________________ सूरमण्डल 1058 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल चषष्टिभागमेकषष्टिधा छित्वा तस्य सत्कान्षष्टिभागान् हापयति, एतच प्रागेव भावितं, ततस्तस्मात्सर्वबाह्यान्मण्डलादक्तिने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति ध्रुवं, ततोऽक्तिनेषुमण्डलेषु यस्मिन् यस्मिन् मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यतेतत्रतत्रतृतीयमण्डलादारभ्य तत्तन्मण्डलसंख्यया षट्त्रिंशद् गुण्यते, तद्यथा-- तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्याम्, एवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायां ह्यशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते, तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशिना सहितं पूर्वपूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्रतत्रमण्डले द्रष्टव्यं, तद्यथा-तृतीये मण्डले षट्त्रिंशद् एकेन गुण्यते एकेन च गुणितं तदेव भवतीति जाता षट्त्रिंशदेव, सा धुवराशेरपनीयते, जातं शेषमिदं पञ्चाशीतिर्यो जनानि नव षष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्का एकषष्टिभागाश्चतुर्विशतिः 85-6/60 / 24/61 / एतेन सहितं पूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणत्, एकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 31616-36/60 / 60/61 / इत्येवंरूपं क्रियते, ततोऽधिकृते तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्ततापरिमाणं भवति, तच प्रागेवोपदर्शितं, चतुर्थे मण्डले षट्त्रिंशद्वाभ्यां गुण्यते, गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवतिद्वात्रिंशत्सहस्राणि षडशीत्यधिकानियोजनानामटापञ्चाशचषष्टिभागा योजनस्य एकस्य चषष्टिभागस्य सत्काएकादशैकषष्टिभागाः 32086 / 58/60 / 11/61 / एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षट्त्रिंशद् ढ्यशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य, सर्वाभ्यन्तरस्य मण्डलस्य द्व्यशीत्यधिकशततमत्वात्, ततो जातानिपञ्चषष्टिशतानि द्विपञ्चाशदधिकानि६५५२, तेषामेकषष्ट्या भागे हृतेलब्धं सप्तोत्तरं शतं षष्टिभागानां, शेष पञ्चविंशतिः 107/60 / 25 | एतत्पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागा: 85/6/60 / 60/61 / इत्येवंरूपात्ध्रुवराशेः शोध्यते, जातानि पश्चात् त्र्यशीतिर्योजनानि द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः, इह षत्रिंशत् 2 एकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते एतच प्रागेवोक्तं, तच कलान्यूनत्वं प्रतिमण्डलं भवत्यदा व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागालभ्यन्ते, ततस्ते भूयः प्रक्षिप्यन्तेततो जातमिदम् त्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः 83123/60/42/61 / एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिक योजनानां सप्तपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः 47176 / 57/60 / 16/61 / इत्येवंरूपं सहितं क्रियते ततौ यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिशष्ट्याधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य 47263 / 21/61 एवं दृष्टिपथप्राप्ततायां कतिपयेषु मण्डलेषु सातिरेकाणि पञ्चाशीति योजनानि अग्रेतनेषु चतुरशीति पर्यन्ते यथोक्ताऽधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् अभिबर्द्धयन् तावद् वक्तव्यः यावत्सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति 'ता जया ण' मित्यादि तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे एकपञ्चाशदधिके योजनशते एकोनत्रिं-शतं च षष्टिभागान् योजनस्य 5251 / 16/60 एकेन मुहूर्तेन गच्छति, तदाच इहगतस्य मनुष्यस्यजातावेकवचनम् इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्राभ्यां त्रिषष्टाभ्यां त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकत्रिंशत्या षष्टिभागैर्योजनस्य 47263 121/60 सूर्यश्चक्षुः स्पर्शमागच्छति, एतच मुहूर्त-गतिपरिमाणं दृष्टिपथप्राप्ततापरिमाणं च प्रागेवभावितम्, सूत्रकृताऽपि प्रस्तावाद्भूय उक्तम्, ततो न पुनरुक्ततादोषः 'तयाणं उत्तमकट्ठपत्ते' इत्यादि सुगम, यावत्प्राभृतप्राभृतपरिसमातिः / सू०प्र०२ पाहु० ज०। अथाऽत्र गतिप्रश्नाय सूत्रम्जया णं भंते ! सूरिए अभंतराणंतरं मंडलं उवसंकमित्ता चारं परति तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ? गोयमा ! पंच पंच जोअणसहस्साई दोण्णि अएगावण्णे जोयणसए सीआलीसंच सट्ठिभागे जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावण्णाए अ सहिभाएहिं जोअणस्स सट्ठिभागं च एगसट्टिधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अभंतरतचं मंडलं उवसंकमित्तां चारं चरइ। (सू०१३३+) "जया ण' मित्यादि, यदा भगवन् ! सर्वाभ्यनतरानन्तरं द्वितीयं दक्षिणायनापेक्षया आद्यमण्डलमुपसंक्रम्य चारचरति तदा एकैकेन मुहुर्तेन कियत्क्षेत्रं गच्छति ? गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशे योजनशते सप्तचत्वारिंशतं च षष्टिभागान् योजनस्यैकैकेन मुहुर्तेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरं व्यवहारतः परिपूर्ण निश्चयमतेन तु किञ्चिदून 315107, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागे लब्धं यथोक्तमत्र मण्डले मुहुर्तगतिप्रमाणम् 5251147/60 अथवा-पूर्वमण्डलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः पूर्णान्यष्टादश योजनानि वर्द्धन्ते निश्चयमतेन तु किञ्चिदूनानि, अष्टादशानां योजनानां षष्ट्या मागे लब्धा अष्टादश षष्टिभागायोजनस्य ते प्राक्तनमण्डलगतमुहूर्त्तगति परिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो