SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1102 - अमिधानराजेन्द्रः - भाग 7 सूरियाभ त्सेधयोः समत्वात् समचतुरस्रं तच्च तत्संस्थानं च 2, संस्थानम्आकारस्तेन संस्थितो व्यवस्थितो यः स तथा 'जाव उहाए उद्वेइ' इति यावत्करणात्-वञ्जरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलसेसे चउद्दसपुथ्वी चउनाणोवगए सव्वक्खरसन्निवाईसमणस्स भगवतोमहावीरस्स अदूरसामन्त उड्डजाणू / अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्याणं भावेमाणे विहरइ, तए णं से भगवं गोयमे जायसड्डे जायसंसए जायकोउहल्ले उप्पन्नसड्डे उप्पन्नसंसएउप्पन्नकोउहल्ले संजायसड्डे संजायसंसए संजायकोउहल्ले समुप्पण्णसड्डे समुप्पणसंसए समुप्पण्णकोउहल्ले उहाए उट्टेइ' इति द्रष्टव्यं, तब नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, तथा कनकस्य-सुवर्णस्य यः पुलकोलवस्तस्य यो निकषः-कषपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्थ हस्ताग्रं स्पृष्ट्वा लोको वदति-स्पृष्टो मया देवदत्त इति, कनकपुलकनिकषवत् पद्मवच्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवाकनकस्य यः पुलकोद्रवत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसरवत्यो गौरः सपद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरण-रहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्-अधृष्यंतपः-अनशनादियस्य सतथा, यदन्येन प्राकृतेनपुंसान शक्यते चिन्तयितुमपि मनसा तद्विधेन; तपसा युक्त इत्यर्थः, तथा दीप्तंजाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपोधर्मध्यानादि यस्य स तथा, 'तत्ततवे' इति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति महत्वे' इति महान्-प्रशस्तमाशंसादोषरहितत्वात् तपो यस्य स महातपाः, तथा 'उराले' इति, उदारः-प्रधानः, अथवा-उरालो-भीष्मः उग्रादिविशिष्टतपः करणतः पार्श्वस्थानामल्पसत्त्वानामतिभयानक इति भावः, तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इति यावत्, तथा / घोरा–अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स धोरगुणः, तथा घोरैस्तपोभिस्तपस्वी धोरतपस्वी, 'घोरबंभचेरवासी' इतिधोरंदारुणमल्पसत्त्वैर्दुदरनुचरत्वात् ब्रह्मचर्य यत् तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' इति उच्छूढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः, 'संखित्तविउलतेउलेसे' इति संक्षिप्ताशरीरान्तर्गतत्वेन हस्वतां गता विपुल-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याविशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य सतथा,'चउद्दसपुव्वी' इति चतुईस पूर्वाणि विद्यन्ते। यस्य तेनैव तेषां रचित्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह'चउनाणोवगए' मतिश्रुतावधिमनःपर्याय ज्ञानचतुष्टयसमन्वितः, उक्तविशेषण-द्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह-'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः-संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति?-या काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादिति कृत्वा शिष्याचारत्वाच श्रमणस्य भगवतो महावीरस्यादूरसामन्ते विहरतीति योगः, तत्र दूरं-विप्रकृष्ट सामन्तं-सन्निकृष्टं तत्प्रतिषेधाददूरसामन्तं; ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह-'उड्डेजाणू अहोसिरे' ऊर्ध्व जानुनी यस्यासावूर्ध्वजानुः अधःशिरा नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु-नियतभूभागनियमितदृष्टिरित्यर्थः, 'झाणकोट्ठो वगए' इति ध्यानधर्मध्यानं शुक्लध्यानंचतदेवकोष्ठः-कुशूलोध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथा हि कोष्ठको धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, 'संयमेन' पञ्चाश्रवनिरोधादिलक्षणेन तपसा अनशनादिना चशब्दोऽत्र समुचयार्थों लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थ, प्राधान्य संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्म-निर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति 'अप्पाणं भावेमाणे विहरति' इति, आत्मानं वासयन् तिष्ठति। 'तए ण' मित्यादि, ततोध्यानकोष्ठोपगतविहरणादनन्तरं 'ण' मिति वाक्यालङ्कारे स भगवान् गौतमो 'जातसड्डे' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र जाताप्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वावगमं प्रति यस्यासौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अवनधारितार्थ ज्ञानं, सचैवम्-इत्थं नामास्य दिव्या देवद्धिर्विस्तृता अभवत्, इदानींसा व गतेति, तथा 'जायाकुतूहले' इति जातं कुतूहलं यस्य स जातकुतूहलः जातौत्सुक्य इत्यर्थः, तथा कथममुमर्थ भगवान् प्ररूपयिष्यति इति, तथा 'उप्पन्नसड्ढे उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्नश्रद्ध इत्येतदेवास्तु किमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धत्वेनैवत्पन्नश्रद्धत्वस्य लब्धत्वात्, न हि अनुत्पन्ना श्रद्धा प्रवर्तत इति, अत्रोच्यते-हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तश्रद्धः? उच्यते-यत उत्पन्नश्रद्धः, इति हेतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात् यथा प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी' मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रवृत्तभास्करत्वमुपगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेहे तुतयोपन्यस्जमिति सम्यक् 'उत्पन्नसड्ढे उत्पन्नसंसये' इतिप्राग्वत्, तथा 'संजायसड्डे' इत्यादि पदषटकंप्राग्वत्, नवरमिह संशब्दःप्रकर्षादिवचनोवेदितव्यः,'उठाए उट्टेड'
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy