________________ सूरमण्डल 1070 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल पुप्फसंठाणसंठिआ पण्णत्ता,तं चेव सव्वं अव्वं एवरं णाणत्तं जं अंधयारसंठिइए पुव्ववण्णि पमाणं तं तावखित्तसंठिईए णेअव्वं,जंताव खित्तसंठिई पुथ्ववण्णि पमाणं तं अंधयारसंठिईए णेअव्वं ति। (सू०१३५) 'जयाण' मित्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चार चरति तदा किंसंस्थिता-किंसस्थना ताप क्षेत्रस्यसूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः-व्यवस्था प्रज्ञप्ता ? सूर्यातपस्य किंसंस्थानमिति यावत्, भगवानाह-गौतम ! ऊर्ध्वमुखम् अधोमुखत्वे तस्य वक्ष्यमाणाकारासम्भवात् यत् कलम्बुकापुष्पंनालिकापुष्पं तत्सस्थानसस्थिता प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः, इदमेव संस्थानं विशिनष्टि अन्तः मेरुदिशिसङ्कुचिताबहिः-लवणदिशि विस्तृता, तथा अन्तः-मेरुदिशि वृत्ता-अर्द्धबलयाकारा सर्वतो वृत्तमेरुगतान त्रीन् द्वौ वा दश भागान् अभिव्याप्यास्या व्यवस्थितत्वात्, बहिः-लवणदिशि पृथुला भुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयतिअन्तमरुदिशि अङ्क:-पद्मासनोपविष्टस्योत्सङ्गरूपआसनबन्धस्तस्य मुखम्-अग्रभागोऽर्द्धबलयाकारस्तस्येव संस्थितं संस्थानं यस्याः सातथा, बहिः-लवणदिशिशकटस्थोद्धिःप्रतीतातस्या मुखं यतः प्रभृति निश्रेणिकायाः फलकानि बध्यन्ते तचातिविस्तृतं भवति तत्संस्थाना, अन्तर्बहिर्भागौ प्रतीत्य यथाक्रमं सङ्कुचिता विस्तृता इति भावः / आदर्शान्तरेतु'बाहिं सोत्थअमुहसठिआ पाठस्तत्र स्वस्तिकः प्रतीतस्तस्य मुखम्--अग्रभागस्तस्येवातिविस्तीर्णतयासंस्थितं--संस्थान यस्याः सा तथा, अथास्या आयाममाह-'उभओ पासेण' मित्यादि, उभयपार्श्वेन-मन्दरस्योभयोः पार्श्वयोः तस्याः-तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधा व्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे बाहे-द्वे द्वे पार्षे अवस्थिते--अवृद्धिहानिस्वभावे सर्वमण्डलेष्वपि नियतपरिमाणे भवतः; अयमर्थ:-एका भरतस्थसूर्यकृता दक्षिणपार्श्वे, द्वितीया ऐरवतस्थसूर्यकृता उत्तरपार्श्वे इति द्विप्रकारा, सा च पञ्चचत्वारिंशतं 2 योजनसहस्राणि आयामेन, मध्यवर्त्तिनो मेरोरारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता योजनसहस्रैर्व्यवहिते जम्बूद्वीपपर्यन्ते व्यवस्थितत्वात्,एवं पूर्वापरभागयोरपि, यदा तत्र सूर्यो तदाऽय मायामो बोध्यः, एतच सूत्रं जम्बूद्वीपगतायाममपेक्ष्य बोध्य, लवणसमुद्रे तुत्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि एकश्च त्रिभागो योजनस्येति, एतच एकत्र पिण्डितमष्टासप्ततिः सहस्राणि योजनानां त्रीणि शतानि इत्यादिक सूत्रकृदग्रे वक्ष्यतितत्र सोपपत्तिकं निगदिष्यते तेनात्र पुनरुक्तभिया नोक्तम्। सम्प्रत्यनव-स्थितबाहास्वरूपमाह-'दुवे अण' मित्यादि, तस्याः-एकैकस्यास्तापक्षेत्रसंस्थिते द्वे च बाहे अनवस्थिते-अनियतपरिमाणे भवतः, प्रतिमण्डलं यथायोग हीयमानवर्द्धमानपरिमाणत्वात, तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या चैवशब्दो प्रत्येकमनवस्थितस्वभावद्योतनार्थी, तत्र या मेरुपावै विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा यातुलवणदिशि