________________ संभोग 212 - अभिधानराजेन्द्रः - भाग 7 संभोग आउट्टे उ असुद्धे, गुरुतो उ होइ तेण परं / / 67 // दानादिभिः संसर्गिः दानादिसंसर्गिस्तस्यां (इकारान्तः संसर्गिशब्दः / (सूत्र-१४) प्रश्न० 4 आश्र० द्वार 1 )कृतायां स प्रतिषिध्यते, आर्य ! कस्मात्पार्श्वस्थादिभिः सम संसर्गिकरोषि, एवं प्रतिषिद्धे यदिस आवर्त्तते तदा स साभोगिक एव केवलं तस्मिन्नावृत्ते प्रायश्चित्तं लघुको मासः / द्वितीयमपि वारं यदि करोति ततोऽपि मासलघु, अथ तृतीयमपि वारं करोति आवर्त्तते च तदापि मासलघु, सद्भावतरित्रःकृत्व आवृत्ते लघुको मासः। तेन परमिति ततस्तृतीयवारात् परं यदि चतुर्थवारं संसर्गिकरोति तदा असो अशुद्ध इति तस्य प्रायश्चित्तं गुरुको मासः। एतदेव स्पष्टतरमाहतिक्खुत्तो मासलहू, आउट्टे गुरुगों मासों तेण परं। अविसुद्धे तं वीसु, करोति जो भुंजती गुरुगा॥६॥ त्रिःकृत्व आवृत्ते प्रायश्चित्तं लघुको मासस्ततः परं भूयः संसर्गिकरणे सोऽविशुद्ध इति गुरुको मासः, त च विष्वक् विसंभोग करोति। योऽपि तं संभुङ्क्ते तस्यापि प्रायश्चित्तं चत्वारो गुरुकाः। अथ कस्मत् वारत्रयात् परं भूयः संसर्गिकृतो विसंभोगः क्रियते इत्यत आहसति दोणि वा वि होज, अमाई तुमाइतेण परं। सुद्धस्स होति चरणं, मायासहिते चरणभेदो॥६६॥ सकृत-एकवार द्वौ त्रीन वारान् वा स्यादमायी, ततस्तृतीयात् बारात् परं संसर्गिकरणे मायी / अथ शुद्धस्य भवति चरणं मायासहिते तु चरणभेदश्चरणाभावस्ततो विसंभोगः क्रियते। एवं पासत्थादिसु, संसग्गियवारियाय आएसा। समणुण्णे विऽपरिच्छिते, विदेसमादीगते एवं॥७०।। एवम्-उक्लेन प्रकारेण एषा दानग्रहणाभ्या संसर्गिवारिता, एवं रामनोज्ञेऽपि विदेशादागते अपरीक्षिते संसर्गिवारिता द्रष्टव्या / तेनापि सह संसर्गिः परीक्ष्य कर्तव्यो नान्यथेति भावः। संप्रति 'दूरे साहारणं काउ' मित्यस्य विभावनार्थमाहसमणुण्णेसु विदेसं, गतेसु पच्छण्णे* होज्ज अवसन्ना। ते वि तहि गंतुमणा, अत्थि तहिं केइ मणुण्णा णो 71|| कस्याप्याचार्यस्य समनोज्ञेषु सांभोगिकेषु विदेशं गतेषु पश्चादागत्य सांभोगिकाः केचित् भिक्षाद्यलाभेनावसन्ना भवेयुस्ततस्तेऽपि तत्र विदेशे गन्तुमनस आचार्य पृच्छन्ति, सन्ति तत्र के चिदस्माकं मनोज्ञाः सांभोगिकाः। अस्थि त्ति होइ लहुतो, कंयाइ ओसण्णि भुंजणे दोसा। नऽत्थि विलहुतो भंडण, न खित्तकहनेव पाहुणगं / / 7 / / एवमुक्ते यद्याचार्यो वदति सन्ति तत्र नः सांभोगिकाः तदा प्रायश्चित्त भवति तस्य लघुको मासः / किं कारणमिति चेदत आह-कदाचित्ते अवसन्नीभूता भवेयुस्ते च प्राघूर्णकास्तत्र गतास्तैः सह भुञ्जन्ति, भुजानानां च चतुर्गुरुकं प्रायश्चित्तम्। यत एवं दोषः तस्मात्सन्तीति न वक्तव्यम् / अथाचार्यों ब्रूयात्-न सन्तीति तदापि मासो लघुकः, कस्मादिति