________________ संलेहणा 218 - अभिधानराजेन्द्रः - भाग 7 संलेहणा आगमप्रसिद्धचरमानशनविधिक्रियायाम्,पञ्चा० 1 विव० / सा जघन्या मध्यमा उत्कृष्टा च / व्य० 10 उ०।। साम्प्रतं 'संलेहणा दुवालसवरिसे' त्ति चतुस्त्रिंशदुत्तरशततमं द्वारमाहचत्तारि विचित्ताई,विगई निज्जूहियाई चत्तारि। संवच्छरेयदोन्नि, एगंतरियं च आयामं॥१२॥ नाइविगिट्ठोयतवो, छम्मासे परिमिअंच आयाम। अवरे वियछम्मासे,होइ विगिटुंतवो कम्म॥१८३|| वासं कोडीसहियं, आयामंकटु आणुपुटवीए। गिरिकंदरं वगंतुं, पाउवगमणं पवजेई|| || 'चत्तारि विचित्ताई' इत्यादि गाथात्रयम्, संलेखने-संलेखना आगमोक्तेन विधिना शरीराद्यपकर्षणम्, सा च त्रिविधा--जधन्या पाण्मासिकी, मध्यमा संवत्सरप्रमाणा, उत्कृष्टा तु द्वादश वर्षाणि। | तत्रोत्कृष्टा तावेदवं प्रथमं चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति / किमुक्तं भवति-चत्वारि वर्षाणि यावत्कदाचिचतुर्थम्, कदाचित्षष्ठम्, कदाचिदष्टममेवं दशमद्वादशादीन्यपि करोति, पारणकं च सर्वकामगुणितेनोद्मादिशुद्धनाहारेण विधत्ते। ततः परमन्यानि चत्वारिवर्षाणि उक्तप्रकारेण विचित्रतपांसि करोति, विकृतिनियूंहितानिविकृतिरहितानि / किमुक्तं भवति विचित्रं तपः कृत्वा पारणके निर्विकृतिकं भुङ्क्ते उत्कृष्टरसवर्ज च। ततः परतोऽन्ये द्वेच वर्षे एकान्तरितमाचाम्लं करोति, एकान्तरं चतुर्थं कृत्वा आचाम्लेन पारयतीत्यर्थः / एवमेतानि दशवर्षाणि गतानि। एकादशस्य तुवर्षस्याद्यान् षण्मासान् नाति-विकृष्ट नातिगाढं तपः करोति / नातिविकृष्टं नाम 'तपश्चतुर्थं षष्ठं वाऽवसेयं नाष्टमादिके, पारणके तुपरिमितं किञ्चिनोदरतासम्पन्नमाचाम्लं करोति। ततः परमपरान् षण्मासान् विकृष्टमष्टमदशभद्वादशादिकं तपः कर्म भवति, पारणके तु मा शीघ्रमेव मरणं यासिषमिति कृत्वा परिपूर्णघ्राण्याऽऽचाम्लं करोति, न पुनरूनोदरतयेति / द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः। उक्तंच निशीथचूर्णी- 'दुवालसमं वरिसं निरन्तरं हायमाणं उसिणोदएण आयंबिलं करेइ, तं कोडीसहियं भवइ, जेणायंबिलस्स कोडीकोडीए मिलईत्ति चतुर्थं कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थ विधायाचाम्लेनैव पारयतीत्यादन्यपि बहूनिमतान्तराणि द्वादशस्य वर्षस्य विषये वीक्ष्यन्ते, परं ग्रन्थगौरवभयानात्र लिखितानीति। इह च द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतांकरोति यावदेकं कवलमाहारयति। ततः शेषेषु दिनेषु क्रमश एकेन सिक्थेनोनमेकं कवलमाहारयति, द्वाभ्यां सिक्थाभ्यां त्रिभिः सिक्थैरेवं यावदन्ते एकमेव सिक्थं भुङ्क्ते, यथा दीपे समकालं तैलवर्तिक्षयो भवति, तथा शरीरायुषोरपि समकं क्षयः