जम्बूद्वीपपर्यन्तमधिकृत्य बाहासा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततयेति। साम्प्रतं सर्वाभ्यन्तरा परिमाणं निर्दिशति-'तीसे ण' मित्यादि, तस्या एकैकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा वाहा मेरुगिरिसमीपे नवयोजनसहस्राणि चत्वारि षडशीत्यधिकानि योजनशतानि नव च दश भागान् योजनस्य परिक्षेपेण, अत्रोपत्त्यर्थ प्रश्नमाह -'एस ण' मित्यादि एष:-अनन्त रोक्तप्रमाणः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपविशेषः कुतः-कस्मात् एवंप्रमाण आख्यातो; नऊनोऽधिको वा इति वदेत् ? भगवानाह-गौतम ! यो मन्दरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्त्वा-दशभिर्विभज्य एतदेव पर्यायेण व्याचष्ट दशभिर्भागे ह्रियमाणे सति एष परिक्षेपविशेष आख्यात इति वदेत् स्वशिष्येभ्यः / अयमर्थः-मेरुणा प्रतिहन्यमानः सूर्यातपो मेरुपरिधि परिक्षिप्य स्थित इति मेरुसमीपेऽभ्यन्तरतापक्षेत्रविष्कम्भचिन्ता, अथैवं सति स त्रयोविंशतिषट्शताधिकैकत्रिंशत्सस्रयोजनमानः सर्वोऽपि मेरुपरिधिरस्य तापक्षेत्रस्य विष्कम्भतामापद्येत इति चेन, न, सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो दीप्तलेश्याकरवाज्जम्बूद्वीपचक्रवालस्य यत्रतत्र प्रदेशे तत्तच्चक्रवालक्षेत्रानुसारेण त्रीन् दशभागान् प्रकाशयति दशभागानां त्रयाणां मीलने यावत् प्रमाण क्षेत्रं तातत्तापयतीत्यर्थः / ननु तर्हि मेरुपरिधेस्रिगुणीकरणं किमर्थम् ? दशभागानां त्रिधा गुणनेनैव चरितार्थत्वात्, सत्या, विनेयानां सुखावबोधाय / भगवतीवृत्तौ तु श्रीअभयदेवसूरिपादा दशभागलब्धं त्रिगुणं चक्रुरिति,अथदशभिर्भागे को हेतुरिति चेत्, उच्यते-जम्बूद्वीपचक्रवालक्षेत्रस्य त्रयो भागा मेरुदक्षिणपार्श्वे त्रयस्तस्यैवात्तरपार्श्वे द्वौ भागौ पूर्वतो द्वौ चापरतः सर्वमीलने दश, तत्र भरतगतः सूर्यः सर्वाभ्यन्तरे मण्डले चरन् त्रीन भागान् दाक्षिणात्यान् प्रकाशयति, तदानीं च त्रीनौत्तराहान् ऐरवतगतः तदा द्वौ भागौ पूर्वतो रजनी द्वौ चापरतोऽपि यथा यथा क्रमेण दाक्षिणात्य औत्तराहो वा सूर्यः सञ्चरति तथा तथा तयोः प्रत्येक तापक्षेत्रमग्रतो वर्द्धते पृष्ठतश्च हीयते, एवं क्रमेण सञ्चरणशीले तापक्षेत्रे यदैकः सूर्यः पूर्वस्यां परोऽपरस्या वर्तते तदा पूर्वपश्चिमदिशोः प्रत्येक तीन भागाँस्तापक्षेत्रं द्वौ भागौ दक्षिणोत्तरयोः प्रत्येकं रजनीति / अथ गणितकर्मविधानं, तत्र मेरुव्यासः 10000 एषां वर्गो दश कोट्यः 100000000 ततो दशभिर्गुणने जातं कोटिशतम् 1000000000 अम्य वर्गमूलानयने लब्धन्येक त्रिंशद्योजनसहस्राणि षट्शतानि त्रयोविंशत्यधिकानि३१६२३, एष राशिस्त्रिभिर्गुण्यतेजातानिचतुर्नवतिः सहस्राणि अष्टौ शतान्येकोनसप्तत्यधिकानि 64866 एषां दशभिर्भागे लब्धानि नवयोजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दशभागा योजनस्य। अथ सर्वबाह्यबाहापरिमाणमाह-'तीसे ण' मित्यादि, तस्याःतापक्षेत्रसंस्थितेः सर्वबाह्या लवणममुद्रस्यान्ते-समीपे चतुर्नवतिः योजनसहस्राणि अष्टौ च षष्ट्यधिकानिं योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण / अत्रोपपादकसूत्रमाह-- 'से णं भंते ! परिक्खेवे' इत्यादि, स भदन्त ! परिक्षेपविशेषोऽनन्तरोक्तो य इति गम्यं कुत