________________ संप 166 - अभिधानराजेन्द्रः - भाग 7 संपइ पृष्टाः, यदस्माक दीनादिभ्यो ददतामवशिष्यते तेन यूयं कि कुरूथ? तैरुक्तम्-अस्माकं गृहे उपयुज्यते / नृपतिराह-यद्दीनादिभिरभुक्त तद्भवदिः साधूना दातव्यम्। एतदेवाहसाहूण देह एवं, अहं में दाहामि तत्तियं मोलं। णेच्छंति घरे घेत्तुं, समणे मम रायपिंडो त्ति।।११२६|| साधूनामेतद्भक्तपानं प्रयच्छत, अहं 'भे' भवतां तावन्मानं मूल्यं दास्यामि। यतो मम गृहे श्रमणा राजपिण्ड इति कृत्या ग्रहीतु नेच्छन्ति। एमेव तिल्लगोलिय-पूवियमोरंडदुस्सिए चेव। जंदेह तस्स मोल्लं, दलामि पुच्छायमहगिरिणो।।११३०।। एवमेव तलि कास्तेलं, गोलिका मथितविक्रयिकाः तक्रादिक, अपूपलिका 3. पूपादिकं , मोरण्डका:-तिलादिमोदकास्तद्विक्र - यिकास्तिलादिभादकान् / दीष्यका वस्त्राणि च दायिता। कथमित्याहयनैलतकादि यूयं साधूना दत्थ तस्य मूल्यमहं भवतां प्रयच्छामि, तत आहारवरजादा किमपीप्सिते लभ्यमाने श्रीमहागिरिरार्यसुहस्तिनं पृच्छति / आय ! प्रचुरमाहारवस्त्रादिकं प्राप्यते? ततो जानन्त्यार्याः, राज्ञा लोकः प्रवर्तितो भवेत्। अजसुहत्थिममत्ते, अणुरायाधम्मतोजणो देति। संभोगवीसुकरणं, तक्खणआउट्टणनियत्ती॥११३१।। आर्यसुहस्ती जानानोऽप्यनेषणीयमात्मीयशिष्यममत्वेन भणतिक्षमाश्रमण ! अनुाराजधर्मतो राजधर्ममनुवर्तमानः एष जनः एवं यथेप्सितमाहारादिक प्रयच्छति / तत आर्यमाहगिरिणा भणितम्आचार्य : त्वभापे ईदृशा बहुश्रुतो भूत्वा यद्येवमात्मीयशिष्यममत्वनेत्थं बवीषि ततो मम तव चाद्य प्रभृति विसंभोगो - नै कत्र मण्डल्यां स्मुद्देशनादिव्यवहार इत्येव विसंभोगस्याविष्करणमभवत् / ततः आर्यसुहस्ती चेन्तयति-मायाभावादेवमनेषणीयमाहारजातं साधवो ग्राहिताः, स्वयमपि चानेषणीयं भुक्तम्। अपरं चेदानी-महमित्थमुपलम्भयामि तदेतन्मम द्वितीयं बालस्य मन्दत्वमित्यापन्नम् / अथवा - नाद्यापि किमपि विनष्टं भूयोऽप्यहमेतस्मादर्थात्प्रतिक्रमामीति विचिन्त्य तत्क्षणादेवावनिमभवत्, ततो यथावदालोचना दत्त्वा स्वापराधं सम्यक क्षामयित्वा तस्या अकल्पप्रतिसेवनायास्तस्य निवृत्तिरभूत, ततो भयोऽपि तयोः संभोगिकत्वमभवत्। अशत्रसजीवप्रतिक्रामक इत्यस्य भावार्थभाहसो रायाऽवंतिवती, समणाणं भावतो सुविहिताणं / पञ्चंतियरायाणो, सव्वे सद्दाविया तेणं / / 1132 // स संप्रतिनामा राजा अवन्तीश्रमणानां श्रावकपञ्चाणुव्रतधारी | अभवदिति शेषः। तेच शाक्यादयोऽपि भवन्तीत्यत आह-सुविहितानाशोभनानुष्ठानानां ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाः प्रत्यन्तदेशाधिपतयो राजानरस्ते सर्वेऽपि शब्दायिताः। ततः किं कृतवानित्याह कहिओ य तेसि धम्मो, वित्थरतो गाहिता य सम्मत्तं / अप्पाहिता य बहुसो, समणाणं भद्दगा होह।।