________________ सूरियाभ 1086 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियतो अंबसालवणतो चेइयाआ पडिनिक्खमंति पडिनिक्ख-मित्ता ताए उक्किट्ठाए ०जाव वीइवयमाणे 2 जेणेव सोहम्मे कप्पे जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति 2 त्ता सूरियामं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेति २त्ता तमाणत्तियं पचप्पिणंति। (सू०१०) 'तए णमि' त्यादि सुगम, यावत् ‘से जहानामए भइयदारए सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कश्चिभृतिकदारकः-भृतिं करोति भृतिकः-कर्मकरः तस्य दारको भृतिदारकः स्यात्, किंविशिष्ट इत्याह-तरुणः प्रवर्द्धमानवयाः (ननु दारकः वर्धमानवया) एव भवति ततः किमनेन विशेषणेन ? न आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासन्नमृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवम् आरम्भस्तोऽर्थवद्विशेषणम्, अन्ये तुव्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं, तथा तरुणमिदमश्वत्थपत्रमिति, ततः स भृतिकदारकस्तरुण इति, किमुक्तं भवति? अभिनवो विशिष्टवण्णादिगुणोपेतश्चति, बलसामर्थ्य तद्द्यस्यातीति बलवान्, तथा युगं-सुषमदुषमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति ? कालोपद्रवोऽपि सामर्थ्यविघहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम्, 'अप्यायंके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्कोज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहसतो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिंटुंतरोरुपरिणए' इति दृढानि अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा धनम् अतिशयेन निचितौ-निविडतरचयमापन्नौ वलिताविव वलितो वृत्तौ स्कन्धौ यस्य च धननिचितवलितवृत्तस्कन्धः, 'चम्मैट्ठगदुधणमुट्ठियसमाहयगत्ते' इति चर्मेष्टकेन द्रुघणेन मुष्टिकया च-मुष्ट्या समाहत्य 2 ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स चर्मेष्टकद्रु घणमुष्टिकसमाहतनिचितगात्रः, 'उरस्सबलसमण्णागए' इति उरसि भवम् उरस्यंतच तदलं च उरस्यबलं तत्समन्वागतः-समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साह-वीर्ययुक्त इति भावः, 'तलजमलयुगलवाहु तलौतालवृक्षौ तयोर्य-मलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः 'लंधणपवणजइणपमद्दणसमत्थे' इति लङ्घने-अतिक्रमणे मवने-मनाक् पृथुतरविक्रमवति गमने जवने अतिशीघ्रगतौ प्रमर्दनेकठिनस्यापि वस्तुनश्चूर्णनकरण समर्थः लङ्घनप्लवनजवनप्रमईनसमर्थः, क्वचित् 'लंघणपवणजइणवाया-मणसमत्थे' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयम्, छेकोद्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो-वागमी कुशलः-सम्यक्रियापरिज्ञानवान् मेधावी परस्पराव्याहतः-पूर्वापरानु“सन्धानदक्षः, अत एव 'निपुणसिप्पोवए' इतिनिपुणः यथा भवति एवं शिल्पं-क्रियासु कौशलम् उपगतः, प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शिलाहस्तकं सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, 'दंडसंपुच्छणिं वा' इतिदण्डयुक्ता सम्पुच्छनीसन्मार्जनी दण्डसम्पुच्छनी तां वा 'वेणुसिलागिगं वा' इति-वेणुः वंशस्तस्य शलाका वेणुशलाकास्ताभिर्निर्वृत्ता वेणुशलाकिकीवेणुशलाकामयी सम्मानीतांवा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देवकुलं वा सभांवा' सन्तो भान्त्यस्यामिति सभा ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा प्रपां वापानीयशालाम् आरामं वेति-आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते क्रीडन्तिस आरामोनगरान्नातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तम्, 'उज्जाणं वे ति-उर्ध्व विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानंनगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्कचवराद्यपगमासम्भवात, निरन्तरं न त्वपान्तरालमोचनेन, सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासुदिक्षु विदिक्षुसमन्ततःसामस्त्येनसम्प्रार्जयेत्, ‘एवमेवे त्यादि, सुगमयावत् 'खिप्पामेव पावसमंती' त्यादि, एकान्ते तृणकाष्ठाद्यपनीय क्षिप्रमेवशीध्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः उपशाम्यन्ति-संवर्तकवायुविकुर्वणान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोच्चं पिवेउव्वियसमुग्धाएणं समोहणंति' संवर्तकवातविकुर्वणार्थं हि यद्वेलाद्वयमपि वैक्रियसमुद्धातेन समवहननं तत्किलैकम् इदं त्वभवादलकविकुर्वणार्थं द्वितीयमत उत्कम्-द्वितीयमपि वारं वैक्रियसमुद्धातेन समवहन्यन्ते (घन्ति), समवहत्य चाब्भवादलकानि विकुर्वन्ति, वाःपानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि, मेघा इत्यर्थः, अपो विभ्रतीति अब्भ्राणिमेघाः, अब्भ्राणि सन्त्यस्मिन्निति अन्भ्रादिभ्यः' ।।७।२।४६|इति मत्वर्थीयोऽप्रत्ययः / आकाशमित्यर्थः, अब्भ्रे वार्दलकानि अब्भ्रवादलकानि तानि विकुर्वन्ति; आकाशे मेधानि विकुर्वन्तीत्यार्थः, 'से जहानामए भइगदारगे सिया' इत्यादि पूर्ववत् 'निउणसिप्पोवगए एणं महमि' त्यादि, सयथानामको भृतिकदारक एकं महान्तंदकवारक वा-मृत्तिकामयभाजनविशेष 'दगकुंभगं वे त्ति-दकघट, दकस्थालकं वाकंसादिमयमुदकभृतंभाजनंदक्कलसंवा-उदकभृतंभृङ्गारम्, आवरिसिज्जा' इति-आवर्षेत् आसमन्तात्सिचेत्, "खिप्पामेव पतणतणायं' ति-अनुकरणवचनमेतत् प्रकर्षेण स्तनितंकुर्वन्तीत्यर्थः, 'पविजुयाईति' ति-प्रकर्षण