________________ हरिएस 1154- अभिधानराजेन्द्रः - भाग 7 हरिएस यवणं, तेंदुगंनाम जक्खाययणं, तत्थ गंडीतेंदुगो नाम जक्खो परिवसति, सो तत्थ अणुण्णवेउं ठितो, जक्खो उक्संतो, अण्णो जक्खो, अण्णहिं वणे वसति, तत्थ वि अण्णे बहू साहुणो ठिया, सोयमंडीजक्खं पुच्छति-- ण-दीससि? पुण तेण भणियं-साहुं पज्जुवासामि, तत्थ यतेंदुएण ट्ठिो, सो वि उवसंतो, सो भणति-मम विउजाणे बहवेसाहू ठिया, एहि पासामो, ते गया, तेऽवि सामवत्तीए साहुणो विकहमाणा अच्छंति। ततो सो जक्खो इमं भणति-"इत्थीण कहऽत्थ वट्टई,जणवयरायकहत्थ वट्टई। पडिगच्छह रम्मतेंदुर्ग, अइसहसा बहुमुंडिए जणं // 1 // " अह अण्णया जक्खाययणं कोसलिरायधूआ भद्दा नाम पुष्फधूवमादी गहाय अचिरं निग्गया, पयाहिणं करेमाणा तं दट्टण कालं विगरालं छि त्ति काऊण णिट्ठवति, जक्खेण रुटेण अण्णइट्ठा कया, णीया नीयघरं, आवेसिया भणति ते, णवर मुंचामि जइणं तस्सेव देह, तं च साहति-जहा एईए सो साहू ओदूढो, रण्णा वि जीवउ त्ति काऊण दिण्णा, महत्तरियाहिं समं तत्थाणीया, रतिं ताहि भण्णति-वच्च पतिसगासंति, पविट्ठाजक्खाययणं सोपडिमं ठिओ ऐच्छति, ताहे जक्खो विइसिसरीरं छाइऊण दिव्वरूपं दंसेति, पुणो मुणिरूवं, एवं सव्वरत्तिं वेलंबिया, षभाएणेच्छएत्ति काऊणं पविसंती सधरंपुरोहिएणराया भणिओ-एसा रिसिभज्जा बंभणाणं कप्पड़ त्ति, दिण्णा तस्सेव / सो य जण्णे दिक्खिजिउकामो सा अण्णेण लद्धा, सा विजण्णपत्ति त्ति काऊण दिक्खिया।" इत्युक्तः सम्प्रदायोऽवसितश्च नामनिष्पन्ननिक्षेपः। सम्प्रति सूत्रालापकिनिष्पन्नस्यावसरः, सच सूत्रे सति सम्भवत्यतः सूत्रानुगमे सूत्रमुचारणीयं, तचेदम्सोवागकुलसंभूओ, गुणुत्तरधरो मुणी। हरिएसबलो नाम, आसि भिक्खू जिइंदिओ॥१॥ श्वपाका:-चाण्डालास्तेषां कुलम्-अन्वयस्तस्मिन् सम्भूतः-- समुत्पन्नः श्वपाककुलसम्भूतः, तत्किं तत्कुलोत्पत्त्यनुरूप एवायम् उत नेत्याह-गुणेषूत्तराः-प्रधानाः गुणोत्तराः-ज्ञानादयः तान् धारयति गुणोत्तरधरः,पठन्ति च-'अणुत्तरधरे' त्ति, तत्र न विद्यते उत्तरम्अन्यत्प्रधानमेषामित्यनुत्तराः, ते च प्रक्रमात्प्रकर्षप्राप्ता ज्ञानादय एव गुणास्तान् धारयत्यनुत्तरधरः, यद्वा-अनुत्तरान्-गुणान् धारयतीत्यनुत्तरधर इति मयूरव्यंसकादिषु द्रष्टव्यो, मुणतिप्रतिजानीते सर्वविरतिमिति मुणिः, श्वपाककुलोत्पन्नोऽपि कदाचितत्संवसादिनाऽन्यथैव प्रतीतः स्यादत आह-हरिकेशः सर्वत्र हरिकेशयतैव प्रतीतो बलोनामबलाभिधानः आसीद्-अभूत, तस्य च मुनित्वं प्रतिज्ञामात्रेणापि स्यादत आह-'भिक्खु ति भिनत्ति-यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमष्टविधं वा कर्मेति भिक्षुः, अत एव जितानिवशीकृतानीन्द्रियाणिस्पर्शनादीन्यनेनेति जितेन्द्रिय इति सूत्रार्थः / तथाइरिएसणभासाए, उच्चारसमिईसुय। जओ आयाणणिक्खेवे, संजओ सुसमाहिओ॥