स्यादिति हेतोः / अपरं च-द्वादशस्य वर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरितं तैलगण्डूषं चिरकालमसौ मुखे धारयति,ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति / यदि पुनस्तैलगण्डूषविधानंन कार्यते तदा रूक्षत्वात्तेन मुखयन्त्रमीलनसम्भवे पर्यन्तसमये नमस्कारमुचारयितुं न शक्तोति, तदेवमनया आनुपूर्व्या क्रमेण द्वादशवार्षिकीमुत्कृष्टां संलेखनां कृत्वा गिरिकन्दरं गत्वा उपलक्षणमेतदन्यदपि षट्कायोपमईरहितं विविक्तं स्थानं गत्वा पादपोपगमनं, वाशब्दाभक्तपरिज्ञामिङ्गिनीमरणं च प्रपद्यते। मध्यमा तु संलेखना पूर्वोक्तप्रकारेण द्वादशभिर्मासैः,जधन्या चद्वादशभिः पक्षः परिभावनीया। वर्षस्थाने मासान् पक्षाँश्च स्थापयित्वा तपोविधिः। प्रागिव निरवशेष उभयत्रापि भावनीय इति भावः / प्रव० 134 द्वार। नि० चू०। स०। पं० व० / आ० चू०। विस्मृतसंलेखनाविधिःसंलेहणा इहंखलु, तवकिरिया जिणवरेडिंपण्णत्ता। जंतीऍसंलिहिजइ, देहकसायाइणिअमेणं // 1366|| संलेखना इह खलु प्रक्रमे तपःक्रिया विचित्रा जिनवरैः प्रज्ञप्ता / किमित्याह-यद्यस्मात्तया संलिख्यते कृशीक्रियते देहकषायादि बाह्यमान्तरं च नियमेनेति गाथार्थः। अतिप्रसङ्गपरिहारमाहओहेणं सव्व चिय-तवकिरिआजइ वि एरिसी होइ। तह विअइमाऽवसिट्ठा, धिप्पइजाचरिमकालम्मि।।१३६७|| ओघेन सामान्येन सर्वेष तपःक्रिया आदित आरभ्य यद्यपीदृशी देहकषायादिसंलेखनात्मिका भवति तथापि चैषा प्रस्तुतावशिष्टा गृह्यते, तपःक्रियया चरमकाले देहत्यागायेति गाथार्थः। एतदेवाहपरिवालिऊण विहिणा,गणिमाइपयंजईणमिअमुचि। अन्भुजओ विहारो,अहवाअब्भुज्जअंमरणं // 1368|| परिपाल्य विधिना सूत्रोक्तेन गण्यादिपदम् आदिशब्दाद् उपाध्यायादिपरिग्रहः, यतीनामुचितमिदं चरमकाले यदुताभ्युद्यतो विहारो जिनक्रल्पादिरूपः,अथवा-अभ्युद्यतं मरणं पादपोपगमनादीति गाथार्थः। एसो अविहारो विह, जम्हा संलेहणासमोचेव। ताण विरुद्धोणेओ, एत्थं संलेहणादारे॥१३६९।। एष च विहारोऽभ्युद्यतः; यस्मात्संलेखनासमो वर्तते तत्तस्मान्न विरुद्धो ज्ञेयोऽत्र प्रस्तुते संलेखनाद्वारे भण्यमान इति गाथार्थः। मणिऊण इमं पढम,लेसुद्देसेण पच्छओवोच्छं। दाराणुवायगं विअ, सम्म अब्भुजमरणं // 1370 // भणित्वा एनमभ्युद्यतविहारेण प्रथमलेशोद्देशेन-संक्षेपेणपृष्ठतः-ऊर्ध्वं वक्ष्ये, द्वारानुपात्येव प्रस्तुतमित्यर्थः / सम्यसिद्धान्तनीत्याऽभ्युद्यतं मरणमिति गाथार्थः। तत्र द्वारगाथामाहअव्वोच्छित्तीमणपं-चतुलणउवगरणमेव परिकम्भो। तवसत्तसुएगत्ते, उवसम्गसहे अवउरुक्खे॥१३७१।। अध्यवच्छित्तिमनः प्रयुक्ते. तथा पशानामाचार्यादीनां तुलना स्वयोग्यविषया उपकरणमे वेति वक्तव्यमुचितं, परि