________________ सोहम्मकप्प 1170- अभिधानराजेन्द्रः - भाग 7 सोहि भवति न वा ? तथा तत्र प्रतिमास्सन्ति नवेति / प्रश्नः, अत्रोत्तरम्सौधर्मे द्वात्रिंशल्लक्षविमानानि, देवलोकमध्ये, किल्बिषिकविमानानि तु स्वर्लोकादधः संग्रहिण्यादौ प्रतिपादितानि सन्ति, तथा तेषां सम्यक्त्यपूजाप्रतिमाक्षराणिशास्त्रे दृष्टानिनस्मरन्तीति॥ 136 / / सेन० 3 उल्ला०1 ('ठाण' शब्दे 4 भागे सौधर्मकल्पविशेषः।) सोहम्मवडिंसय पुं० (सौधर्मावतंसक) सौधर्मदेवलोकस्य मध्यभाग-- वर्तिनि शक्रनिवासभूते प्रधानविमाने, स० सोहम्मवडिंसयस्सणं विमाणस्स एगमेगाए बाहाए पणसटिं पणसर्हि भोमा पण्णत्ता / (सू०६५४) 'सोहम्मे' त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्ति शक्रनिवासभूतम् 'एगमेगाए' त्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि भौमानि नगराकाराणि विशिष्टस्थानानीत्येके। स०६५सम० / सौधर्मे कल्पे चतुर्दिक्षु चत्वारि विमानानि मध्ये पञ्चमः सौधर्मावतंसकः, पुंस्त्वं च प्राकृतत्वात्। रा०। सोहम्मिंदपुं० (सौधर्मेन्द्र) शक्रे, प्रज्ञा०२ पद। सोहय त्रि० (शोधक) शोधयतीति शोधकः / अनेकजन्मभाविकर्मादि तापने, आ०म०१ अ०। सोहा स्त्री० (शोभा)"ख-घ-थ-ध-भाम्" // 8 / 1 / 187 // इत्यनेन भस्य हः / शृङ्गारे, ज्ञा०१ श्रु०१ अ०। प्रभायाम, ज्ञा० 1 श्रु० ६अ। सोहि स्त्री० (शुद्धि) शुध-शौचे, स्त्रियां क्तिन्। शोधन शुद्धिः। विमलीकरणे, आव०। इदानीं शुद्धिः 'शुध' शौचे, अस्य स्त्रियां क्तिन, शोधनं शुद्धिः विमलीकरणमित्यर्थः, सा च नामादिभेदतः षोदैव, तथा चाऽऽहनाम ठवणा दविए, खित्ते काले तहेव भावे य। एसो खालु सुद्धीए, निक्खेवो छव्विहो होइ / / 1241 // तत्र नामस्थापने गतार्थे द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टरुपयुक्तस्य वा निवस्य वस्त्रसुवर्णादा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्यावय॑ते क्रियते वा क्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्र व्यावय॑ते क्रियते वा शुवादिभिर्वा कालस्य शुद्धिः क्रियते इति। भावशुद्धिर्द्विधाप्रशस्ता, अप्रशस्ता च / प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं-स्पष्टतापादनमित्यर्थः, अथवौवत एवोपयुक्तस्य सम्यग्दृष्टः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति गाथार्थः / आव०१ अ० / आ० म०। आ०चू०। दोषविनाशने, आ०चू०१अ० शल्योद्धारणे, ध०२ अधि० / नि० चू० / प्रायश्चित्ते, व्य० 1 उ० / आलोचना व्यवहारः प्रायश्चित्तं शुद्धिरिति पर्यायाः / व्य०१ उ० 1 आ० चू० / स्था० / दुष्टकर्मनाशस्वरूपायां लघुकर्मतायाम्, उत्त०१उ०। विशे०। मिथ्यात्वममत्वापगमात्सम्यक्त्वं शुद्धिरुच्यते। विशे०। यथा तिरश्चां गुरुसमक्ष प्रायश्चित्तं विनाऽपि शुद्धिर्जायते, तथा नृणां सा कथं न भवतीति ? प्रश्नः / अत्रोत्तरम् तिरश्चां गुरुसमक्षं प्रायश्चित्तं विना शुद्धिर्भवति, तथाविधसामग्यभावात् मनुष्याणा प्रायः तथाविधसामग्रीसद्भावात् तद्विना न शुद्धिः, अत एव गुद्यियोगे तत्परिणामवतां तदग्रहणेऽपि शुद्धिः तद्योगे चतदगृह्णतां तत्परिणामाभावादशुद्धिरिति॥