________________ संलेहणा 221 - अभिधानराजेन्द्रः - भाग 7 संलेहणा एअस्स पहावेणं, पालिजंतस्स सइ पयत्तेणं। जम्मंतरे विजीवा, पावंतिण दुक्खदोगच्च / / 1567|| एतस्य प्रभावेण धर्मयानस्य पाल्यमानस्य सदा सर्वकाल प्रयत्नेनविधिना जन्मान्तरेऽपि जीवाः--प्राणिनः प्राप्नुवन्ति न, किमित्याहदुःखप्रधानं दौर्गत्यं दुर्गतिभावमिति गाथार्थः। चिंतामणी अपुव्वो, एयमपुव्वोय कप्परुक्खो त्ति। एअंपरमो मंतो, एअंपरमामयं एत्थ।।१५६८|| चिन्तामणिरपूर्वोऽचिन्त्यमुक्तिसाधनादेतद्धर्मयानम्, अपूर्वश्च कल्पवृक्ष इत्यकल्पितफलदानात्, एतत्परमो मन्त्रो रागादिविषघातित्वात्, एतत्परमामृतमत्रामरणाबन्ध्यहेतुत्वादिति गाथार्थः। इच्छं वे आवडिअं, गुरुमाईणं महानुभावाणं।। जेसिपहावेणेअ, पत्तं तह पालिअंचेव॥१५६६। इच्छामि वैयावृत्त्यं सम्यग गुर्वादीना, महानुभावानाम् आदिशब्दात्सहायसाधुग्रहः,येषां प्रभावेणेदं धर्मयानं प्राप्तं मया, तथा पातित चैवाविनेनेति गाथार्थः। तेसि णमो तेसि णमो, भावेण पुणो पुणो वितेसि णमो। अणुवकयपरहिअरया, जे एयं दिति जीवाणं / / 1600|| तेभ्यो नमः, तभ्यो नमः, भावेन अन्तःकरणेन पुनरपि तेभ्यो नम इति त्रिर्वाक्यम् / अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्मयानमिति गाथार्थः। नो इत्तो हिअमण्णं, विजइ भुवणे वि भव्वजीवाणं। जाअइ अओ वि अजओ, उत्तरणं भवसमुद्दाओ।।१६०१।। नाता धर्मयानाद्धितमन्यद्वस्तु विद्यते भुवनेऽपि त्रैलोक्येऽपि भव्यजीवानाम, कुत इत्याह-जायते अत एव धर्मयानाधत उत्तरणं भवसमद्रादिति गाथार्थः। एत्थ उसव्वे ठाणा, तहण्णसंजोगदुक्खसयकलिआ। रोद्दाऽणुबंधजुत्ता, अचंत सव्वहा पावा॥१६०२|| अत्र तु भवसमुद्रे सर्वाणि स्थानानि देवलोकादीनि तथाऽन्यसंयोगदुःखशतकलितानि योगावसाने विमानादीनि संयोगदुःखानीति प्रतीतम्, अत एव रौद्रानुबन्धयुक्तानि विपाकदारुणत्वादत्यन्तं सर्वथा पापान्यशोभनानीति गाथार्थः। किं एत्तो कट्ठयर, पत्ताणं कहिंचि मणुअजम्मम्मि। जं इत्थ वि होइ रई, अचंतं दुक्खफलयम्मि / / 1603 / / किमतः कष्टतरमन्यत्प्राप्तानां कथंचित्कृच्छ्रण मनुजजन्मन्यपि यदत्रापि भवति रतिः संसारसमुद्रे अत्यन्तं दुःखफलदे यथोक्तन्यायादिति नाथार्थः। भावनान्तरमाहतह चेव सुहुमभावे, भावइ संवेगकारए सम्म / पवयणगब्भभूए, अकरणनिअमाइसुद्धफले // 1604 / / तथैव सूक्ष्मभावान्-निपुणपदार्थान् भावयति / संवेगकारकान्प्रशस्तभावजनकान् सम्यग् विधानेन प्रवचनगर्भभूतान सारभूता-- नित्यर्थः, अकरण नियमादिशुद्धफलान्-आदिशब्दादनुबन्धहासपरिग्रह इति गाथार्थः। परसावज्जच्चावण-जोएणं तस्स जो सयं चाओ। संवेगसारगुरुओ, सो अकरणणियमवरहेऊ॥१६०५।। परसावद्यच्यावनयोगेन-व्यापारेण तस्य यः स्वयं त्यागः सावद्यस्य, किंभूत इत्याह-संवेगसारगुरु:-प्रशस्तभावप्रधानः स सावद्यत्यागोऽकरणनियमवरहेतुः पापाऽकरणस्याबन्ध्यहेतुरिति गाथार्थः। परिसुद्धमणुट्ठाणं, पुव्वावरजोगसंगयं जंतं। हेमघडत्थाणी,सयाऽवि णिअमेण इट्ठफलं॥१६०६।। परिशुद्धमनुष्टानं समयशुद्ध पूर्वापरयोगसंगतं यत् त्रिकोटीशुद्ध तत् हेमघटस्थानीय वर्तते, सदाऽपि नियमेनेष्टफलमपवर्गसाधनानुबन्धीति गाथार्थः। जंपुण अप्पडिसुद्धं, मियमयघडतुल्लमोतयं णे फलमित्तसाहगं चिअ,ण साणुबंधे सुहफलम्मि।।१६०७।। यत्पुनरपरिशुद्धं समयनीत्या मृन्मयघटतुल्यमसारं हि तत् ज्ञेयं फलमात्रसाधकमेव, यथा कथंचिन्न सानुबन्धे शुभफले इतरवदिति गाथार्थः। धम्मम्मि अअइआरे,सुहमेणाभोगसंगए वित्ति। ओहेण चयइ सव्वे,गरहापडिक्खभावेण।।१६०८|| धर्मे चातिचारानपवादान् सूक्ष्मान्-स्वल्पान् अनाभोगसंगतानपि कथंचिदोघेन त्यजति सर्वान सूत्रनीत्या गहाँप्रतिपक्षभावेन हेतुनेति गाथार्थः। सो चेव भावणाओ, कयाइदुलसिअविरिअपरिणामो। पावइसेटिं केवलमेव मओ णो पुणो मरई॥१६०६।। स चैव भावनातः सकाशात् कदाचिदुल्लसितवीर्यपरिणामःसंप्राप्नोति श्रेणिं तथा केवलम् / एवं मृतकेवलाप्त्या न पुनर्मियते कदाचिदपीति गाथार्थः। जइविन पावइ सेटिं, तहाऽवि संवेगभावणाजुत्तो। णिअमेण सुगइँ लहइ, तहाय जिणधम्मबोहिं च।।१६१०|| यद्यपिन प्राप्नोति श्रेणिं कथमपि संवेगभावनायुक्तः, यन्नियमेन सुगति लभते अन्यजन्मनि, तथा जिनधर्मबोधिं च लभत इति गाथार्थः। एतदेवाहजमिहसुहभावणाए, अइसयभावेण भाविओ जीयो। जम्मंतरेऽवि जायइ, एवंविहभावजुत्तो अ॥१६११।। यत यस्मादिह शुभभावनया अतिशयभावेन भावितो जीवः सुवासित इत्यर्थः, जन्मान्तरेऽप्यन्यत्र जायते एवंविधभावयुक्तश्च शुभभावयुक्त इति गाथार्थः। एसेव बोहिलाभो, सुहभावबलेण जो उजीवस्स।