________________ संथार 155 - अभिधानराजेन्द्रः - भाग 7 संथार लोयसार' मिति पाठे विज्ञानादिरत्नाभरणमात्मनःकृतं भवतीत्यर्थः। तंतित्थं तुमें लद्ध, पवरं सव्वजीवलोगम्मि। भूयो जत्थ मुणिवरा, निव्वाणमणुत्तरं पत्ता / / 22 / / तं तीर्थ प्रभासतीर्थप्रयागादि लौकिकं लोकोत्तरमष्टापदादि द्रव्यतीर्थव्यतिरिक्तं भावतीर्थ त्वया लब्धप्राप्त, यत्र तीर्थे साताः धालितकर्ममलपटला मुनिवरा निर्वाणसुख मोक्षसुखमनुत्तरं प्राप्ता इति ! द्रव्यतीर्थे देहाद्युपशमतृष्णाव्यवच्छेदमलप्रक्षालनात्सुखं भवति, अब तु भावतीर्थ कषायोपशमलोभनिग्रहसकलकल्मषमलप्रक्षालनानिर्वाणसुखमिति। आसवसंवरनिन्जर, तिन्नि वि अत्था समाहिया जत्थ। तं तिथं ति भणंति, सीलव्वयवद्धसोवाणा // 23 // अथ तीर्थशब्दस्य व्युत्पत्ति तीर्थकर एवाह-त्रिषु तिष्ठतीति त्रिस्थं, के ते त्रय इत्याह-'आसवसवरनिज्जर' त्ति आश्रवाणाम्- इन्द्रियाणां समाधानं हितेषु-प्रवृत्तिरहितेषु निवृत्तिः / तत्राश्रवभेदा 'इदियकसाए' त्यादि द्वाचत्वारिंशत्प्रसिद्धा एव४२यथा कषायशब्देन षोडश कषाया नवा नोकषाया एते पञ्चविंशतिः, योगशब्देन 'सचं मोसं मीसमि' त्यादि योगाः पञ्चदश आश्रवभेदाः पञ्चसाप्ततिः संवरण संवरः 'समिइ गुत्तीपरीसहे' त्यादि 57 तथा गुप्तिशब्देन मनोगुप्त्याद्याः 3 ब्रह्मचर्य गुप्तयो 6 भावनाशब्देनानि-त्याद्याः 12 महाव्रतानां 25 'कंदप्पदेव 1 किदिवस 2 अभिओगा 3 आसुरा य 4 समोहो५' इति शुभभावनानां सविपक्षत्येनाशुभभावना अपि गृह्यन्ते, तदा संवरभेदाः 16 'संवरत्व' च कन्दप्पोदीना परिज्ञानात् येभ्य: कारणेभ्य एते भवन्ति तत्परिहारेण 'निजर' ति निर्जरणं निर्जरा तपः, तद् द्वादशधा प्रसिद्धमेव / आश्रवश्व संवरच निर्जरा च आश्रवसंवरनिर्जराः प्राकृतत्वाद्विभक्तिलोपः, 'तिन्नि वि' ति एते प्रयोगार्थाः 'सगाहिय' ति समा-धियुक्ताः कृताः समाहृता वामीलिताः यत्र तत् त्रिस्थ तीर्थ वा भणतो विवेकिनः ‘सीलवयबद्धसोवाण' त्ति शीलव्रतान्येव बद्धानि सोपानानि यैस्ते शीलव्रतबद्धसोपानाः / कस्य एलत त्रिस्थस्य तीर्थस्य, ते तथाविधाः सन्तो भणन्तो विवेकिनिर्वाणमनुत्तरं प्राप्ता इति पूर्वगाथातः संबध्यत इति गाथार्थः। भंजिय परीसहचमुं, उत्तमसंजमबलेण संजुत्ता। भुंजंति कम्मरहिया, निव्वाणमणुत्तरं रज्जं // 24|| कथं निर्वाण प्राप्तास्तत्र किं कुर्वन्तीत्याह- 'भंजिय' भक्त्वा प रीषहच -परीषहसेनाम् उत्तमसंयमबलेन युक्ताः सन्तो भुञ्जन्ति कर्मरहिता निर्वाणमनुत्तर विशिष्ट राज्यमित्यर्थः / तिहुयणरज्जसमाहि,पत्तो सि तुम पिसमयकप्पम्मि। रज्जाभिसेयमतुलं, विउलफलं लोएँ विहरंति॥२१॥ त्रिभुवनस्य राज्यं त्रिभुवनराज्य समाधानं समाधिः, त्रिभुवनराज्यस्य समाधिः त्रिभुवनराज्यसमाधिस्तम् / तत्र समाधिर्दशधा धम्मचिंता य 6 सन्नाणे 2 सुविणे 3 देवदत्तरिसणे 4 / ओहीद-सण 5 नाणे य 6, मणपज्जव 7 केवले // 1 // नाणे य 8 दंसणे चेव, केवलीमरणे इय 10 / असमुप्पन्ना समुप्पज्जो, दसचित्तसमा-हिओ / / " इति हे क्षपक ! येन स्माधिना त्रिभुवनस्य राज्यमिव तीर्थकृत्त्वं केवलज्ञानं मुक्ति प्राप्यते तं समाधिं त्वमपि प्राप्तोऽसि 'समयकप्पमि' ति सिद्धान्तविचारणायां क्रियमाणायां किमिति राज्येनोपमितमित्युच्यते, 'रज्जाभिसेयमतुलं विउलफल लोए विहरति' यथा क्षत्रिया राज्याभिषेकं विशिष्टमतुलं विपुलैहिकसुरखफलं प्राप्य लोके जानपदलोकमध्ये प्रमुदितात्मनो विहरन्ति- विविध चेष्टन्ते विजृम्भन्ते ते दत्तराज्याभिषेकतुल्यमतुल चारित्रं दधानास्तावत्साधयो विहरन्ति, त्वया तु संस्तारकभाश्रयता त्रिभुवनाधिपत्यसमाधिः समायभाषया प्राप्त इति गाथार्थः / अभिनंदइ मे हिययं, तुज्झे मोक्खस्स साहणोवाओ। जंलद्धो संथारो,सुपुरिसपरमत्थसंथारो॥२६|| अथ क्षपकस्य गुरुरात्मोत्कर्षदर्शनन स्थैर्यमुत्पादयति हे क्षपक ! भवानभिनन्दयति प्रीतं करोति मे-भदीय हृदयं यतः कारणात् 'तुज्झे मोक्खस्स' तित्वया मोक्षस्य अपुनर्भवस्य साधनोपायः आत्मशान्तिसाधनोपायः कृतः / यत्-यस्मात्कारणात् लब्धः-प्राप्तः संस्तीर्यते विस्तीर्यते यस्मिन् जीवदयार्थ दर्भादिः स संस्तारकः-सत्पुरूषपरमार्थज्ञानादिस्तस्य संस्तारो विस्तार इति महान् प्रमोद इति गाथार्थः / देवाऽविदेवलोए, भुजंता बहुविहाइँसोक्खाई। संथारं चितंता, आसणसयणाणि मुंचंति॥२७॥ देवा अपि देवलोके व्यवस्थिता अपि भुजाना बहुविधानि सुखानि संस्तारकगतं साधुधर्मानुभूताराधनं वा संस्तारकगुणान्या चिन्तयन्तः स्मरन्त आसनशयनानि मुञ्चन्तिपरिज्यजन्ति त्वद्-गुणाकृष्टचेतसा भक्तिहर्षवशादभ्युत्थानादि कुर्वन्तीति गाथार्थः। चंद व्वपेच्छणिज्जो, सूरो इव तेयसो वि दिप्पंतो। धणवंतो गुणवंतो, हिमवंत महंतविक्खाओ।।२८|| अथाङ्गीकृतसंस्तारकः क्षपकः क इव शोभते इत्याह-सौम्यतायां चन्द्रवत्, प्रेक्षणीयः, तपस्तेजसाऽपि सूर इव दीप्ततेजा भवति, धनवानिव सर्वस्याप्याश्रयणीयः, गुणवानिव सर्वपूज्यो भवति, हिमवानिव महत्त्वस्थैर्याभ्यां विख्यातः-प्रसिद्ध इत्यर्थः / गुत्तीसमिइउवेओ, संजमतवनियमजोगजुत्तमणो। समणो समाहियमणो, दंसणनाणे अणण्णमणो॥२६॥ 'गुत्तीसमिइ'तिमोधनं गुतिर्मनोवाकायनिरोधलक्षणा समयन-समितिः ईयाभाषेषणादनिक्षेपपारिष्ठापनिकालक्षणा पञ्चप्रकारा गुप्तिश्च समितिश्च गृतिसमती ताभ्यामुपेतो युक्तो गुप्तिसमित्युपेतः 'संजमतवनियम' त्ति संयम: पक्षावविरमणलक्षणाः, तपो-द्वा-दशविध नियमाअभिग्रहविशेषाः 'उक्खित्तचरगा निक्खित्तचरगा' इत्यादिकाः योगा मनोवासायनिरोधाः, संजमश्च तपश्च नियमश्च योगाश्च संयमतपोनियमयोगास्तैः युक्तं मनो यस्य स संयमतपोनियमयोगयुक्तमनाः सुप्रणिहितमनाः श्रमणस्तपसि खेदज्ञः समाहितमनाः-सुप्रणिं हितचितः 'दंसणनाणे' ति दर्शनं सम्यक्त्वं ज्ञानं सत्यादिकं दर्शनं च ज्ञानं च दर्शनज्ञानम्, समाहारत्वादेकवचनं तस्मिन्, न विद्यते अन्यद्धर्मध्यानलक्षणान्मनो यस्य स अनन्यमनाः-एकाग्रचितः एवंविधः साधु: संस्तारकं प्रतिपद्यते इति शेष इति गाथार्थः /