१०६।। सेन०२ उल्ला०॥ पाक्षिक प्रतिक्रमणमुखवस्त्रिकाप्रतिलेखनानन्तरं पौषधिकं विना प्रतिक्रमणसूत्रादेशो दत्तः शुद्ध्यति न वा इति? प्रश्नः अत्रोत्तरम्मुख्यवृत्त्या पौषधिकस्य दीयते ईदृशं वृद्धवचोऽस्ति, परमेकान्तो ज्ञातो नास्तीति।। 120 // सेन०२ उल्ला०। तथा-सिंहदिसक्रान्तित्रयमध्ये तथा वर्द्धितमासमध्येचकानि कर्मकार्याणि शुद्ध्यन्ति ? कानि नेति प्रश्नः अत्रोत्तरम्-दीक्षाप्रतिष्ठादिकं न शुद्ध्यति, अन्यानितुशुद्ध्यन्तीति॥ 24 // तथा-विक्रयकारिसमुच्छेदितनामलाञ्छनानां प्रतिष्ठितार्हत्प्रतिमानां पुनर्लक्ष्मादिकरणं शुद्ध्यति नवेति ? प्रश्नः, अत्रोत्तरम्-तासामभिधानलक्ष्मादिकरणं प्रायो न शुद्ध्यति, कदाचित्कारणे यद्यावश्यकं कर्त्तव्यं स्यात् तदा तद्विधानानन्तरं प्रतिष्ठितवाक्षेपादिना शुद्धिर्भवतीति श्रीभगवत्पादानामनुशिष्टिरिति / / 25 / / सेन०३ उल्ला० / तथा-उपवासी श्राद्धः सन्ध्यायां समायिक विधाय मुखवस्त्रिका प्रतिलिख्य प्रत्याख्यानं करोत्यन्यथा वा ? यदि तथैव तदा वन्दनकदाननिषेधः कस्मादिति ? प्रश्नः, अत्रोत्तरम्-सामाचारीप्रमुखग्रन्थेषु भोजनदिवसे वन्दनकदानानन्तरं प्रत्याख्यानकरणाक्षराणि सन्ति, परमुपवासदिने वन्दनकदानानन्तरं प्रत्याख्यानकरणविधिर्नास्ति, मुखपोत्तिका तु प्रतिलेखिता युज्यते यस्मात्तां विना प्रत्याख्यानंन शुद्ध्यतीति सामाचार्यस्ति, तथोपधानेऽपि तथैव करणादिति॥ 76 / / सेन०३ उल्ला०।तथा-कृतगृहसत्कप्रत्याख्यानः श्राद्धो गृहे गत्वाऽन्यत्र भोजनं करोति तदा शुद्ध्यति किं वा तत्र दन्तधावनं विधायेति ? प्रश्नः अत्रोत्तरम्-कृत गकृहसत्कप्रत्याख्यानः श्रावको गृहे गत्वा पारित गृहसत्कप्रत्याख्यानो दन्तधावनकरणमन्तराऽप्यन्यत्र भुङ्क्ते तदा शुद्ध्यतीति वृद्धाः // 63 // सेन०३ उल्ला०1 तथाचैत्रमासीयकायोत्सर्गविस्मृतौ यत् स्वयं योगोद्वहनं न कल्पते, तथा अन्येषां योगक्रियाप्रवेदनादिकं कारयितुं शक्यतीति न वा? तथा कालग्रहणं दण्डिकाधारणं दिगालोगश्च शुद्ध्यतीति नवेति ? प्रश्नः, अत्रोत्तरम्-चैत्रसम्बन्धिकायोत्सर्गाऽकरणे तस्य योगसम्बन्धिनी क्रिया स्वयं कर्तुं परेषां कारयितुंचन कल्पत इति।।१५८॥ सेन०३ उल्ला०। तथा प्रवालाद्यक्षमालाग्रे प्रतिक्रान्तिः शुद्ध्यतिन वेति प्रश्नः, अत्रोत्तरम्सूत्रीयनिश्चलमणिकाक्षमालाग्रे स्थापनपुरःसिरक्रियाकरणविधिदृश्यते परम्परयेति॥ 125 / / सेन०३ उल्ला०ा तथा सूर्यग्रहणं यद्भवति तदस्वाध्यायिका कृत आरभ्य कियद्यावद्भवति? तथा यौगिकानां कियन्तिप्रवेदमानिनशुद्ध्यन्तीति? प्रश्नः,अत्रोत्तरं यत्सूर्यग्रहणं भवतितत आरभ्याहोरात्रंयावदस्वाध्यायिका, तदनुसारेणैकंप्रवेदनमशुद्धंज्ञायतइति॥ 210 // सेन० 3 उल्ला० / तथा जिनालये प्रत्याख्यानं पारयितुं शुद्ध्यति नवेति ? प्रश्नः, अत्रोत्तरम् शुद्ध्यतीति सम्प्रदाय इति॥१८४ // सेन०२ उल्ला०।