________________ सूरियाभ . 1126 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सव्यमणिमयी' त्यादि प्राग्वत्। 'तीसेण मित्यादि, तस्याश्च मणिपीठिकाया | उपरि अत्र माहनेको देवच्छन्दकः प्रज्ञप्तः, स च षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके अष्टशतम्-अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति। 'तासि णं जिणपडिमाण मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो वर्णावासोवर्णकनिवेशः प्रज्ञप्त, तपनीयमयानि हस्ततलपादतलानि अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नप्रतिसेका नखाः कनकमया जङ्घा कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभयो रिष्ठामय्यो रोमराजयः तपनीयमयाः चूचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवक्षसः शिलाप्रवालमया विद्रुममया ओष्टाः स्फटिकमया दन्ताः तपनीयमया जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षप्रतिसेकाः, अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो भुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तयनीयमय्यः केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरि मूर्द्धजाः केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशंसकोरेण्टमाल्यादिधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, तथा तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोर्दै द्वे चामरधारप्रतिमे प्रज्ञप्ते,तेच "चंदप्पभवयरवेरुलियनानामणिरयणख-चियचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रानानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात्, 'सुहमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा "संखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ' इतिप्रतीतं, चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति, ताश्च 'सव्वरयणामईओ अच्छाओ' इत्यादि प्राग्वत, 'तासि ण मित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्दके तासां जिनप्रतिमानांपुरतः अष्टशतघण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशते सुप्रतिष्ठानामष्टशत मनोगुलिकानांपीठिकाविशेषाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकानामष्टशतंहयकण्ठानामष्टशतं गजकण्ठानाम् अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशते महोरगकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतमाल्यचेगरीणां, मुकुलानि पुष्पाणि ग्रथितानिमाल्यानि, अष्टशतं | चूर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणाम, अष्टशतं लोमहस्तकानां लोमहस्तकं च मयूरपुच्छपुजनिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकण्टलकानामपि प्रत्येकम् 2 अष्टयशत वक्तव्यम्, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्कानामष्टशतं कोष्ठसमुद्रकानामष्ठशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टयशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशत हिड्डुलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमञ्जन-समुद्गकानां सर्वाण्यपि अमूनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्टशतं ध्वजानाम्, अत्र सङ्ग्रहणिगाथा, कथो ''दणकलसा भिंगारगा य आयंसया य थाला य। पाति स्स्युपइहा, मणगुलिका वायकरगा य // 1 // चित्ता रयणकरंडा कर गयनरकंठगा य चंगेरी। पडलगसीहणछत्त, चामरा रयणगक झया य॥२॥" अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानिध्वजच्छत्रातिच्छत्रादीनि तु प्राग्वत्। तस्स णं सिद्धायतणस्य उत्तरपुरच्छिमे णं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाए सुहम्भाए तहेव जाव मणिपेढिया अट्ठजोयणाई देवसयणिजं तहेव सयणिज्जवण्णओ अट्ठ मंगलगा झया छत्तातिच्छत्ता। तीसे णं उववाएसमाए उत्तरपुरच्छिमेणं एत्थ णं महेगे हरए पण्णत्ते एगं जोयणसयं आयामेणं पण्णासं जोयणाइं विक्खंभेणं दस जोयणाई उव्वेहेणं तहेव, तस्स णं हरयस्स उत्तरपुरच्छिमे णं एत्थणं महेगा अभिसेयसभा पण्णत्ता सुहम्भागमएणं जाव गोमाणसियाओ मणिपेढिया सीहा सणं सपरिवारं जाव दामा चिट्ठति, तत्थ णं सूरियाभस्स देवस्स बहुअमिसेयमंडे संनिखित्ते चिट्ठइ, अट्ठ मंगलगा तहेव, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं अलंकारियसभा पण्णत्ता, जहा सभा सुधम्मा मणिपेढिया अट्ठजोयणाईसीहासणं सपरिवारं, तत्थ णं सूरियाभस्स देवस्स सुहुबहुअलंकारियमंडे संनिक्खित्ते चिट्ठति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा ववसायसभा पण्णत्ता जहा उववायसभा ०जाव सीहासणं सपरिवारं मणिपेढिया अट्ठ मंगलगा तत्थ णं सूरियाभस्स देवस्स, एत्थ णं महेगे पोत्थयरयणं सन्निखित्ते चिट्ठइ, तस्सणं पोत्थयरणस्स इमेयारूवे वण्णावासे पण्णत्ते, तं जहा-रयणामयाई पत्तगाई रिट्ठामईओ कंबिआओ तवणिज्जमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्पासणे रिहामए छंदणे तवणिज्जमई संकला रिट्ठामई मसी वइरामई लेहणी रिट्ठामयाइं अक्खराइं धम्मिए सत्थे, ववसायसभाए णं उवरिं अट्ठट्ट मंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थणं नंदापुक्खरिणी पण्णत्ता