषष्टिभागानां पञ्चत्रिंशदधिकं शतम् एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः। 804 / 135 / 36 / तत एतेभ्यः सप्तभिर्मुहूर्तशतश्चतुःसप्तत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकरयच द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चादे क त्रिंशन्मुहूता रकस्य च मुहूर्त्तस्याष्टचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चत्वारिंशत्सप्तषष्टिभागाः 31 / 48/40 / तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य त्रयोदश मुहूत्ता एकस्य च मुहूर्तस्य त्रयोदश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः, शेषाः, तदानीं च सूर्येण सम्प्रयुक्स्य पुनर्वसुनक्षत्रस्य द्वी मुहूर्ती एकस्य च मुहूर्तस्य षट्पञ्चाशद्वाषष्टिभागाः, एकं च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्काः षष्टिश्चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः 66 / 5 / 1 / सप्तत्रिंशता गुण्यते, जातानि मुहूर्ताना चतुर्विशतिः शतानि वाचत्वारिंशदधिकानि मुहूर्तसत्कानां च द्वाषष्टिभागानां पञ्चाशीत्यधिक शतम् / एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः 2442 / 185 / 37 / तत एतेभ्यः पूर्ववत् सकलनक्षत्रपर्यायपरिमाणं द्विगुणं कृत्वा शोध्यते स्थितानि पश्चादष्टी मुहूर्तशतानि चतुरुत्तराणि मुहूर्त सत्कानां द्वापष्टिभागानां पञ्चत्रिंश