चेत् भण्डनदोषः। तथाहि-ते तत्र प्राप्तास्तेषां नास्ति केनापि गृहीते तैर्वास्तव्यैरुक्तमस्माकं ते सांभोगिकास्ततस्ते प्राघूर्णका उक्ताः,करमादसतौ नोत्तीर्णाः? प्राघूर्णकैरुक्तमस्माभिः क्षमाश्रमणाः पृष्टाः, सन्त्यस्माकं तत्र सांभोगिकास्तैरुक्तं न सन्ति। एवं वास्तव्यानामप्रीतिर्जाता। किमस्माभिः कृतं यद्वयं विसंभोगाः कृताः। तदनन्तरं परुषमपि भाषन्ते, ततो भण्डनम् / तथैव चाप्रीत्या मासप्रायोग्य वर्षाप्रायोग्य वा न कथयन्ति, न च प्राघूर्णकत्वं कुर्युः / यस्मादेते दोषास्तस्मादाचार्येणैवं वक्तव्यम्। आसि तया समणुण्णा, भुजह दव्वाइएहि पेहित्ता। एवं भंडणदोसा, न हाँति अमणुनदोसाय॥७३॥ यदा अस्मात् देशात् निर्गतास्तदा समनोज्ञाः सांभोगिका आसीरन, इदानीं न जानीमः किमनुपालयन्ति। सांभोगिकत्वं किं वा नेति। केवलं द्रव्यादिभिर्द्रव्यतः क्षेत्रतः कालतो भावतश्च प्रेक्ष्य संभुङ् ग्ध्वमित्येवमाचार्येणोक्ते न भण्डनदोषाः, नाप्यमनोज्ञदोषा भवन्तीति। नायमनाए आलो-यणा उऽणालोइए भवे गुरुगा। गीयत्थे आलोयण, सुद्धमसुद्धं विर्गिचंति // 7 // ज्ञाते अज्ञाते वा सांभोगे आलोचना दातव्या, तदनन्तरं तैः सह संभुञ्जते / यदि पुनरनालोचिते परस्परं भुजते तदा भवन्ति चत्वारो गुरुकाः प्रायश्चित्तम् / सा चालोचना गीतार्थे दातव्या। 'सुद्धमसुद्ध विगिचति' त्ति-शुद्धोऽशुद्धो वा य उपधिस्त विचिन्वन्ति-पृथक् कुर्वन्ति विवेच्य यो निष्कारणे उद्गमादिभिरशुद्धो गृहीतो यश्व कारणे वा अयतनया तयोः परित्यागः कर्त्तव्यस्तन्निष्पन्नं प्रायश्चित्तं प्रतिपद्यन्ते / एण नियुक्तिगाथासमासार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतो 'नायमनाए' इत्यस्य व्याख्यानमाह-- अविणढे संभोगे, नायमनाए य नासि पारिच्छा। एत्थोवसंपयं खलु, सेहं वाऽऽसज्ज आणादी॥७५|| आर्यमहागिरेः परतः संभोगो विनष्ट आसीत्, तदा ज्ञाते अज्ञाते वा नास्ति द्रव्यादिभिः परीक्षा, आर्यसुहस्तिशिष्यद्रमकप्रव्रज्या-प्रतिपत्तिप्रभृतित आरात् विनष्टः संभोग इति ज्ञात अज्ञाते वा द्रव्यादिभिः परीक्षाऽऽलोचयितव्या। अनालोचिते च सह भुञ्जते। अथ सांभोगिकाः सन्तः कथन ज्ञायन्ते येनाज्ञाते इत्युच्यमानं शोभेत तत आह- एत्थोवसंपर्य खलु' इत्यादि पूर्व ये उपसंपन्नास्ते असमानीभूताः, अन्ये पश्चात्केऽप्युपसंपन्नाः। अथवा-पश्चादागत्य केचित् प्रवाजितास्ततो-ऽदृष्टपूर्वतया तो न ज्ञायन्ते इत्यज्ञाता भवन्ति।गाथायामेकवचनं जातौ / ततोऽयमर्थःआरादपि पूर्वदर्शनादर्वागपि पश्चादुपसंपत् शैक्षत्वमासाद्य सांभोगिका. नामप्यज्ञानता भवति / तदेवं 'नायमनाए' त्ति गतम्। इदानीम् 'आलोयणा उ' इति व्याख्यानयतिमहल्लयाए गच्छस्स, कारणे असिवादिहिं। देसंऽतरागयाऽण्णोण्णे, तत्थिमा जयणा भवे // 76||