________________ सूरपण्णत्ति 1036 - अभिधानराजेन्द्रः - भाग 7 सुरपण्णत्ति हावीरं तिक्खुत्तो आयाहिणपयाहिणं, करेइ तिक्खु० करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- सुयक्खाए णं भंते ! निग्गंथे पावयणे, नत्थि य केइ अन्ने समणे वा माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वदित्ता जामेव दिसं पाउन्भूया तामेव दिसंपडिगया, तएणं से जियसत्त राया समणस्स भगवओ महावीरस्स अंतिए धम्मं सुचा निसम्म हवढे० जाव हयहियए समणं भगवं महावीरं वंदइ नमसइ वंदिता नमंसित्ता पसिणाइंपुच्छइ परि० पुच्छित्ता अट्ठाइं परियाएइ परियाइत्ता उट्ठाए उठेइ, उठाए उठ्ठित्ता समणं भगवं महावीरं वंदइनमसइ, स० वंदित्ता नमंसित्ता एवं वयासी-सुयक्खाए णं भंते ! निगंथे पावयणे० जाव एरिसं धम्ममाइक्खित्तए, एवं वइत्ता हत्थि दुरूहइ दुरूहित्ता समणस्स भगवतो महावीरस्स अंतियाओ माणिभद्दाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता जामेव दिसंपाउन्भूए तामेव दिसंपडिगए। (सू०३५ - 36-37) इति, इदं च सकलमपि सुगम, नवरं यामेव दिशमवलम्ब्य, किमुक्तं भवति ? यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे समागतस्तामेव दिसं प्रतिगतः / ते णं काले णं ते णं समए णं समणस्स भगवतो महावीरस्स जेठे अंतेवासी इंदभूती णामे (म) अणगारेगोतमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वारिसहनारायसंघयणे० जाव एवं वयासी। (सू०२) 'तेणं कालेणं तेणं समएणंसमणस्स भगवतो महावीरस्सजेटे अंतेवासी इंदभूई नामे अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वञ्जरिसहनारायसंधयणे० जाव एवं वयासी' इति-तस्मिन् काले तस्मिन् समये, णंशब्दो वाक्यालकारार्थः, श्रमणस्य भगवतो महावीरस्यज्येष्ठ इति-प्रथमः, अन्तेवासी-शिष्यः, अनेन पदद्रयेन तस्यसकलसंघाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, 'नाम' ति प्राकृतत्वात् विभक्तिपरिणामेन नाम्नेति द्रष्टव्यम् अन्तेवासी च किल विवक्षया श्रावकोऽपि स्यात् अतसतदाशकाव्यवच्छेदार्थमाह-अनगारः न विद्यते अगारं- गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण गौतमायगोत्रसमन्वित इत्यर्थः, अयं चतत्कालोचितदहेपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधःसप्तहस्तप्रमाणशरीरोच्छ्रायः, अयं चेत्थंभूतो लक्षणहीनोऽपि सम्भाव्येत अतस्तदाशङ्कापनोदार्थमाह- 'समचतुरस्रसंस्थानसंस्थितः समाःशरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽसयो यस्य तत्समचतुरस्रम् अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुः--समाअन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत्समचतुरसम्, अस्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् 1, आसनस्य ललाटोपरिभागस्य चान्तरम् 2. दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् 3, वामस्कन्धस्य दक्षिणजानुनश्चान्तर 4, मिति, अपरे त्वाहुः-विस्तारोत्सेधयोः | समत्वात्समचतुरसम्तच तत्संस्थानंचसमचतुरस्रसंस्थानम्-आकारस्तेन संस्थितोव्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि केनचित्सम्भाव्यते तत आह-- 'वज्जरिसहनारायसंधयणे' नाराचम्उभयतो मर्कटबन्धः ऋषभः-- तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, 'जाव एवं वयासी' " इति, यावच्छब्दोपानादिदमनुक्तमप्यवसेयम्-'कणगपुलगनिधसपम्हगोरे उग्गतवे दित्ततवे महातवे उराले घोरे घोरगुणि धोरतवस्सी धोरबंभचेरवासी उच्छूढसरीरे संखित्तबिउलतेउलेसे चउद्दसपुव्वी चउणाणोवगए सव्वक्खरंसनिवाई समणस्स भगवओ महावीरस्स अदूरसामंते उद्बुजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं से भयवं गोयमे जायसङ्घजायसंसए जायकोउहले उप्पन्नसड्ढेउप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पण्णसड्डेसमुपानसंसए समुप्पन्नकोउहल्ले उहाए उद्वेइ उठाए उद्वित्ताजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, आयाहिणपयाहिणं करित्ता वंदइ णमंसइ वंदित्ता नमंसित्ता णच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासे-- माणे एवं वयासी'-अस्यायमर्थः-कनकस्य-सुवर्णस्य यः पुलकोलवस्तस्ययो निकषः-(कषः) पट्टके रेखारूपः, तथापद्मग्रहणेनपाकेसराण्युच्यन्ते, अवयवे समुदायोपचारात्, यथा पद्मकेसराण्युच्यन्ते, अवयवो देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्ट्वा लोको वदतिदेवदत्तो मया स्पृष्ट इति, ततः कनकेषु (कस्य) पुलकनिकषवत्पद्मकेसरवच्च यो गौरः सकनकपुलकनिकषपद्मगौरः। अथवा-कनकस्य यः पुलकोद्रुतत्वेसति बिन्दुस्तस्य निकषोवर्णः तत्सदृशः कनकपुलकनिकषः, तथा पद्मवत्पद्मकेसर इवयो गौरः सपद्मागौरः, ततः पदद्वयस्य कर्मधारयः समासः / अयं च विशिष्टचरणरहितोऽपि शक्येत अत आहे- 'उग्गतवे' उग्रम्अप्रधृष्यं तपः- अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमापि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तंजाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपोधर्मध्यानादि यस्य स तथा, 'तत्ततवे' ति–तप्तं तपो येन स तप्ततपाः, एवं हितेन तपस्तप्तं येन सर्वाण्यप्यशुभानि कर्माणि भस्मसात्कृतानीति, महत्प्रशस्तमाशंसादोषरहितत्वात्तपो यस्य स महातपाः, तथा 'उराले' त्ति-- उदार:-प्रधानः, अथवा-ओरालो-भीष्मः, उग्राहि-विशेषणतः पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, तथा घोरोनिघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इत्यर्थः, तथा घोराअन्यैर्दुरनुचरा गुणाज्ञानादयो यस्य स तथा, तथा घोरैस्तपोभिसतपस्वी,'घोरबंभचेर-- वासि' त्ति घोरंदारुणं अल्पसत्त्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत्तत्र वस्तुं शीलं यस्य स तथा, उच्छूढम्-उज्झितमिव उज्झितंसंस्कारपरित्यागात्शरीरं येन स उच्छूढशरीरः, 'संखित्तविउलतेउलेसे' त्ति-संक्षिप्ताशरीरान्त