________________ सूरियाभ 1112- अमिधानराजेन्द्रः - भाग 7 सूरियाभ भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषां च भौमाना बहुमध्यदेशभागे यानित्रयस्त्रिंशत्तमानि भौमानितेषां बहुमध्यदेशभागे प्रत्येक प्रत्येकं सूर्याभदेवयोग्यं सिंहासनंतेषां च सिंहासनानांवर्णकोऽपरोत्तरोत्तर | पूर्वादिषु सामानिकादिदेवयोग्यानि भद्रासनानि च क्रमेण यानविमानयद्वक्तव्यानि शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं परिवाररहितम्। 'तेसिण' मित्यादि, तेषां द्वाराणाम् उत्तमा आकारा-उपरितना आकारा उत्तरङ्गादिरूपाः क्वचित् 'उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेल्जिाव रिटेहिं इति रत्नैः-सामान्यतः कर्केतनादिभिः१, यावत्करणात्-वजैः 2 वैडूर्यः 3 लोहिताक्षैः 4 मसारगल्लैः 5 हंसगर्भः 6 पुलकैः 7 सौगन्धिकैः ज्योतीरसैः अझैः / १०अञ्जनैः 11 रजतैः 12 अञ्जनपुलकैः 13 जातरूपैः 14 स्फटिकैरिति परिग्रहः 15 षोडशैरिष्टः 16 'तेसिण' मित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि / यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति अत ऊर्ध्व केषुचित् पुस्तकान्तरेष्वेवं पाठः-'एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारिदारसहस्सा भवंतीति मक्खाय' मितिसुगम सूरियाभस्स ण' मित्यादि सूर्याभस्य विमानस्य चतुर्दिश-चतस्रो दिशः समाहृता--- श्चतुर्दिक् तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अबाहाए' इति बाधनं बाधा; आक्रमणमित्यर्थः, न बाधा अबाधाअनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तराल मुक्त्वेतिभावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तश्च जीवाभिगमचूर्णा-'अणेगजाईहिं उत्तमेहिं रुक्खेहिं वणखंडे' इति, 'तद्यथे' त्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति-अशोकवृक्षप्रधानं वनमशोकवनमेवं सप्तपर्णवचनं चम्पकवनं चूतवनमपि भावनीयं, 'पुरच्छिमेण मित्यादिपावसिद्धम् अत्र संग्रहणिगाथा-'पुव्वेण असोगवणं, दाहिणतो होइसत्तिवण्णवणं अवरेणं चंपकवणं, चूयवणं उत्तरे पासे॥१॥''तेण' मित्त्यादि, तेच वनखण्डाः सातिरेकाणि अर्द्धत्रयोदशानि सार्द्धानि द्वादश योजनशतसहस्राणि (आयामतः) पञ्चयोजनशतानि विष्कम्भतः प्रत्येकं २प्राकारपरिक्षिप्ताः पुनः कथंभूतास्ते वनखण्डा ? इत्याह-'किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः सूचितः-'नीला नीलोभासा हरिया हरियोभासा भासा सीया सीयोभासा निद्धा निद्धोभासा तिव्वा तिव्वो भासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घण कडियकडियच्छाया रम्मा महामेहनिकुरुंबभूया, ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयमंतो पवालमंतो पत्तमंतो पुप्फमंतो बीयमंतो फलमंतो आणुपुव्वसुजायरुइलवट्टपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणेगनरवामप्पसारियअगेज्झघण-विपुलवट्टखंधा अच्छूिद्दपत्ता अविरलपत्ता अवाइणपत्ता अणीइयपत्ता निद्धराजरढपंडुपत्ता नवहरिय- | भिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवणिग्गयवरतरुणपत्तपल्ल्वकोमलउजलचलंतकिसलयकुसुम-पवालपल्लंवकरणसिहरा निचं कुसुमियानिच्चं निचं लवइया निचं थवइया निचं गुलझ्या निचं गोच्छिया निश्चंजमलिया निच्च जुयलिया निश्चं विणमिया निञ्च पणमिया, निचंकुसुमियमउलिपलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपडिमंजरिवडंसयधरा सुयवरहिणमयणसलागाकोइलकोरकभिंगारककोंडलजीवंजीक्कनंदीमुखकविंजलपिंगलक्खगकारंडचक्कदागकलहंससारस-अणेगसउणिमिहुणवियरियसद्दइयमहुरसरनाइयसंपिडियदरिभमरमहुयरिपहकरपरिलेंतछप्पयकुसुमासवलोलमहुरगुमगुमंत-गुंजंतदेसभागा अभिंतरपुप्फफलबाहिरपत्तच्छन्ना पत्तेहि य पुप्फेहि य उवच्छन्नपलिच्छन्नाज्ञ नीरोगका मउफासा अकंटगा णाणाविहगुच्छगुम्ममंडवगोवसहिया विचित्तसुहकेउभूया वाविपुक्खरणिदीहियासुससुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुसुरभिमणहरं च गंधद्धणिं मुयंता सुहकेऊ केउबहुला अणेगसगडरहजाणजुग्गगिल्लिथिल्लिसीय-संदमाणीपडिमोयणा सुरम्मा' इति अस्यव्याख्या-इह प्रायो वृक्षाणां मध्यमेवयसि वर्तमानानि पत्राणि कृष्णानि भवन्तिततस्तद्योगात् वनखण्डा अपि कृष्णाः, न चोपचारमात्रात्ते कृष्ण इतिव्यपदिश्यन्ते किन्तु तथा प्रतिभासनात्, तथा चाह 'कृष्णावभासा' यावति भागे कृष्णाभासपत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवमासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाह-नीलावभासाः, समासः प्राग्वत्, यौवनेतान्येव पत्राणि किसलयत्वं रक्तत्वं चातिक्रान्तानि ईषत् हरितालाभानिपाण्डूनि सन्ति हरितानीतिव्यपदिश्यन्ते, ततस्तद्योगात्वनखण्डा अपिहरिताः, न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासात्, तथा थाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद्वनखण्डा अपि शीता इत्युक्ताः, न च ते गुणतस्तथा किन्तु तथैव, तथा चाह-शीतावभासाः अधोभागवर्त्तिनां वैमानिक देवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति, तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भण्यन्ते तीव्राश्च ततः तद्योगात् वनखण्डा अपि स्निग्धाः तीव्राश्च इत्युक्ताः, न चैतदुपचारमात्रं किन्तु तथावभासोऽप्यस्तिततउक्तं स्निग्धावभासास्तीवावभासा इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततोनावभासमात्रोपदर्शनेन यथावस्थितंवस्तुस्वरूपंवर्णित भवति किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरःसरं विशेषणान्तरमाह-'किण्हा किण्हच्छायाः' इत्यादि, कृष्णा वनखण्डाः कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, ततोऽय