________________ हिंसा 1231 - अभिधानराजेन्द्रः - भाग 7 हिंसा णे किं इसिंहणइ नो इसिं? गोयमा ! इसिं पिहणइ नो इर्सि पि / हणइ। से केणतुणं भंते / एवं वुचइ० जाव नो इसिं पि हणइ? गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं इसिं हणामि, से | णं एग इर्सि हणमाणे अणंते जीवे हणइ, से तेणतुणं निक्खेवओ। पुरिसे णं भंते ! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नो पुरिसवेरेणं पुढे? गोयमा। नियमा ताव पुरिसवेरेणं धुढे,अहवा पुरिसवेरेण य णो पुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे, एवं आसं एवं० जाव चिल्ललगं० जाव अहवा चिल्ललगवेरेण य णो चिल्ललगवेरेहि य पुढे / पुरिसे णं मंते। इसिं हणमाणे किं इसिवेरेणं पुढे, नो इसिवेरेणं? गोयमा ! नियमा इसिवेरेण य नो इसिवेरेहिय पुढे। (सू०३६१) 'तेण' मित्यादि 'नो पुरिसं हणइ'त्ति पुरुषव्यतिरिक्तंजीवान्तरं हन्ति। 'अणेगे जीवे हणइ' त्ति अनेकान् जीवान् यूकाषट्पदिकाकृमिगण्डोलकादीन् तदाश्रितान् तच्छरीरावष्टब्धांस्तद्रुधिरप्लावितादींश्च हन्ति, अथवा-स्वकायस्याकुञ्चनप्रसारणादिनेति, 'छणइत्तिक्कचित्पाठस्तत्रापि स एवार्थः, क्षणधातोर्हिसार्थत्वात्, बाहुल्याश्रयं चेदं सूत्रम्, तेन पुरुषं घ्नतथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यम्, वक्षयमाणभड़कत्रयान्यथाऽनुपपत्तेरिति / एते सव्वे एकगंमा' एत-हस्त्यादयः एकगमा:-सदृशाभिलाषा: 'इसिं' ति ऋषिम् 'अणंते जीवे हणइ' ति ऋषि घ्नन्नन्तान् जीवान् हन्ति, यतस्मद्घातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानन्तजीवघातकत्वभावात्, अथवा-ऋषिर्जीवन बहून् प्राणिन: प्रतिबोधयति, ते च प्रतिबुद्धाः क्रमेण मोक्षमासादयन्ति, मुक्ताश्वानन्तानामपि संसारिणामघातका भवन्ति, तद्भधे चैतत्सर्वं न भवत्यतस्तद्धेऽनन्तजीववधो भवतीति, 'निक्खेवओ' त्ति निगमनम्।' नियमा पुरिसवेरेर्णे त्यादि, पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राणयन्तरमपि हतं तदा पुरुषवरेण नो पुरुषवैरेण चेति द्वितीय: / यदितु बहवः प्रणिनो हतास्तत्र तदा पुरुषवैरेण नो पुरुषवैरैश्त्येति तृतीयः / एवं सर्वत्र त्रयम् / ऋषिपक्षे तु ऋषिवैरेण नो ऋषिवैरेश्चेत्येवमेक एव, ननु यो मृतो मोक्षं यास्यत्यविरतो न भविष्यति तस्यर्वधे ऋषिवरमेव भवत्यत: प्रथमविकल्पसम्भवः / अथचरमशरीरस्य निरुपक्रमायुष्कत्वान्नहननसम्भवस्ततोऽचरम-शरीरापेक्षया यथोक्तभङ्गकसम्भव:, नैवम्, यतो यद्यपि चरमशरीरो निरुपक्रमायुष्कस्तथाऽपि तद्धाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेति प्रथमभङ्गकसम्भव इति, सत्यम् किन्तु यस्य ऋषे: सोपक्रमायुक्तत्वात् पुरुषकृत्वावधो