________________ हिंसा 1230- अमिधानराजेन्द्रः - भाग 7 हिंसा प्रार्थना कथमिव विवेकिनामनादरणीया? नच तज्जन्यपरिणामविशुद्धेस्तत्फलं न प्राप्यते, सर्ववादिनां भावशुद्धेरपवर्ग फलसम्पादनेऽविप्रतिपत्तेरिति। न च वेदनिवेदिता हिंसा न कुत्सिता, सम्यग्दर्शनज्ञानसम्पन्नैरर्चिर्गिप्रपन्नैर्वेदान्तवादिभिश्च गर्हितत्वात्। तथा च तत्त्वदर्शिनः पठन्ति"देवोपहारथ्याजेन, यज्ञव्याजेन येऽथवा। घ्नन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम्" // 1 // / वेदान्तिका अप्याहु:"अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे। हिंसा नाम भवेद् धर्मो, न भूतो न भविष्यति" ||1|| तथा 'अग्रिममितस्माद्धिंसाकृतादेनसो मुञ्चतु' छान्दसत्वाद् मोचयतु इत्यर्थः, इति। व्यासेनाप्युक्तम"ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि। स्नात्वाऽतिविमले तीर्थे, पापपड़.कापहारिणि // 1 // ध्यानानौ जीवकुण्डस्थे, दममारुतदीपिते / असत्कर्मसमित्क्षेपै-रग्रिहोत्रं कुरुत्तमम् // 2 // कषायपशुभिर्दुष्टै-धर्मकामार्थनाशकैः। शममन्त्रहुतैर्यज्ञं, विधेहि विहितं बुधैः / / 3 / / प्राणिघातात् तु यो धर्म-मीहते मूढमानसः / स वाञ्छति सुधावृष्टिं, कृष्णाऽहिमुखकोटरात्" ||4|| इत्यादि। यच याज्ञिकानां लोकपूज्यत्वोम्भादित्युक्तम् तदप्यसारम्, अबुधा एव हि पूजयन्ति तान् न तु विविक्तबुद्धयः / अबुधपूज्यता तु न प्रमाणम्, तस्या: सारमेयाऽऽदिष्वप्युपलम्भात्। (स्या०) ('अग्रिहोत्रविषय: अग्गिहोत्त' शब्दे प्रथमभागे) पितॄणां पुन: प्रीतिरनैकान्तिकी, श्राद्धाऽऽदिविधानेनापि भूयसांसन्तानवृद्धेरनु-पलब्धेः, तदविधानेऽपि च केषाञ्चिद् गर्दभशूकराऽजादीनामिव सुतरांतदर्शनात्, ततश्च श्राद्धादिविधानं मुग्धजनविप्रतारणमात्रफलमेव / ये हि लोकान्तरं प्राप्तास्ते तावत् स्वकृतसुकृतदुष्कृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा भुजाना एवासते, ते कथमिव तनयाऽऽदिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालवोऽपि स्यु: ? तथा च युष्मद्यूथिन: पठन्ति- "मृतानामपि जन्तूनां, श्राद्धं चेद् तृप्तिकारणम्। तन्निर्वाणप्रदीपस्य, स्नेह: संवर्द्धयेच्छिखाम्" / / 11 // इति कथं च श्राद्धविधानाघर्जितं पुण्यं तेषां समीपमुपैतु, तस्य तदन्यकृतत्वात्, जडत्वाद्, निश्चरणत्वाच्च / अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादे: स्यादिति चेत्। तन्न, तेन तजन्यपुण्यस्य स्वाध्यवसायादुत्तारितत्वात्। एवं च तत्पुण्यं नैकतरस्यापि इति-विचाल एव विलीनं त्रिशड्.