________________ संलेहणा 220 - अभिधानराजेन्द्रः - भाग 7 संलेहणा जुगवं तु खिविजंतं, उदग्गभावेण पायसो जीवं / चावइ सुहजोगाओ, बहुगुरुसेण्णं च सुद्दडं ति।।१५८२।। युगपत्तु क्षेप्यमाण तन्मांसादि उदग्रभावेण प्रचुरतया प्रायशो जीवं, किमत्याह-च्यावयति शुभयोगात् सकाशात् / किमिव कमित्याहबहुगुरुसैन्यमिव सुभटं च्यावयति जयादिति गाथार्थः। आहप्पवहणिमित्तं, एसा कह जुजई जइजणस्स। समभाववित्तिणो तह, समयत्थविरोहओ चेव॥१५८३।। आह-आत्मवधनिमित्तमेषा सलेखमा कथं युज्यते? यतिजनस्य समभाववृत्तेः सतः तथा सभतार्थविरोधतश्चैवेति गाथार्थः। विरोधमाहतिविहाऽतिवायकिरिया, अप्पपरोभयगया जओ भणिया। बहुसो अणिट्ठफलया, धीरेहि अणंतनाणीहिं॥१५८४|| त्रिविधा अतिपातक्रिया, कथमित्याह-आत्मपरोभयगता यतो भणिता समये बहुशोऽनिष्टफलदेय क्रिया धीरैरनन्तज्ञानिभिः सर्वज्ञ रिति गाथार्थः भण्णइ सच्चं एअं, ण उएसा अप्पवहणिमित्तंति। तल्लक्खणविरहाओ, विहिआणुट्ठाणभावेणं / / 1585 // भण्यते सत्यमेतत्रिविधातिपातक्रियेति, नत्वेषा संलेखना क्रिया आत्मवधनिमित्तेति / कुत इत्याह-तल्लक्षणविरहात-आत्मवधक्रियालक्षणविरहात्, विरहश्च विहितानुष्ठानभावेन हेतुनेति गाथार्थः। जा खलु पगत्तजोगा, णिअमा रागाइदोससंसत्ता। आणाउ बहिन्भूआ, सा होइ अइवायकिरिआ य॥१५८६।। या खलु प्रमत्तयोगात् सकाशात् नियमाद्रागादिदोषसंसक्ता स्वरूपतः आज्ञातो बहिर्भूता उच्छास्त्रा सा भवत्यतिपातक्रिया इदं लक्षणमस्या इति गाथार्थः। जा पुण एअविउत्ता, सुहभावविवड्डिणी अनियमेणं / सा होइ सुद्धकिरिया, तल्लक्खणजोगओ चेव / / 1587 / / या पुनरेतद्वियुक्ता क्रिया शुभभावविवर्द्धिनी च नियमेन अवश्यतया सा भवति शुद्धक्रिया कुतस्तल्लक्षणयोगत एवेति गाथार्थः। पडिवज्जइ अ इमं जो, पायं किअकिचिमो उ इह जम्मे। सुहमरणा कियकिचो,तस्सेसा जायइ जहुत्ता / / 1588 / / प्रतिपद्यते चैनां संलेखनालियां याः प्रायः स कृतकृत्य एवेह जन्मनि निष्ठितार्थः सुभमरणनात्र कृतकृत्यो यदि परं तस्यैषा जायते यथोक्ता संलेखना शुद्धक्रिया चेति गाथार्थः / मरणपडिआरभूआ, एसा एवं च ण मरणनिमित्ता। जह गंडछेअकिरिआ, णो आयविराहणारूवा!।१५८६।। मरणप्रतीकारभूतेषा एवं चोक्तन्यायान्न मरणनिमित्ता, यथा गण्डच्छेदक्रिया दुःखरूपाऽपि नामांवेराधनारूपेति गाथार्थः / अब्भत्था सुहजोगा, असंपन्ना पायसो जहासमयं / एसो इमस्स उचिओ, अमरणधम्मेहि निहिट्ठो / / 1560 // अभ्यस्ताः शुभयोगाः औचित्येन असंपन्नाः यथागमं प्रायशो यथासमयं यथाकालमेषोऽप्यस्य मरणं योगस्योचितः समयः, अमरणधर्माभिर्वी तरागनिर्दिष्टः सूत्रे इतिगाथार्थः।। यतश्चैवम्ता आराहेमु इमं, चरमं चरमगुणसाहगं सम्म। सुहभाव विवड्डी खलु, एवमिह पक्त्तमाणस्स।१५६१।। यतश्चैवं तत्-तस्मादाराधयामः-संपादयामः एनं चरम शुभयोग चरमगुणसाधकमाराधनानिष्पादक 'सम्यग' आगमनीत्या, शुभभाववृद्धिः खलु कुशलाशयवृद्धिरित्यर्थः / एवमिह संलेखनाया प्रवर्तमानस्य सत इति गाथार्थः / उचिएकाले एसा, समयम्मि विवण्णिआ जिणिंदेहि। तम्हा तओ ण दुट्ठा, विहिआणुट्ठाणओ चेव / / 1562 / / उचिते काले-चरमे 'एषा' संलेखना 'समयेऽपि' आगमेऽपि वर्णिता 'जिनेन्द्रः'तीर्थकरैर्यस्मात्तस्मान्न दुष्टाएषा। कुत इत्याह--विहितानुष्ठानत एव शास्त्रोक्तत्वादिति गाथार्थः / भावमवि संलिहेई, जिणप्पणीएण झाणजोएणं / भूअत्थभावणाहिं, परिवड्डइ बोहिमूलाई॥१५६३।। भावमप्यान्तरं सलिखति-वशं करोति, जिनप्रणीतेनागमानुसारेण ध्यानयोगेन धर्मादिना भूतार्थभावनाभिश्ववक्ष्यमाणाभिः परिवर्द्धयतिवृद्धिं नयति बोधिमूलान्यवद्धकारणानीति गाथार्थः। एतदेवाहभावेइ भाविअप्पा, विसेसओ नवरं तम्मिकालम्मि। पयईए निग्गुणतं, संसारमहासमुद्दस्स॥१५६४।। भावयति-अभ्येति भावितात्मा सूत्रेण विशेषतोऽतिशयेन नवरं तस्मिन्काले चरमे, किमित्याह-स्वभावेन निर्गुणत्वमसारत्वं संसारमहासमुद्रस्य भवोदधेरिति गाथार्थः / जम्मजरामरणजलो, अणाइमं वसणसावयाइण्णो। जीवाण दुक्खेहेऊ, कट्ठ रोद्दो य भवसमुद्दो।।१५६५।। जन्मजरामरणजलो बहुत्वादमीषामनादिमानित्यगाधःव्यसनश्वापदाकीर्णः अपकारित्वादमीषां जीवानां दुःखहेतुः सामान्येन, कष्टरोद्रोभयानको भवसमुद्र एवंभूत इति गाथार्थः। धण्णोऽहं जेण मर, अणोरपारम्मि नवरमेअंसि। भवसयसहस्सदुलहं, लद्धं सद्धम्मजाणंति।।१५६६|| धन्योऽहं सर्वथा येन मया 'अनर्वाक्पारे' महामहति नवरमेतस्मिन भवसमुद्रे भवशतसहरादुर्लभमेकान्तेन लब्धम्-प्राप्त सद्धर्मयानंसद्धर्म एव यानपात्रमिति गाथार्थः।