भवति तमाश्रित्येदं सूत्रं प्रवृत्तम, तस्यैव हननस्यः, मुख्यवृत्त्या पुरुषकृतत्वादिति। भ०६ श० 34 उ० / (एकान्तनित्येऽनित्ये वाऽऽत्मनि हिंसा नघटते किन्तुस्याद्वादे इति) 'अहिंसा' शब्दे प्रथमभागे 881 पृष्ठे उक्तम्।) षड्जीवनिकायव्यापादनं न कुर्यादिति पृथिवीकायादिशब्देषु, विस्तरत उक्तम्।) | षड्जीवनिकायानां हिंसान कर्तव्या / ग०२ अधि०। (जिनायतननिर्माण जिनपूजायां च कायवथदोष: 'चेझ्य' शब्दे तृतीयभागे 1230 पृष्ठे प्रतिक्षिप्तः।) प्रथमहिंसाभेदमाहउचालियम्मि पाए, इरियासमियस्स संकमट्ठाए। वावजिज्ज कुलिंगी, मरिज्जतं जोगमासज्ज / / 223 / / उच्चालिते-उत्क्षिप्ते पादे संक्रमार्थ गमनार्थमिति योगः, ईर्यासमितस्योपयुक्तस्य साधोः किं व्यापद्येत महती वेदनां प्राप्नुपात्, म्रियेतप्राणत्यागं कुर्यात् कुलिङ्गी कुत्सितलिङ्गवान् द्वीन्द्रियादिसत्त्व: तं योगमासाद्य-तथोपयुक्मसाधुव्यापारं प्राप्येति। नय तस्स तन्निमित्तो, बंधो सुहुमो विदेसिओ समए। जम्हा सो अपमत्तो, सा उपमाओ त्ति निद्दिट्ठा // 224 // नच तस्य साधोस्तन्निमित्त: कुलिङ्गिव्यापत्तिकारणे वन्धः सुक्ष्मोऽपि देशित: समये। किमिति ? यस्मात्सोऽप्रमत्तः सूत्रज्ञया प्रवृत्तेः, सा च हिंसा प्रमाद इत्येवं निर्दिष्टा तीर्थकरगणधरैरिति। इयं द्रव्यतो हिंसा न भावत:। सामप्रतं भावतो न द्रव्यत इत्युच्यतेमंदपगासे देसे, रज्जु किण्हाहिसरिसयं दटुं। अच्छित्तु तिक्खखग्गं, वहिजतं तप्परीणामो / / 225 / / मन्दप्रकाशे देशे-ध्यामले निम्नादौ रज्जुदर्भादिविकाररूपां कृष्णाहिसदृशीं कृष्णसर्पतुल्यां दृष्ट्वा आकृष्य जीक्ष्णखङ्ग वधेत्ता-हन्यादित्यर्थः, तत्परिणामो वधपरिणाम इति। सप्पवहाभावम्मि वि, वहपरिणामा उ चेव एयस्स।नियमेण संपराइय-बंधो खलु होइ नायव्यो / / 225 / / सर्पवधाभावेऽपि तत्त्वत: वधपरिणामादेवैतस्य व्यापादकस्य नियमेन साम्परायिको बन्धो-भवपरंपराहेतुः कर्मयोग: खलु भवति ज्ञातव्य इति। तृतीयं हिंसाभेदमाहमिगवहपरिणामगओ, आयण्णं कड्डिऊण कोदंडं / मोत्तूणमिसुं उमओ, वहिज तं पागडो एस // 227 // मृगवधपरिणामपरिणत: सन्नाकर्णमाकृष्य कोदण्डं धनुर्मुक्त्वा इषु-बाणं उभयतो बधेत्-हन्यात् द्रव्यतो भावतश्च तं मृगं प्रकट एष हिंसक इति। चतुर्थभेदमाहउमयाभावे हिंसा, धणिमित्तं भंगयाणुपुथ्वीए। तह वि य दंसिज्जती, सीसमइविगोवणमदुट्ठा / / 228 / / उभयाभावे-द्रव्यतो भावतश्च वधाभावे हिंसा ध्वनिमात्रं न विषयत: भङ्गकानुपूर्ध्यायाता, तथापि च दीमाना शिष्यमतिविकापनं विनेयबुद्धिविकाशाऽदुष्टैवेति। इयपरिणामा बंधे, बालो वुद्धत्ति थोवमियमित्थ। बाले वि सोन तिव्वो, कयाई वुड्ढे वि तिव्वु त्ति / / 229 / /