________________ सूरियाम 1131 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ णि माल्यानि ग्रथितादिभेदभिन्नानि सर्वोषधीन् सिद्धार्थकान्-सर्षपकान् गृह्णन्ति, इहैवं क्रमः-पूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव, ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमुत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं नधुदकमुभयतटमृत्तिका च गृह्णन्ति, ततः क्षुल्लहिमवच्छिशखरिषु सर्वतू (तु) वरसर्वपुष्पसर्वमाल्यसर्वोषधिसिद्धार्थकान, ततस्तत्रैव पद्महदपौण्डरीकहदेषु हृदोदकमुत्पलादीनि च तद्गतानि, ततो हेमवतैरण्यवतवर्षेषु रोहितारोहितांशासुवर्णकुलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमृत्तिका, तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढयेषु सर्वतूवरादीन, ततो महाहिमवद्रूप्यिवर्षधरपर्वतेषु सर्वतूवरादीन्, ततो महापापुण्डरीकहदेषु हृदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिसलिलाहरिकान्तानारीकान्तासु महानदीषु सलीलोदक-मुभयतटमृत्तिकां च, ततो गन्धपातिमाल्यवत्पर्यायवृत्तवैताढ्येषु तूवरादीन्, ततो निषिधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हृदोदकादीनि, ततः पूर्वविदेहापरविदेहेषु सीतासीतोदानदीषु सलिलोदकमुभयतटमृत्तिकां च ततः सर्वेषु चक्रवर्तिविजेतव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमुत्तिकां च, तदनन्तरं वक्षस्कारपर्वतेषु सर्वतूवरादीन, ततः सर्वासु अन्तरनदीषु सलिलोदकमुभयतटमृत्तिका च, तदनन्तरं मन्दरपर्वते भद्रशालवने तूवरादीन, ततो नन्दनवने तूवरादीन् सरसं च गोशीर्षचन्दनं तदनन्तरं सोमनसवने सर्वतूवरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पण्डकयने तूवरपुष्पगन्धमाल्यसरसगोशीर्षचन्दन-दिव्यसुमनोदामानि, 'दद्दरमलए सुगंधिए य गंधे गिण्हति' इति दईरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्कं वा यत् मलयोद्भवतया प्रसिद्धत्वात् मलयजश्रीखण्डं येषु तान् सुगन्धिकान्परमगन्धोपेतान् गन्धान् गृह्णन्ति, 'आसियसंमजिओवलित्तं सुइसम्मट्ठरत्यंतरावणवीहियं करेइ' इति आसिक्तम्-उदकच्छटकेन सन्मार्जित-संभाव्यमानकचवरशोधनेन उपलिप्तमिव गोमयादिना उपलिप्तं तथा सिक्तानि जलेनात एव शुचीनि पवित्राणि संमृष्टानिकचवरापनयनेन रथ्यान्तराणि आपणवीथय इवहट्टमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगइया देवा हिरण्णविहिं भाएंति' अप्येकका:-केचन देवा हिरण्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् / 'उप्पायनिवये' त्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तम्, एवं निपातोत्पातं संकुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामम् आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयन्ति, अप्येकका देवा 'वुझारेंति' बुक्कारशब्दं कुर्वन्ति, 'पीणंति पीनयन्ति-पीनमात्मानं कुर्वन्ति स्थूला भवन्तीत्यर्थः,'लासतिलासयन्ति लास्यरूपं नृत्यं कुर्वन्ति, 'तंडवेंति' त्ति ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति, 'वुक्कारेंति' वुक्कारं कुर्वन्ति 'अप्फोडति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति 'त्ति उच्छलयन्ति 'पोच्छलंति' प्रोच्छलयन्ति 'उवयंति' ति अवपतन्ति 'उप्पयंति' ति उत्पतन्ति 'परिवयंति' त्ति परिपतन्ति; तिर्यक् निपतन्तीत्यर्थः / 'जलंति' ति ज्यालामालाकुला भवन्ति 'तविंति' ति तप्ता भवन्ति प्रतप्ता भवन्ति 'थुक्कारेंति' ति महता शब्देन थूत्कुर्वन्ति 'देवोक्कलियं करेंति' त्ति देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, 'देवकहकहं करेंति' त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्वोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति दुहदुहकमित्यनुकरणमेतत्। 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाइंलुहइ' इति तत्प्रथमतया-तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया सुरभ्या गन्धकाषायिक्या सुरभिगन्धाकषायद्रव्यपरिकर्मितया लघुशाटिकया गात्राणि रूक्षयन्ति' नासानीसासवायवोज्झ' मिति नासिकानिः श्वासवातवाह्यमनेन तलक्षणतामाह, 'चक्खुहर' मिति चक्षुर्हरति आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात् इति चक्षुहरं 'वण्णफरिसजुत्त मिति वर्णेन स्पर्शन चातिशयेनेति गम्यते युक्तं वर्णस्पर्शयुक्तं, 'हयलालापेलवाइरेग' मिति हयलालाअश्वलाला तस्य अपि पेलवमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नैकार्थे समासो बहुल' मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलंश्वेतं, तथा कनकेन खचितानिविच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्मआकाशस्फटिकं नामातिस्वच्छः स्फटिक विशेषस्तत्समप्रभं दिव्यं देवदूष्ययुगलं 'नियंसेइ' परिधत्ते परिधाय हारादीन्याभरणानि पिनाति, तत्र हारः-अष्टादशसरिकः अर्द्धहारोनवसरिकः एकावली-विचित्रमणिका मुक्तावलीमुक्ताफलमयी रत्नावली-रत्नमयमणिकाल्मिका प्रालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आभरणविशेषः, कटकानि-कलाचिकाभरणानि त्रुटितानिबाहुरक्षिकाः अङ्गदानिबाह्वाभरणविशेषाः दशमुद्रिकानन्तकं हस्ताङ्गुलिसंबन्धि मुद्रिकादशकं कुण्डले-करणाभरणे 'चूडामणि' मिति चूडामणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषामङ्गलाशान्तिरोगप्रमुख-दोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकड मउडमिति' चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः, तं 'दिव्यं सुमणदाम ति पुष्पमाला 'गंथिमे त्यादि, ग्रन्थिम-ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं 'भावादिमः // 6 / 4 / 21 // प्रत्ययः यत्सूत्रादिना ग्रथ्यते तद्ग्रन्थिममिति भावः, पूरिमं यत् ग्रथितं सत् वेष्ट्यते, तथा पुष्पलम्बूसको; गण्डक इत्यर्थः पूरिमं येन वंशशलाकामयं पञ्जरादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते। तए णं से सूरिया देवे के सालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेणं चउटिवहेणं अलंकारेणं