२॥ ईरणमी- एष्यत इत्येषणा अनयोर्द्वन्द्वस्ततस्ताभ्यां सहिता भाष्यत इति माषा ईर्येषणाभाषेति मध्यपदलोपी समासः, तस्याम्, तथा उञ्चारम्, पुरीषपरिष्ठापनमपीहोच्चार उक्तः, प्रश्रवणपरिष्ठापनोपलक्षणं चैतत् तद्विषया समितिः-सम्यगमनं, तत्र सम्यक्प्रवर्तनमिति यावत्, उच्चारसमितिः, तस्यां च, यतत इति यतो-यत्नवान्, तथा आदानंचग्रहणं पीडफलकादेर्निक्षेपश्च-स्थापनंतस्यैव आदाननिक्षेपं, ततइहापि चकारानुवृत्तेस्तस्मिंश्च, इह च 'उच्चारसमिएसुति एकत्वेऽपि बहुवचनं सूत्रत्वात्, समितिशब्दश्च मध्यव्यवस्थितो डमरुकमणिरिवाद्यन्तयोरपि सम्बध्यते, ततश्च ईर्यासमितावेषणासमितौ भाषासमितावादाननिक्षेपसमिताविति योज्यं, यद्वा-ईर्येषणाभाषोचारसमितिष्वित्येकमेव पदं, 'भासाए' इति च एकारोऽ लाक्षणिकः, स चैवं कीदृगित्याह-संयतःसंयमान्वितः सुसमाहितः-सुष्टुं समाधिमानिति सूत्रार्थः / तथामणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्टाबंभइजम्मि, जन्नावाडमुवडिओ // 3 // मनोगुप्त्या मनोनियन्त्रणात्मिकया गुप्तः-संवृतो मनोगुप्तो, मध्यपदलोपी समासः, मनो गुप्तमस्येति वा मनोगुप्तः, अहिताग्न्यादित्वाच गुप्तशब्दस्य परनिपातः, एवं वाग्गुप्तोनिरुद्धवाक्प्रसरः, कायगुप्तः असत्कायक्रियाविकलो, जितेन्द्रियः प्राग्वत्, पुनरुपादानमस्य कादाचित्कवनिराकरणार्थमतिशयख्यापनार्थ वा भिक्षार्थभिक्षानिमित्तं, न तु निष्प्रयोजनमेव, निष्प्रयोजनगमनसयागमे निषिद्धत्वात्, 'बंभइज्जमि' त्ति ब्रह्मणां-ब्राह्मणानामिज्यायजनं यस्मिन् सोऽयं ब्रोज्यस्तस्मिन्, 'जण्णवाडं ति यज्ञवाट यज्ञपाट वा उपस्थितः प्राप्तइति सूत्रार्थः। तंच तत्राऽऽयान्तमवलोक्य तत्रत्यलो का यदकुर्वस्तदाहतंपासिऊणमिजंतं, तवेण परिसोसियं। पंतोवहिउवगरणं, उवहसंति अणोरिया // 4 // 'त' मिति बलनामानं मुनि "पासिऊणं' ति दृष्ट्वा-निरीक्ष्य 'इजंतं' तिआयन्तमागच्छन्तंतपसा-षष्ठाष्टमदिरूपेण परि-समन्ताच्छोषितम्अपचीतिकृतमांसशोणितं कृशीकृतमिति यावत्परिशोषितं, तथा प्रान्तजीर्णमलिनत्वादिभिरसारमुपधिः वर्षाकल्पादिः स उव च उपकारणंधर्मशरीरोपष्टम्भहेतुरस्येति प्रान्तापध्युपकरणस्तं, यदा-उपधिः स एवोपकरणम्-औपग्रहिकं, द्वन्द्वगर्भश्च बहुव्रीहिः उवहसंति' त्ति उपहसन्ति आर्याः-उक्तनिरुक्ता न तथा अनार्याः, यद्वा-अनार्याम्लेच्छाः, ततश्च साधुनिन्दादिना अनार्या एवं अनार्या इति सूत्रार्थः। कथं पुनरनार्याः? कथं चोपहसितवन्तस्ते? इत्याहजाइमयं पडिथद्धा, हिसगा अजिइंदिया। अबंभचारिणो बाला, इमं वयमब्बवी॥५॥ कयरे आगच्छाई दित्तरूवे, काले विकरलो पुक्कनासे। ओमचेलए पंसुपिसायभूए, संकरदसं परिहरिय कंठे // 6 //