________________ सूरियाभ 1106 - अभिधानराजेन्द्रः - भाग 7 सूरियाम लगाइं सटारयणामयाइं अच्छाई जाव पडिरूवाइं / तेसिणं तोरणाणं पुरओ दो दो सीहासणा पन्नत्ता, तेसिणं सीहासणाणं वन्नओजाव दामा, तेसिणं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पन्नत्ता, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकनिया वइरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकचंणसलागा दद्दरमलयसुगंधी सव्वोउयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा / तेसि णं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओ णं चामराओ (चंदप्पवभवेरुलियवरनानामणिरयणखचियचित्तदण्डाओ) णाणामणिकणगरयणविमलमहरिहतवणिजुञ्जलविचित्तदंडाओ वल्लियाओ संखंककुंददगरयअमयमहियफेणपुंजसन्निगासातो सुहुमरययदीहवालातो सब्रयणामयाओ अच्छाओ जाव पडिरूवाओ / तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालस० हिंगुलयस० मणोसिलासमुग्गा अंजणसमुग्गा सय्वरयणामया अच्छा जाव पडिरूवा। (सू०२८) 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश षोडशजालकटकाः प्रज्ञप्ताः, जालकटको-जालककीर्णो रम्यसंस्थानः प्रदेशविशेषः, ते च जालकटकाः 'सव्वरयणामया अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत्। 'तेसिण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां षोडशघण्टापरिपाट्यः प्रज्ञप्ताः, तासांच घण्टानामयमेतद्रूपो वर्णावासोवर्णकनिवेशः प्रज्ञप्तः, तद्यथा-जम्बूनदमय्यो घण्टा वज्रमय्यो लालाः नानामणिमया घण्टापााः तपनीयमय्यः शङ्खला यासु ता अवलाम्बतास्तिष्ठन्ति रजतमय्यो रजवः 'ताओणं घण्टाओ' इत्यादि, ताश्च घण्टा ओघेनप्रवाहेण स्वरोयासांता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासांता मेघस्वरा हसस्येव मधुरः स्वरो यासांता हंसस्वराः, एवं क्रौञ्चस्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः एव दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिः नन्दिस्वराः नन्दिवत् घोषो हादो यासांता नन्दिघोषाः मञ्जुः-प्रियः स्वरो यासांता मञ्जुस्वरा, एय 'मञ्जुघोषाः किं बहुना ? सुस्वराः सुस्वरघोषाः, 'उरालेण' मित्यादि प्राग्वत् / 'तेसि ण मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विधातो नैषेधिक्यां षोडश षोडश वनमालापरिपाट्यः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानां च यानि किशलयानि ये च पल्लवास्तैः समाकुलाः सम्मिश्राः 'छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षट्पदपरिभुज्यमानशोभमाना-अत एव सश्रीकाः पासाईया इत्यादि पदचतुष्टयं प्राग्वत्। 'तेसिणंदाराण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैक नैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश षोडश प्रकण्ठकाः प्रज्ञप्ताः, प्रकण्ठो नाम पीठविशेषः, आह चजीवाभिगममूलटीकाकार:'प्रकण्ठौ पीठविशेषा' विति, ते च प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशंपञ्चविंशत्यधिकं योजनशतं बाहल्योनपिण्डाभावेन 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमया-वज्ररत्नमया, 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्, 'तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानाम् उपरि प्रत्येक प्रत्येकम्-इह एकं प्रति प्रत्येकमित्याभिमुखे वर्तमानः प्रतिशब्दः समस्यते, ततो वीप्साविवक्षायां द्विर्वचनं, प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासाद-विशेषाः, उक्तंचजीवाभिगममूलटीकायां"प्रासादावतंसको-प्रासादविशेषा''विति, ते च प्रासादावतंसका अर्धतृतीयानि योजन-शतानि ऊर्ध्वम् उचैस्त्वेन पञ्चविंशं योजनशतं विष्कम्भेन, "अब्भुग्गय-मूसियपहसियाविव' अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः, "विविहमणिरयणभत्तिचित्ता' विविधाअनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानिकर्केतनादीनि तेषां भक्तिभिः विच्छित्तिविशेषैश्चित्रानानारूपाः आश्चर्यवन्तो वा नानाविधमणिरत्नभक्तिचित्राः, “वाउट्यविजयवेजयंतीपडागछत्ताइच्छत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः अभ्युदयस्तत्सूचिका वैजयन्त्यभिधानायाः पताकाः, अथवा-विजया इति वैजयन्तीनांपार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पताकास्ता एव विजयवर्जिता छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः, तुङ्गाउचा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमणुलिहंतसिहरा' इति गगनतलम्-अम्बरतलम् अनुलिखन्ति-अभिलङ्घयन्ति शिखराणि येषां ते तथा, जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जरात् उन्मीलिता इव बहिष्कृता इव पञ्जरोन्मीलिता इव यथा किल किमपि वस्तु पञ्जरात् वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानिमणिक नकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि चद्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानिभित्त्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्राः-तथा नानारूपा वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदाभानि-मणिमय-पुष्पमालास्तैरल कृतानिशोभितानि नानामणिदामा-लङ्कृतानितथा अन्तर्बहिश्चश्लक्ष्णामश्रृणाः, तथातप