कुज्ञातेन, किन्तु पापानुबन्धिपुण्यत्वात्तत्वत: पापमेव। अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् क इवैतत्प्रत्येतु ? विप्राणामेव मेदुरोदरतादर्शनात्, तद्वपुषि च तेषां संक्रम: श्रद्धातुमपि न | शक्यते, भोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्यनवलोकनात्, विप्राणामेव च तृप्ते: साक्षात्करणात् यदि परंतएव स्थूलकवलैराकुलतरमतिगाा भक्षयन्त: प्रेतप्रायाः, इति मुधैव श्राद्धादिविधानम् / यदपि च गयाश्राद्धादियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भक-विभङ्गज्ञानिव्यन्तराऽऽदिकृतमेव निश्चेयम्। (स्या०) (आगमविषय: 'आगम' शब्दे द्वितीयभागे 53 पृष्ठे उक्त:।) नच वयमेव यागविधे: सुगतिहेतुत्वं नाङ्गीकुर्महे, किन्तु भवदाप्ता अपि / यदाह व्यासमहर्षिः- “पूजया विपुलं राज्य-मग्निकार्येण संपद: / तप: पापविशुद्ध्यर्थ, ज्ञानं ध्यानं च मुक्तिदम" ||1 // अत्राग्निकार्यशब्दवाच्यस्य यागादि-विधेरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्वं वदन्नाचार्य:- तस्य सुगतिहेतुत्वमर्थात् कदार्थितवानेव। तथा च स एव भावाग्निहोत्रं 'ज्ञानपाली' त्यादिश्लोकैः स्थापितवान् / तदेव स्थिते तेषां वादिनां चेष्टामुपमया दूषयतिस्वपुत्रेत्यादि। परेषांभवत्प्रणीतवचन-पराङ्मुखानां स्फुरितं-चेष्टितं, स्वपुत्रघाताद् नृपतित्वलिप्सास ब्रह्मचारिनिजसुतनिपातनेन राज्यप्राप्तिमनोरथसदृशम्।यथा किल कश्चिद्विपश्चित्पुरुष: परुषाऽऽशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्रामीहते, नच तस्य तत्प्राप्तावपि पुत्रघातपातककलड्.कंपड्क: क्वचिदपयाति, एवं वेदविहितहिंसया देवताऽऽदिप्रीतिसिद्धावपि, हिंसासमुत्थं दुष्कृतंनखलुपराहन्येत। अत्र च लिप्साशब्दप्रयुञ्जान: स्तुतिकारोज्ञापयति-यथा तस्य दुराशयस्याऽसदृशतादृशदुष्कर्म-निर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रमेव, न पुनस्तत्सिद्धिः, एवं तेषां दुर्वादिनां वेदविहितां हिंसामनुतिष्ठतामपि देवताऽऽदिपरितोषणे मनोराज्यमेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्राऽऽदिदिवौकसां च तृप्ति:, प्रागुक्तयुक्त्या निराकृतत्वात्। इति काव्यार्थः / स्या०। पुरुषव्याघातेन तदन्यजीवव्याधात:तेणं कालेणं तेणं समएणं रायगिहे. जाव एवं वयासीपुरिसेणं भंते। पुरिसं हणमाणे किं पुरिंस हणइ नो पुरिसे हणइ ? गोयमा ! पुरिसं पि हणइ नो पुरिसे वि हणति। से केणटेणं भंते / एवं दुबइ पुरिसं पि हणइ नो पुरिसे वि हणइ ? गोयमा! तस्स णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि से णं एगं पुरिसंहणमाणे अणेगजीवा हणइ, से तेणतुणं गोयमा ! एवं वुचइ पुरिसं पि हणइ नो पुरिसे वि हणति / पुरिसे णं भंते / आसं हणमाणे किं आसं हणइ नो आसे वि हणइ ? गोयमा ! आसं पि हणइनो आसे विहणइ, सेकेणतुणं अट्ठो तहेव, एवं हत्थिं सीहं वग्धं० जाव चिल्ललगं। पुरिसे णं भंते / अन्नयरं तसपाणं हणमाणे किं अन्नयरंतसपाणं हणइनो अन्नयरे तसपाणे हणइ? गोयमा !अन्नयरं पि तसपाणं हणइ नो अन्नयरे पि तसे पाणे नो अन्नयरे वि तसे पाणे हणइ ? गोयमा ! तस्स णं एवं भवइ, एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि, से णं एग अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ, सेतेणटेणं गोयमा! तं चेव एए सव्वे वि एकगमा। पुरिसे णं भंते। इसिं हणमा