११३३।। कथितश्च तेषां प्रात्यन्तिकराजानां तेन विस्तरतो धर्मः, ग्राहिताश्व ते सम्यक्त्वं, ततः स्वदेशगता अपि ते बहुशस्तेन राज्ञा संदिष्टाः, यथा श्रमणाना भद्रका भक्तिमन्तो भवत। अथ कथमसौ श्रमणसंघप्रभावको जात इत्याहअणुजाणे अणुजाती, पुप्फारुहणाइ ओक्किरणगाई। पूयं च चेइयाणं, ते विसरजेसु कारिति॥११३४|| अनुयानं - रथयात्रा तत्राप्यसौ नृपतिरनुयाति, दण्डभद्रभोजिकादिसहितो रथेन सह हिण्डते / तत्र पुष्पारोपणम् आदिशब्दात्माल्यगन्धचूण्णाभरणारोपणं च करोति, 'उकिरणगाई' ति रथपुरतो विविधफलानि खाद्यकानि कपर्दवस्त्रप्रभृतीनि चोत्किरणानि करोति / आह निशीथचूर्णिकृत्- 'रहम्गतो य विविहफलखज्जगेयकवड्डुगवत्थमादी य उकिरणं करेइ'त्ति। अन्येषां च चैत्यगृहे स्थितानां चैत्याना भगवद्विम्बानां पूजन महतां विच्छईनं करोति, तेऽपि च राजान एवमेव स्वराज्येषु रथयात्रामहोत्सवादिकं कारयन्ति / इद च ते राजानः संप्रतिनृपतिना भणिताः। जतिमंजाणह सामि, समणाणं पणमहासुविहियाणं / दव्वेण मे न कजं, एयं खु पियं कुणहमज्झं।।११३५।। यदि मां स्वामिनं यूयं जानीथ मन्यध्ये ततः श्रमणेभ्यः संविहितेभ्यः प्रणमत-प्रणता भवत, द्रव्ये-दण्डदातव्येनार्थेन मे न कार्य कित्वेतदेव श्रमणप्रणमनादिकं मम प्रियं तदेव यूयं कुरुत। वीसजिया य तेणं, समणं घोसावणं सरजेसुं। साहूण सुहविहारा, जाता पच्चंतिया देसा।।११३६।। एवं तेन राज्ञा शिक्षा दत्त्वा विसर्जिताः, ततस्तेषां स्वराज्येषु गमनं, तत्र च तैः स्वदेशेषु सर्वत्राप्यमारिव्रतघोषणं कारितं, चैत्य-गृहाणि च कारितानि / तथा प्रात्यन्तिका देशाः साधूनां सुखविहाराःसंजाताः / कथमिति चेदुच्यते-तेन संप्रतिना साधवो भणिताः-भगवन्तः! एतान् प्रत्यन्तदेशान् गत्वा धर्मकथया प्रतिबोध्यमानाः पर्यटन्तु। साधुभिरुक्तम् राजन्नात्र साधूनामाहारवस्त्रपात्रादेलाभः। ततः किमभूदित्याहसमणभडभाविएसुं, तेसुं रज्जेसु एसणादीसुं। साहू सुहं विहरिया, तेणं वि य भद्दगा ते उ॥११३७॥ श्रमणवेषधारिभिर्भटरेषणादिभिः शुद्धमाहोरादिग्रहणं कुर्वाणैः साधुविधिना भावितेषु तेषु राज्येषु साधवः सुखं विहृताः। तत एव च संप्रतिनृपतिकालात्ते प्रत्यन्तदेशा भद्रकाः संजाताः। इदमेव स्पष्टयतिउदिण्णजोहाउलसिद्धसेणा पडिट्ठितो णिज्जियसत्तुसेण्णो।